________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३] पदार्थचन्द्रिकाटीकासहिता।
२७ कृशानुः-साङ्गिीकारम्
कामं जनाः केऽपि गुणाभिरामाः क्षमातले सन्तु युगान्तरेषु ॥
कलौ युगेऽस्मिन् गुणलेशवन्ध्याः सर्वेऽपि खर्वेतरदोषभाजः॥३०॥ किंचमन्देतरस्मरमलीमसमानसानां
मन्यु-स्पृहा-दुरभिमान-मदास्पदानाम् ॥ काले कलौ कलुषतः कलितोदयानां
दोषाय दृष्टिरपि हन्त दुरीश्वराणाम् ॥ ३१ ॥
रां गृहीत्वा तस्मै स्वतारुण्यं ददौ । पुरूरवा अयमपि सोमवंशीयो बुधसुतः ऐलनामा राजा। यत्सौन्दर्यमोहिता उर्वशी खर्लोकात् भूलोकमाययौ । अस्यैव पुत्रो नहुषः । य इन्द्रस्य ब्रह्महत्यादोषावसानपर्यन्तं सुरलोकमशिषत् । शिबिः यः स्वमांसं श्येनाय समर्प्य कपोतं शरणागतं ररक्ष । रुक्माङ्गदो नाम भगवतः श्रीविष्णोः परमभक्तः, यः एकादशीव्रतं सर्वराष्ट्र प्रवर्तयामास । एतद्द्योतनार्थमेव पुण्य इति तस्मै विशेषणं दत्तम् । वैदेहो जनकः, यो राज्यकर्ता सन्नपि देहाद्यासक्तिरहित आसीत् शुकाचार्यस्य तत्त्वोपदेष्टा च । हैहयदेशानामधिपतिः सहस्रार्जुनः । यस्य श्रीदत्तप्रसादात् बाहुसहस्रं शत्रुभ्योऽपरिभूतत्वं च संप्राप्तम् । अत एव वीरः इति तद्विशेषणं संगच्छते । एते प्रशस्तं स्तुत्यं यशः कीर्तिर्येषां तथाविधा नृपाः राजानः, न प्रादुर्बभूवुः किम् ? अपि तु एवंविधाः शतशो मानवा बभूवुरित्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ २९ ॥
एवं तद्वचनं श्रुत्वा पुनरपि एतेषां कृतादिपूर्वयुगभवत्वात्सांप्रतं कलियुगे तच्चरित्रमनुपयुक्तमित्यभिप्रेत्याह कृशानु:-काममिति । गुणैः सौशील्यादिभिः अभिरामाः मनोहराः केपि अनिर्वाच्याः, पूर्वोक्ता मांधातृप्रभृतयो जनाः लोकाः, युगान्तरेषु एतत्कलियुगादन्येषु कृतादियुगेषु, मयूरव्यंसकादिसमासः । अन्यानि युगानि युगान्तराणीति विग्रहः । क्षमातले पृथ्वीतले, कामं यथेष्टं । “कामं प्रकामं पर्याप्त निकामेष्टं यथेप्सितम्" इत्यमरः । सन्तु भवन्तु । किंतु अस्मिन् कलौ कलिसंज्ञके युगे, गुणस्य लेशेन लवेन "लव-लेश-कणाणवः” इत्यमरः । वन्ध्या हीनाः, गुणस्य यत्किंचिदंशेनापि रहिता इत्यर्थः । एवंविधाः सन्तः सर्वेऽपि सकला एव न तु केचिदेव । खर्वात् अल्पात् इतरे खतरे तान् महत इति यावत् , दोषान् भजन्ति सेवन्ते इति तथाभूताः । विद्यन्ते इति शेषः । वृत्तमुपजातिः । लक्षणमुक्तं प्राक् ( ५ श्लोकटीकायाम् ) ॥३०॥
दोषभाक्त्वमेव प्रपश्चयति-मन्देतरेति । मन्देतरो बहुलश्चासौ स्मरश्च कामः १ सन्ति'. २ एतत्कचित् पुस्तके नैवोपलभ्यते. ३ 'कलुषताक०'.
For Private And Personal Use Only