________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
८४
विश्वगुणादर्शचम्पू:
[ महाराष्ट्र
कृ० – सखे किं प्राक्कालीन चरित्रमधुना कथयसि ? अधुना किल कलि
मौलिन्यादीदृशी रीतिरेतद्देशवासिनामासीत् ॥ ४३ ॥
तथाहिअपारैर्व्यापारैरहरिह नयन्तोऽशनैदशा
स्वथ स्नाताः संध्यां विदधति न जातु खसमये ॥ त्यजन्तः खां वृत्तिं द्विजकुलैभवा ग्रामगणकी
भवन्तो हन्तामी कथमपि च जीवन्ति बहवः ॥ १३३ ॥
किंच
---
‘उपनयन–विवाहावुत्सवैकप्रधानौ' कलिविभवत एषां कालभेदानभिज्ञौ ||
गृहस्था लोकाः, श्रद्धातः आस्तिक्यबुद्धया मुहुर्वारंवारं अतिथिपूजामभ्यागतसत्कारं विदधते कुर्वते । न त्वैश्वर्यस्य व्यसनादिनां विषयासक्त्या वा दुरुपयोगं कुर्वन्तीत्यर्थः ॥ १३२ ॥
सख इति । हे सखे, प्राकालीनं कृतयुगादिपूर्वकालभवं चरित्रमधुना सांप्रतं किं कुतो हेतोः कथयसि ? कुतो वा प्राकालीनं चरित्रमधुना न कथनीयमित्याशङ्कयाहअधुना किल सांप्रतं तु, कले: कलियुगस्य मालिन्यात् मलिनत्वात् पापप्रचुरत्वादित्यर्थः । एतद्देशवासिनां महाराष्ट्रवासिनामीदृशी वक्ष्यमाणप्रकारा रीतिराचारः आसीत् अस्तीत्यर्थः । प्रकृतवर्णनस्य वर्तमानकालीनत्वाल्लङ् प्रामादिक इति भाति ॥ ४३ ॥
अपारैरिति । तथाहि अपारैर्बहुभिर्व्यापारैर्मामायव्ययलेखन कृषिवाणिज्यादिरूपैः कर्मभिः इह देशे, अहः दिवसं नयन्तः सन्तः, अथ अशनदशासु भोजनावसरेषु न तु संध्याकालसमये, स्नाताः कृतस्नानाः अत एव जातु कदापि स्वसमये शास्त्रविहितकाले, संध्यां न विदधति नानुतिष्ठन्ति । किंच अमी बहवः न तु द्वित्राः द्विजकुलभवाः ब्राह्मणान्वयोत्पन्ना अपि, स्वां स्वकीयां याजनाध्यापन - प्रतिग्रहादिरूपां वृत्तिं जीविकां "वृत्तिर्वर्तनजीवने" इत्यमरः । त्यजन्तः सन्तः, ग्रामेषु गणकीभवन्तः ग्रामाय - व्ययलेख करूपा भवन्तः सन्तश्च कथमपि निषिद्धाचरणादिरूपया तुच्छवृत्त्या जीवन्ति । एतादृशनीचजनाधिष्ठितदेशस्य का नाम प्रतिष्ठेति भावः ॥ १३३ ॥
उपनयनेति । किंच उपनयनं व्रतबन्धश्च विवाहश्च तौ, एषां लोकानां कलिविभवतः कलिमाहात्म्यात्, कालस्य " गर्भाष्टमेऽब्दे कर्तव्यं ब्राह्मणस्योपनायनम्" इत्यादिशास्त्रविहितस्य भेदः ब्राह्मण-क्षत्रियादिभेदेन विशेष: “गर्भादेकादशे राज्ञो गर्भातद्वादशे विशः" इत्यादिरूपः, अथवा " ब्रह्मवर्चसकामस्य कार्य विप्रस्य पञ्चमे । राज्ञो
,
1
२ 'प्राक्कालिकं चरित्रं', 'चारित्र्यं'. २ ' कलयसि' ३ ' माहात्म्यात्'. ४ 'दशदिशास्त्र' ५ ' द्विजकुलभुवां' ६ 'कालभेदानभिज्ञा:'.
For Private And Personal Use Only