________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [सूर्यदुःखे जातुचिदागते खकलिताद्दष्कर्मणः पक्रिमा
न्नाथे हन्त निरागसि व्यसनिभि घेण्यमारोप्यते ॥ २२ ॥ हन्त जन्तवः पामराः खापराधं परमकारुणिके परस्मिन् ब्रह्मण्यध्यस्यन्ति ॥६॥ ते दृषदादिमाः देहाः तेषांभावः दृषदादिमत्त्व पाषाण-तरु-पश्वादिदेहत्वमित्यर्थः । अयतां प्राप्नुवतां अय गतौ' इत्यस्मात् शतृप्रत्ययः। अयं धातुर्यद्यप्यात्मनेपदी, तथापि च. क्षिङो ङित्करणात् ज्ञापकात् अनुदात्तेत्त्वलक्षणस्यात्मनेपदस्यानित्यत्वात् साधुः । यद्वा 'इट किट कटी गतौ' इत्यत्र प्रश्लिष्टस्य इधातोः शतृप्रत्यय इति समाधेयम् । अत एव 'उदयति विततोलरश्मिरजौ' इति माघः, 'उदयति हि शशाङ्कः कामिनीगण्डपाण्डुः' इति मृच्छकटिके शूद्रकश्च प्रयुक्तवान् । अर्थात् प्राक्तनखकर्मवशादिति ज्ञेयम् । एवं हि शरीरप्राप्तिर्भवति-“योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः । स्थाणुमन्ये प्रपद्यन्ते यथाकर्म यथाश्रुतम्" इति श्रुतिप्रसिद्धम् । एतादृशां जीवानां वर्गश्च अपवर्गो मोक्षश्च "मोक्षोऽपवर्गोऽथाज्ञानम्-" इत्यमरः । तयोः आस्पदं संपादकं देहं मनुष्यदेहं नैसर्गिकखकीयापरिमितकृपयेति शेषः । दत्तवति श्रियो लक्ष्म्याः प्रि. यतमेऽस्मिन्नारायणे विषये, उपकारस्य एतादृशश्रेयःसंपादकदेहप्रदानरूपस्य, स्मृतिः स्मरणं नैव । भवतु नाम न हि तावत्तादृशसूक्ष्मविवेकिनो जीवास्तेन विस्मरणं भवति, परं च न ह्येतावदेव, किंतु तस्मिन्निरुपमकृपालौ दोषारोपं कुर्वन्तीत्याह-दुःखे इति । जातुचित् कदाचित् , "कदाचिज्जातु सार्धे तु" इत्यमरः । खकलितात् खकृतात् दुष्कर्मणः पापकर्मणः पक्रिमात् फलाभिमुखात् 'डुपचष्पाके' इत्यस्मात् "द्वितः किः" इति क्रिप्रत्ययः । तस्य च 'कैर्मन्नित्यम्' इति मप् । दुःखे आगते प्राप्ते सति, व्यसनं स्वपापकर्मजनिता विपत् अस्ति येषां ते व्यसनिनः तैः, अर्थात् विपाकैर्ज. नैरित्यर्थः । “व्यसनं विपदि भ्रंशे दोषे कामजकोपजे" इत्यमरः । निरागसि एताहशदुःखप्रदानविषये निरपराधे "आगोऽपराधो मन्तुश्च" इत्यमरः । निरापराधे एतावदेव नैव, प्रत्युत नाथे सर्वेषामधिपतौ नारायणे, न हि योऽधिपतिः स दुःखप्रदानशील इति भावः। तस्मिन्नपि निघृणस्य भावः नैधुण्यं निर्दयत्वमिति यावत् । आरोप्यते । हन्त एतदतिकष्टमित्यर्थः । अत्र नारायणे दुःखारोपस्य दुःखप्राप्तिकारणस्य च अत्यन्तविलक्षणत्ववर्णनात् विषमालंकारः "क्वचिद्यदतिवैधान्न श्लेषो घटनामियात्' इत्यादितल्लक्षणात् । शार्दूलविक्रीडितं वृत्तम् ॥ २२ ॥
'व्यसनिभि घेण्यमारोप्यते' इति यदुक्तं तदेव स्पष्टयति-हन्तेति । पामराः वास्तविकदुःखकारणानभिज्ञत्वात् नीचाः, जन्तवः प्राणिनः स्वेषां अपराधं दुःखापादनरूपं, करुणा एव शीलमस्य कारुणिकः “शीलम्" इति ठक् । परमश्चासौ कारुणिकश्च तस्मिन् परस्मिन् इन्द्रियादिसंघात् परे, ब्रह्मणि ब्रह्मरूपे नारायणे अध्यस्यन्ति । आरोपयन्ति । हन्तेति खेदे ॥ ६॥ १ 'अध्यास्यन्ति'.
For Private And Personal Use Only