________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४६] पदार्थचन्द्रिकाटीकासहिता । २८७
अथ कविवर्णनम् ४६.
- - इति विमानमग्रतश्चालयन्नग्रतोऽवलोक्य सोपालम्भम्कृ०-सखेऽत्र पश्य कवीनामेषां शास्त्रैविप्रतिषिद्धां चर्याम् २३३ श्रीनाथस्तवनानुरूपकवनां वाणी मनोहारिणीम् __ कष्टं हा कवयः कदर्यकुटिलक्ष्मापालसात्कुर्वते ॥ दूरोपाहृतसौरसैन्धवपयो देवाभिषेकोचितम्
संसेके विनियुञ्जते सुमतयः शाकालवालस्य किम् ? ॥५४२ ॥ किंचस्तुवद्भवनिवर्तके सति हरौ कविः सूक्तिभिः
करोति वरवर्णिनीचरितवर्णनं गर्हितम् ॥ अनीतिरवनीपतिहशुनीतर्नु मौक्तिकैविभूषयति देवतामुकुटभागयोग्यैर्यथा ॥ ५४३ ॥
जनं समूहं च, ध्वस्तो विनष्टः आतङ्कानां रोगाणां चयः समुदायो यस्य सः चिकित्सकं वैद्यं चापि द्वेष्टि ॥ ५४१ ॥
अथ कविवर्णनं सूचयितुमवतारयति-इतीति । सोपालम्भं सनिन्दम् ॥
सख इति । हे सखे विश्वावसो! अत्रास्मिन् देशे एषां कवीनां शास्त्रैविप्रतिषिद्धां निषिद्धां चर्यामाचारं पश्यावलोकय ॥ २३३ ॥
श्रीनाथेति । श्रीनाथस्य भगवतो लक्ष्मीपतेः स्तवने स्तुतौ अनुरूपं योग्य कवनं शब्दनिवेशनचातुर्यं यस्याः सा तां अत एव मनोहारिणी सहृदयजनचित्ताकर्षिणी वाणी एते कवयः कदर्याः कृपणाः "कदर्ये कृपण-क्षुद्र-किंपचान-मितंपचाः।" इत्यमरः । कुटिलाः वक्रान्तःकरणाश्च ये क्षमापाला भूपालास्तेषां अधीनां कुर्वते कुर्वन्ति । हा कष्टमिति खेदे । एतदेव दृष्टान्तेन द्रढयति-दूरोपाहतेति । दूरात् शतशो योजनप्रदेशात् उपाहृतमानीतं सुरसिन्धोः गङ्गायाः इदं सौरसैन्धवं यत् पयः उदकं तत् अत एव देवस्य श्रीसेतुबन्धरामेश्वरादेः अभिषेके उचितं योग्यं सुमतयः सुबुद्धयो जनाः शाकस्य शाकवृक्षस्य आलवालं तस्य संसेके निषेचने विनियुञ्जते उपयुञ्जते किम् ? अपि तु नैवेत्यर्थः ॥ ५४२ ॥
स्तुवदिति । स्तुवतां स्तुतिं कुर्वतां जनानां भवनिवर्तके संसारनिवर्तके हरौ विष्णो सत्यपि कविः सूक्तिभिः मधुरवाणीभिः गर्हितं सद्भिनिन्यं वरवर्णिन्याः स्त्रियाश्चरितस्य वर्णनं नेत्र-वदनाद्यवयवप्रशंसारूपं करोति । किंच कतिपये कवयः
For Private And Personal Use Only