________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १२] पदार्थचन्द्रिकाटीकासहिता ।
विजहंति न कदाचिद्वेदपाठैकयोग्ये ___ वयसि च यवनानीवाचनाभ्यासमेते ॥ १३४ ॥ अपि चअज्ञानामविरामलौकिकवचोभाजाममीषां पुन
मन्त्रोच्चारण एव पर्यवसितं मौनव्रतं कर्मसु ॥ ग्रामाय-व्ययलेखनेन नयतां कालानशेषानहो __ पारंपर्यत ईदृशामिह नृणां ब्राह्मण्यमन्यादृशम् ॥ १३५॥
अन्यच्च
कुक्षेः पूर्यं यवननृपते त्यकृत्यानि कर्तुम्
विक्रीणीते वपुरपि निजं वेतनैरेतदास्ताम् ॥ बलार्थिनः षष्ठे वैश्यस्येहार्थिनोऽष्टमे” इत्यादिकामनाभेदेन विशेषः तस्य न विद्यते अभिज्ञा ज्ञानं ययोस्तौ, अत एव उत्सवः एव एकं मुख्यं प्रधान प्रयोजनं ययोस्तौ तथाभूतौ संवृत्ताविति । अनेन निमित्तेन सुहृत्संबन्धिजनानेकीकृत्य मिष्टान्नभोजनादिरूपसमारम्भार्थमेवोपनयन-विवाहकरणमित्यर्थः । न तु वेदोपदेशाद्यर्थमिति भावः । कुत एतज्ज्ञायते इत्यत आह-एते जनाः वेदस्य पाठः पठनं विधिवदध्ययनमिति यावत् । तदेकयोग्ये वेदाध्ययनमात्रपरतया नेतुमुचिते वयसि कदाचिदपि यवनान्याः यवनलिपेः “इन्द्र-वरुण-भव-शर्व-" इत्यादिसूत्रस्थेन “यवनाल्लिप्याम्" इति वार्तिकेन यवनशब्दाल्लिप्यर्थे आनुगागमो डीप् च । वाचनाभ्यासं सततपरिशीलनरूपं न विजहति न त्यजन्ति ॥ १३४ ॥
अज्ञानामिति । अपि च अज्ञानां कर्तव्याकर्तव्यज्ञानरहितानामत एव अविराम विश्रामरहितं यथा स्यात्तथा लौकिकवचांसि लोकवार्तालापान भजन्ति कुर्वन्ति तथाभूतानां, न तु वेदशास्त्रभाजां, अमीषां लोकानां कर्मसु श्रौत-स्मार्तादिकर्मसु मन्त्रोच्चारणे तत्तत्कर्माङ्गभूतमन्त्रपठने एव, मौनव्रतं पर्यवसितं अवसन्नं आश्रितमिति यावत् । लौकिकवचांसि तु बहूनि भाषन्ते इत्यर्थः । किंच पुनः ग्रामस्य संबन्धिनौ यौ आय-व्ययौ तयोर्लेखनेन अशेषान् प्रातःकालमारभ्य सायंकालपर्यन्तमित्यर्थः । कालान् नयतां गमयतां, पारंपर्यतः वंशपरंपरया ईदृशां नृणां लोकानां, इह महाराष्ट्रदेशे ब्राह्मण्यं ब्राह्मणकर्म, अन्यादृशं अन्यब्राह्मणविलक्षणं शूद्रप्रायमिति यावत् ॥ १३५ ॥
अन्यच्चापि निन्द्यतमं कृत्यमाह-कुक्षेरिति । अयमेतद्देश निवासी जनः, विप्रो ब्राह्मणो भूलापि, यवननृपतेर्लेच्छजातीयराज्ञः भृत्यकलानि सेवककृत्यानि कर्तु, तञ्च केवलं कुक्षेः पूत्यै खोदरभरणायैव न तु खामिभक्त्यथै, वेतनैः मासिकद्रव्यखी
१ 'विदधति च कदाचित्'. २ 'यवनानां'. ३ 'यवनविततेः'.
For Private And Personal Use Only