________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३५] पदार्थचन्द्रिकाटीकासहिता । समन्तात् पुरी निरीक्ष्य सश्लाघम्रङ्गादन्यदनगारेः कंसारेर्वा स्थलेष्वहो ।। किं दृष्टं ? किमपि क्षेत्रं सप्तप्राकारवेष्टितम् ॥ ४४१ ॥
अथ श्रीजम्बूकेश्वरवर्णनम् ३५. कु०-वयस्य मैवं वोचः ॥ १८५ ॥
अभ्यर्णेस्य पुरस्यैतदधिसह्यात्मजातटम् ॥
शैवक्षेत्रमवेक्षेथाः सप्तप्राकारसंवृतम् ॥ ४४२ ॥ वि०-विहस्य - सत्यं जटाधरप्राकारसंवृतस्यास्य श्लेषनैपुण्येनैव रङ्गसाधये समर्थनीयम् ।।
निपुणं निरूप्यनन्दत्कंदर्पदर्पक्षपणनिपुणदृग्वह्निसम्पन्नभाला
रुण्यः फण्यग्रगण्यप्रकरमयतया भीषणैर्भूषणैर्यः ।।
किंच रङ्गादिति । अनगारेमंदनशत्रोर्महादेवस्य कंसारेविष्णोर्वा स्थलेषु स्थानेषु अहो हे कृशानो ! रङ्गात् श्रीरङ्गक्षेत्रात् अन्यदितरत् सप्तभिः प्राकारैः सालैर्वेष्टितं क्षेत्रं किमपि कुत्रापि वा दृष्टं किम् ? अपि तु नैवेत्यर्थः ॥ ४४१ ॥
अभ्यर्ण इति । यस्मादस्य पुरस्य श्रीरङ्गक्षेत्रस्य अभ्यणे समीपे “समीपे निकटासन्न-सन्निकृष्ट-सनीडवत् । सदेशाभ्याश-सविध-समर्याद-सदेशवत् । उपकठान्तिकाभ्यर्णाभ्यग्रा अप्यभितोव्ययम् ।" इत्यमरः । अधिसह्यात्मजातटं कावेरीनदीतीरे, विभक्त्यर्थेऽव्ययीभावः । सप्तभिः प्राकारैः संवृतं वेष्टितं, पक्षे सप्तस्य जटाधरस्य (१) प्राकारैः संवृतं च एतत् प्रसिद्धं शैवक्षेत्रं शिवस्थानं जम्बूकेश्वराभिधं अवेक्षेथाः अवलोकय ॥ ४४२ ॥
सत्यमिति । सत्यं त्वदुक्तमित्यर्थः । यतः जटाधरस्य शंकरस्य प्राकारैश्चतु:संख्याकैः संवृतस्यास्य जम्बूकेश्वरक्षेत्रस्य श्लेषस्य सप्तशब्दसंबन्धिनोऽर्थद्वयस्येत्यर्थः । नैपुण्येनैव नतु वास्तवार्थेन संख्यापरेणेत्यर्थः । रङ्गस्य रङ्गक्षेत्रस्य साधय सादृश्यं समर्थनीयम् प्रतिपादनीयम् ॥ १८६ ॥
एवं कृशानुं प्रत्युत्तरय्य भगवन्तं शंकर वर्णयति-नन्ददिति । नन्दन, सकलविश्वजयेनानन्दं प्राप्नुवन् यः कन्दो मदनस्तस्य यो दर्पो गर्वस्तस्य क्षेपणे
-
-
-
१ 'पुण्याग्रगण्य'. २ 'भीषणो'.
For Private And Personal Use Only