________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् ३४ ] पुनः सविस्मयम्—
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पदार्थचन्द्रिकाटीकासहिता ।
२३७
नगरूपमुपैति युक्तमङ्गीकृतशाखोऽपि सुपर्ण उन्नतोऽपि ॥ विनतैकविधेय एष चित्रं स्थिरमामोदमगीन्मधोर्विपक्षात् ॥४३६ ॥
अथ सर्वतः पुरीं निरीक्ष्य साञ्जलिबन्धम् --
श्रीवल्लभदासेभ्यः श्रीरङ्गक्षेत्रनित्यवोसेभ्यः ॥ त्रुटितभवत्रासेभ्यो नमोऽस्तु कृतशिष्यधीविकासेभ्यः ।। ४३७ ॥ कृ० – सखे! सर्वानेतत्पुरवास्तव्यान्मा स्म भवान्नमस्कार्षीत् ॥ १८३ ॥
निबिरीसगुणस्तोमैर्हरिदासैरलंकृते ॥
अट्टशूलाः कतिपये पट्टनेऽस्मिन्प्रतिष्ठिताः ॥ ४३८ ॥
नगेति । अङ्गीकृताः स्वीकृताः शाखाः शिफाः ऋग्वेदादिशाखाश्च येन सः तथाभूतोऽपि अत एव उन्नतः उच्चोऽपि सुष्ठु पर्णानि पलाशानि पक्षाश्च यस्य सः गरुडः नगस्य वृक्षस्य मेरुपर्वतस्य च रूपं साम्यं उपैति प्राप्नोतीति तु युक्तं योग्यमेव । परंतु एषः विनतानां नम्राणां विनताभिधायाः स्वमातुश्व एकः अद्वितीयः विधेयः वचनग्राही आज्ञाधारक इत्यर्थः । " विधेयो विनयग्राही" इत्यमरः । मधोर्वसन्तस्य मधुनामकदैत्यस्य च विपक्षात् शत्रोः विष्णोश्च स्थिरमनश्वरं आमोदं सुगन्धं आनन्दं च अगात् प्राप्तवानिति यत्, एतदेव चित्रमाश्चर्यम् । श्लेषमूलको विरोधाभासोऽलंकारः ॥ ४३६ ॥
श्रीति । श्रीवल्लभस्य भगवतो विष्णोः दासेभ्यो भक्तेभ्यः श्रीरङ्गक्षेत्रे नित्यं वस्तुं शीलं येषां तथाभूतेभ्यः अत एव त्रुटितः भवस्य संसारस्य त्रासो येषां तेभ्यः कृतः शिष्याणां धियो बुद्धेः विकासः विविधशास्त्राध्यापनेन प्रकाशो यैस्तेभ्यश्च नमः अस्तु ॥ ४३७ ॥
सख इति । सर्वान् एतत्पुरस्थान् रङ्गक्षेत्रनिवासिनो जनान् भवान् मा स्म नमस्कार्षीत् मा नमस्करोतु ॥ १८३ ॥
निबिरीसेति । निबिरीसा: अतिसान्द्राः अत्र सान्द्रार्थे “नेर्बिडज्बिरीसचौ” इति सूत्रेण तद्धितो बिरीसच् प्रत्ययः । ये गुणाः सौशील्यादयः तेषां स्तोमः समूहो येषां तैः अतिगुणवद्भिरित्यर्थः । हरिदासैर्भगवद्भकैः अलंकृते विराजितेऽप्यस्मिन् पट्टने श्रीरङ्गक्षेत्रे कतिपये जनाः अट्टशूलाः अन्नविक्रयिण: "अट्टमन्नं शिवो वेद: शूलो विक्रय उच्यते ।" इति कोशः । प्रतिष्ठिताः स्थिताः सन्तीति शेषः ॥ ४३८ ॥
१ 'मधात्'. २ 'नियतवासिभ्यः.
For Private And Personal Use Only