________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [श्रीरामानुजबकुलविभूषणेन गुरुणा करुणानिधिना
श्रुतिमुकुटाभिसन्धिमवधार्य परं गहनम् ॥ रचितमिह प्रबन्धमनुसंदधतां कथितम्
सममपि दूषणं स्मृति-पुराणमधीतवताम् ॥ २४३ ॥ किंचउपादेयं प्राज्ञैरुचितविषयं द्राविडवचो
ऽप्ययुक्तार्थ हेयं भवति वचनं संस्कृतमपि ॥ हरिं बिभ्रच्चेतस्यनतिसुभगोऽपि स्तुतिपदम्
न सद्रूपोऽप्यन्तःकरणधृतनारीस्तनभरः ॥ २४४ ॥ वस्तुतस्त्वगस्त्यव्याकरणानुशिष्टानामनवद्यशिष्टपरिग्रह विशेषप्रकृष्टानां द्राविडशब्दानां को नाम संस्कृतादपकर्षः ॥ ९७ ॥ पश्यकश्चिन्मुनिः सः प्रभृतिर्मुख्यो येषु तैः सत्त्वस्थमुनिभिः सत्त्वगुणयुक्तऋषिभिः, एतेन तेषां शम-दमादिसाधनसंपत्तिमत्त्वं, काम-क्रोधादिराहियं च सूचितम् । निमितदिव्यप्रबन्धानां अज्ञजनज्ञानार्थे विरचितदिव्यभाषाग्रन्थानां अध्ययने यश्च दोषः उद्घाटितः प्रकटीकृतः सोयं इतिहास-पुराणादिभिर्वेदमुपबृंहयद्भयो वर्धयझ्यः सद्भयः, व्यास-वसिष्ठसदृशसज्जनेभ्यो न रोचते । अनेन इतिहास-पुराणानि यथा वेदोपबृंहणानि, तथैवैतेषां भाषाप्रबन्धा अपीति सूचितम् ॥ ९६ ॥ __ एतदेव सविस्तरमुपपादयति-बकुलेति । करुणानिधिना अत एव बकुलविभूषणेन शठकोपेन गुरुणा, श्रुतिमुकुटानां उपनिषदां अभिसन्धि तात्पर्य परमुत्कृष्टं गहनं दुईयं अवधार्य निश्चित्य रचितम् । द्राविडभाषयेति शेषः । प्रबन्धं अनुसंदधतां पठतां यत् दूषणं कथितं, तत् दूषणं स्मृतिः मानवादिः पुराणानि वैष्णव-भागवतादीनि च । “नपुंसकमनपुंसकेन” इत्यादिना एकवद्भावः । अधीतवतां तत्पठनं कुर्वतामपि समं, वेदार्थोपबृंहकत्वाविशेषादिति भावः ॥ २४३ ॥ : ननु तथात्वेऽपि प्रबन्धस्य द्रविडदेशभाषामयत्वेन “देशभाषामयं काव्यं श्रोतव्यं जातु न द्विजैः।" इति स्मरणादनुचितमेव तत्पठनमित्याशङ्कयाह-उपादेय. मिति । उचितः योग्यः विषयः प्रतिपाद्यं यस्य तत् द्राविडवचः प्रबन्धरूपमपि, प्राझैमनीषिभिः उपादेयं स्वीकार्य भवति । अयुक्तार्थ अनुचितविषयं संस्कृतमपि वचनं भाण-प्रहसनादिरूपं हेयं त्याज्यं च भवति । उक्तेऽर्थे दृष्टान्तमाह-न अतिसुभगः सुन्दरः अनतिसुभगः कुरूपोऽपि, हरिं चेतसि अन्तःकरणे बिभ्रत् धारयन् जनः स्तुतेः पदं स्थानं भवति । सद्रूपोऽपि सुरूपसंपन्नोऽपि अन्तःकरणे चेतसि धृतः नारीस्तनभरः स्त्रीस्तनसौन्दर्य येन तादृशः जनः स्तुतिपदं न भवति । दृष्टान्तालंकारः ॥ २४४ ॥
वस्तुतस्त्विति । अगस्त्यव्याकरणं 'इलकणं' इति भाषानामप्रसिद्धं
For Private And Personal Use Only