________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता ।
१३७ स यासां व्याकर्ता चुलुकितसमुद्रो मुनिवरः __प्रबन्धारः प्रौढाः शठमथनमुख्याः शमधनाः ॥ प्रवक्तारः शुद्धाः प्रथितयशसः पूर्वगुरवो
गिरांपारे तासां जयति गरिमा द्राविडगिराम् ॥ २४५ ॥ यश्चैकदेशविषयदूषणोपन्यासस्तत्राप्याकर्ण्यताम् ॥ ९८ ॥
तेनानुशिष्टानां व्युत्पन्नानां, अनवद्याः स्तुत्याः ये शिष्टाः तेषां परिग्रहविशेषेण आदरातिशयेन प्रकृष्टानामुत्तमानां द्राविडशब्दानां, प्रबन्धगतानामिति शेषः । को नाम संस्कृतादपकर्षः निकृष्टत्वम् ? ॥ ९७ ॥
स इति । यासां द्राविडवाणीनामिति वाक्यत्रयेऽपि योज्यम् । व्याकर्ता व्याकरणेन संस्कारकर्ता तु, चुलुकितः आचमनमात्रेणैव प्राशितः समुद्रो येन तथाभूतः, सः प्रसिद्धः मुनिवरोऽगस्त्यः, प्रबन्धारः भाषाग्रन्थकारश्च प्रौढाः प्रगल्भाः शठमथनमुख्याः शठकोपादयः, शमो बाह्येन्द्रियनिग्रहस्तद्रूपमेव धनं येषां तथाभूता मुनयः, किंच प्रवक्तारः अध्यापकाश्च, शुद्धाः अन्तर्बाह्येन्द्रियदमनेन शुद्धान्तःकरणाः, प्रथितयशसश्च, पूर्वे गुरवः रामानुजादयः । सर्वत्र भवतीत्यादि यथायोग्यं वचनविपरिणामेनानुसंधेयम् । तासां द्राविडगिरां गरिमा महत्त्वं, गिरांपारे जयति । वाचामविषय इत्यर्थः ॥ २४५ ॥
इदानीं 'घण्टाघोषं' त्यजन्तः-' इत्यादिश्लोकैरुपन्यस्तदूषणमुद्धारयन्नाहय इति । एकदेशः पूजायां घण्टानादाकरण-यज्ञादिकर्मत्यागादिरूपः विषयः येषां तेषां दूषणानामुपन्यासः कथनम् ॥ ९८ ॥
इतः परं दश पद्यानि सप्त गद्यानि चात्र मुद्रितपुस्तके अधिकान्युपलभ्यन्ते, प्राचीनपुस्तकेषु, अस्मत्संपादितादर्शपुस्तके च तानि नोपलभ्यन्त एव । तस्मात्तानि केनचित्प्रक्षिप्तानीति भाति । एतद्विषये च मुद्रितपुस्तके टीकाकारः, 'ग्रन्थका वेङ्कटाध्वरिणा 'तेङ्गले' इत्याख्यानां दोषानुद्वाट्य तन्निवारणं सम्यक्तया न कृतमिति मत्वाऽन्येन केनचित्तेङ्गलसंप्रदायिना खसंप्रदायोपर्यारोपितदोषनिरसनार्थमयमंशः प्रक्षिप्तः' इति वदति च । अतस्तेषां मूले निवेशोऽयुक्त इति अत्रैव वाचकानां परिज्ञानार्थ निवेश्यन्ते । तेषां टीका च टिप्पणीस्थले यथावलोकनं निवेशिता । मूलबहिर्भूतत्वान मया पृथक् टीकाकरणे यतितम् । यथाकिंचयज्ञान पञ्च च संचितात्मधिषणा मान्यानथान्याध्वरान
तत्तद्देवशरीरमाधवमुखोल्लासावहानप्यमी॥
यशानिति। संचिता आत्मधिषणा आत्मज्ञानसाक्षात्कारः यैस्ते। ज्ञानिन इत्यर्थः। अमी रामानुजीयाः । “पञ्च वा महायज्ञा ब्रह्मयज्ञो देवयज्ञो भूतयज्ञः पितृयज्ञो मनु
For Private And Personal Use Only