________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३८ विश्वगुणादर्शचम्पू:- [श्रीरङ्गनगरीनिरूप्य सविस्मयम्
शक्राद्यर्थ हविरघहरं शौरिणाऽऽखादितं यत् __ दत्तं वित्तग्रहणचपलाः केऽपि विक्रीणते तत् ।। धाम श्रीमद्यदि मधुजिता दीयते खीयमेते
नो त्रस्यन्ते धनकणतृषा तच्च विक्रेतुमज्ञाः ॥ ४३९ ॥ वि०-मन्दमते मैवं भाणीः ॥ १८४ ॥ किं किं न जीर्यति मुकुन्दपदारविन्द
द्वन्द्वाभिवन्दनकृतामिह देहभाजाम् ॥ अत्यद्भुतौषधविशेषनिषेवकाणा
मापादयेत ? किमनर्थमपथ्यसेवा ॥ ४४०॥
--
'अदृशूला' इत्युक्तमेव सविस्तरमुपपादयति-शकाद्यर्थमिति । यत् हविः शौरिणा विष्णुना आखादितं भक्षितं, तस्मै समर्पितमिति यावत् । अत एव तदघहर पापनिवारकं हविः शक्र इन्द्रः आदिमुख्यो येषां अमिवरुणादीनां तदर्थ दत्तं समर्पितं च तत् हविः केऽपि नीचाः वित्तग्रहणचपलाः द्रव्यसंपादनलोलुपाः सन्तः विक्रीणते । नैतावदेव किंतु मधुजिता विष्णुना यद्यपि श्रीमत् संपत्तियुक्त लक्ष्मीयुक्तं वा स्वीयं धाम वैकुण्ठस्थानं दीयते समर्म्यते, तथापि एते अज्ञा मूर्खाः धनकणे अल्पीयस्यपि द्रव्ये इत्यर्थः । तृषा वाञ्छा तया तच विष्णुपदमपि, विकेतुं नो त्रस्यन्ते नैव बिभ्यति । तस्मान्नैतेभ्यो द्रव्यार्जनकपरेभ्यः अन्ये नीचा इति भावः ॥ ४३९॥
कि किमिति । इह रणक्षेत्रे मुकुन्दस्य भगवतो विष्णोः पादारविन्दयोश्चरणकमलयोर्द्वन्द्वस्य अभिवन्दनं अभिवादनं कुर्वन्तीति तथाभूतास्तेषां देहभाजां प्राणिनां किं किं पापाचरणं न जीयति न नश्यति ? अपि तु सर्वमेव जीर्यसेवेत्यर्थः । एतदेवार्थान्तरन्यासेनाह-अत्यद्भुतेति । अत्यद्भुतः सत्वररोगनिवारकत्वादयाश्वर्यावहः य औषधविशेषः तस्य निषेवकाणां पानं कुर्वतां रोगिणां अपथ्यसेवा अपथ्यभक्षणं अनर्थ रोगवृद्धिकरणरूपं आपादयेत संपादयेत किम् ? अपि तु नैव संपादयेदित्यर्थः । पथ्यसेवनं हि क्षुद्रौषधखीकारे, न दिव्यौषधखीकारे इति भावः । तथैव दृढभगवदासक्तिसत्वे एतादृशक्षुद्रपापाचरणं नैव दोषायेति ज्ञेयम् ॥ ४४० ॥
१ 'धीयते'. २ 'नो त्रप्स्यन्ते'. ३ विक्रीणतेऽज्ञाः'.
For Private And Personal Use Only