________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६ विश्वगुणादर्शचम्पू:
[भिषगमा बोधि वैद्यकमथापि महामयेषु
प्राप्तेषु यो भिषगिति प्रथितस्तमेव ॥ आकारयत्यखिल एव विशेषदर्शी
लोकोऽपि तेन भिषगेष न दूषणीयः ॥ ५४०॥ कष्टमहो कृतोपकारेप्वगदकारेषु कृतघ्न एव निर्विवेको लोकः ।
इत्थं हि कवयः कथयन्ति ॥ २३२ ॥ निर्वृत्ताध्वरकृत्य ऋत्विजमथोत्तीर्णापगो नाविकम्
युद्धान्ते सुभटं च सिद्धविजयो वोढारमाप्तस्थलः ॥ वृद्धं वारवधूजनं च कितवो निर्वृष्टतद्यौवनो
ध्वस्तातङ्कचयश्चिकित्सकमपि द्वेष्टि प्रदेयार्थिनम् ॥ ५४१ ॥
'न धातोर्विज्ञानं नच परिचयो वैद्यकनये' इत्यादिनोक्तं दूषणं परिहर्तुमाहमा बोधीति । अयं वैद्यः वैद्यक शास्त्रं मा बोधि मा ज्ञासीत् 'बुध अवगमने' इत्यस्मात् माङयोगाल्लुङि अडागमाभावः “दीप-जन-बुध-" इत्यादिना विकल्पेन चिण् । तथापि आमयेषु रोगेषु प्राप्तेषु सत्सु विशेषदर्शी समयविशेषेण कार्याकार्यद्रष्टा अखिल एव सर्वोऽपि जनः भिषक् वैद्यः इति यो लोके प्रथितः प्रसिद्धः तमेव आकारयति आह्वयति । तेन कारणेन एष भिषक् वैद्यः न दूषणीयः । अयं भावः-वैद्यक्रिया हि न तावत्सर्वकालमेव ग्रन्थज्ञानमवलम्ब्य भवति, किंतु विशेषतः अनुभवज्ञानमवलम्बते । ततश्च यदि केषांचित् गुरुपरंपरया रोगपरीक्षणं तत्परिहत्रौषधविज्ञानं च स्यात् , तदा न ग्रन्थावगतिरावश्यकी, तत एव च तादृशां दोषारोपोऽपि वृथैवेति ॥ ५४० ॥
कष्टमिति । कृतोपकारेष्वप्यगदंकारेषु वैद्येषु विषये “अगदंकारो भिषग्वैद्यौ चिकित्सके" इत्यमरः । निर्विवेकः विचाररहितः अत एव कृतं औषधादिना संपादितमारोग्यं हन्तीति कृतन्नः लोकः, इति अहो कष्टमन्याय्यम् ॥ २३२ ॥
उक्तार्थे वृद्धसंमतिमाह-निर्वृत्तेति । निर्वृत्तं समाप्तं अध्वरकृत्यं यज्ञकृत्यं यस्य सः जनः, प्रदेयं दक्षिणादिद्रव्यं पूर्व प्रतिज्ञातं अर्थते याचते इति प्रदेयार्थी तं, एतदेव विशेषणं प्रतिद्वितीयान्तं योजनीयं द्वेष्टीति क्रियापदं च । ऋत्विजं यज्ञ कर्तारं द्वेष्टि, उत्तीर्णा लविता आपगा नदी येन सः नाविकं कर्णधार, सिद्धः विजयः शत्रोरुत्कर्षप्राप्तिर्यस्य सः, युद्धान्ते समरावसाने सुभटं वीरपुरुषं, आप्तं प्राप्तं स्थलं गन्तव्यस्थानं येन सः वोढारं वाहक, निष्टं असकृदुपभोगेन विनाशितं तस्य वारस्त्रीजनस्य यौवनं तारुण्यं येन सः कितवो धूर्तः अत एव वृद्धं वारवधूनां वेश्यानां
१ 'वैद्यककलामयमामयेषु'. २ 'युध्यन्तं'. ३ 'कुविटो'. ४ निविष्ट'.
For Private And Personal Use Only