________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् २] पदार्थचन्द्रिकाटीकासहिता। २१
तथाहि- . - क्लेशत्यागकृतेऽर्पितेन करणव्यूहेन देहेन च
खानर्थ बत जन्तुराजयति चेन्मन्तुर्नियन्तुः कुतः ॥ शस्त्रे शत्रुजयाय नैजगुरुणा दत्तेऽथ तेनैव चेत् . पुत्रो हन्ति निजं वपुः कथय रे तत्रापराधी तु कः? ॥२३॥ किंबहुना ॥ ७॥
..........
.........
यदुक्तं कृशानुना 'खेनादौ निखिलं जगद्विरचितं' इत्यादिना खोत्पादितजीवानां खेनैव नाशकरणरूपं दूषणं तत्परिहारं सदृष्टान्तमाह-तथाहि-क्लेशेति । जन्तुः जीवः कर्ता “प्राणी तु चेतनो जन्मी जन्तु-जन्यु-शरीरिणः” इत्यमरः । जातावेकवचनम् । सर्वे प्राणिन इत्यर्थः । क्लेशानां आध्यात्मिकाधिदैविकादिसांसारिकतापानां त्यागकृते नाशार्थे न तु कामाद्यासक्ततया संपादनार्थ, कामाद्यासक्तानां क्लेशहानिस्तु नैव, अपि तु तदधिकप्राप्तिर्भवति । तदुक्तम्-"न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्मेव भूय एवाभिवर्धते ॥” इति । कृते इत्यव्ययं तादर्थे “अर्थे कृतेऽव्ययं तावत् तादर्थ्य वर्तते द्वयम् ।" इति कोशसारः। अर्पितेन समर्पितेन, एतदुभयान्वयि । करणानां चक्षुरादीन्द्रियाणां व्यूहेन समूहेन देहेन शरीरेण च करणेन, खस्य आत्मनः अनर्थ विषयासक्ततया दुःखं आर्जयति संपादयति चेत् , नियन्तुः ईश्वरस्य मन्तुः अपराधः, कुतो भवति ? अपि तु नैव भवतीत्यर्थः । क्लेशत्यागार्थ करणानामुपयोगप्रकारः प्रोक्तः श्रीमद्भागवते-"वाणी गुणानुकथने श्रवणौ कथायां हस्तौ च कर्मसु मनस्तव पादयोनः। स्मृत्यां शिरस्तव निवासजगत्प्रणामे दृष्टिः सतां दर्शनेऽस्तु भवत्तनूनाम् ॥” इति। “सा वाग्यया तस्य गुणान् गृणीते हस्तौ च तत्कर्मकरौ मनश्च ।" इत्यादि च । खोक्तेऽर्थे दृष्टान्तमाह-शस्त्रे इत्यादिना। नैजगुरुणा खपित्रा शत्रूणां रिपूणां जयाय पराजयाय "रिपौ वैरिसपत्नारि-द्विषद्वेषणदुहृदः । द्विविपक्षाहितामित्र-दस्यु-शात्रव-शत्रवः ॥” इत्यमरः।शस्त्रे खजायने दत्ते समर्पिते सति, अर्थात् शस्त्रविद्यामध्याप्येति यावत् । अथ अनन्तरं "मङ्गलानन्तरारम्भप्रश्न-कात्स्न्येष्वथो अथ" इत्यमरः । पुत्रः तेनैव पितृदत्तेनैव शस्त्रेण, निजं खीयमेव वपुः शिरआदिशरीरं, हन्ति छिनत्ति चेत् यदि “पक्षान्तरे चेद् यदि च" इत्यमरः। तु तर्हि तत्र पितृ-पुत्रयोर्मध्ये, रे हे कृशानो, अपराधी कः? कथय । अनेन शस्त्रदृष्टान्तेनैतत्सूचितं-यथा तावत् शस्त्रसमर्पणेन पुत्रनाशे सति तत्र पिता नापराधी, तथा ईश्वरोऽपि क्लेशनाशक्षमं शरीरं समर्प्य, तेनैव जन्तुभिः क्लेशो. त्पादने कृते अन्तर्यामी सन्नपि तत्र न दूषणार्हः, कुतः एतादृशक्लेशनाशकशरीरसमर्पयितुः क्लेशकरत्वाभावात् । किंतु जीवा एव तादृशाः, ईश्वरस्तु दयालुरेवेति नेयम् । दृष्टान्तालंकारः । वृत्तं शा० वि० ॥ २३ ॥ किंबहुना अधिकेनोक्तेन किमित्यर्थः ॥ ७॥
For Private And Personal Use Only