________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८३
-वर्णनम् १२ ] पदार्थचन्द्रिकाटीकासहिता ।
अथ महाराष्ट्रवर्णनम् १२०
इति विमानं सुदूरमानयन् वन-जनपद-सरिगिरिप्रभृतीनवेक्ष्य सेविस्मयमीश्वरमुद्दिश्यकत्यौषधीः कति तरून् कति वो महीध्रान् ।
कत्यम्बुधीन् कति नदीः कति पुंस एतान् । कत्यङ्गनास्त्वमसृजः कति नाथ देशान् ___ मन्ये तवैष महिमा नहि माति बुद्धौ ॥ १३१ ॥ इत्यन्यतो गच्छन् पुरतोऽवलोक्य सबहुमानम्महाराष्ट्राभिख्यो मधुरजलसान्द्रो निरुपमः
प्रकाशो देशोऽयं सुरपुरनिकाशो विजयते ॥ गृहस्था यत्रामी गुणजलधयः केऽपि विभवैः __ समृद्धाः श्रद्धातो मुहुरतिथिपूजां विदधते ॥ १३२ ॥
अथ महाराष्ट्रदेशवर्णनं सूचयन्नाह-इतीति । इत्युक्त्वा सुदूरं विमानमानयन् प्रापयन् वनानि च जनपदा देशाश्च सरितो नद्यश्च गिरयः पर्वताश्च ते प्रभृतयो मुख्या येषु तान् देशानवेक्ष्य दृष्ट्वा, सविस्मयमाश्चर्यसहितं यथा तथा ईश्वरमुद्दिश्याहेति।
कतीति । हे नाथ जगदुत्पादक प्रभो, त्वं कति कियत्संख्याकाः औषधीवल्लीसस्यमुख्या फलपाकान्ताः, तथा तरून वृक्षांश्च कति, महीध्रान् पर्वतान् , अम्बुधीन् समुद्रान् , नदीः, एतान् दृश्यमानान् पुंसः पुरुषान् , तथा अङ्गनाः स्त्रियश्च, देशांश्च, कति असंख्यातानित्यर्थः । असृजः सृष्टवानसि ? । तस्मात् हे प्रभो, एष तव अगाधसर्गकर्तृत्वरूपो महिमा माहात्म्यं, बुद्धौ नहि माति न प्रवेष्टुं शक्नोति, इति मन्ये,इति निश्चिनोमीत्यर्थः ॥ १३१ ॥
इतीति । इत्यन्यतोऽन्यत्र गच्छन् पुरतोऽग्रभागेऽवलोक्य बहुमानेन सहित यथा तथा प्राह
महाराष्ट्रेति । मधुरं खादु च तज्जलं च तेन सान्द्रः पूर्णः अत एव निरुपमः उ. पमारहितः प्रकाशः प्रसिद्धः "प्रकाशोऽतिप्रसिद्धेऽपि" इत्यमरः । अत एव च सुर. पुरस्य वर्गलोकस्य निकाशः सदृशोऽयं महाराष्ट्र इति अभिख्या नाम यस्य सः "अभिख्या नाम-शोभयोः" इत्यमरः। विजयते सर्वोत्कर्षेण वर्तते । यत्र महाराष्ट्रदेशे, अमी गुणजलधयः विद्यादिसद्गुणसमुद्राः, विभवैरैश्वर्यैश्च समृद्धाः परिपूर्णाः, केऽप्यनिर्वाच्यप्रभावाः विद्यादिगुणानामैश्वर्यस्य चैकत्र वासस्य दुर्लभत्वादित्यर्थः । १ 'सबहुमानं'. २ 'कति नो'.
For Private And Personal Use Only