________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८० विश्वगुणादर्शचम्पू:- [ज्यौतिषिककु०-निपुणमवलोक्य सपरिहासम्ज्योतिःशास्त्रमहोदधौ बहुतरोत्सर्गापवादात्मभिः
कल्लोलैर्निबिडे कणान् कतिपयान् लब्ध्वा कृतार्था इव ॥ दीर्घायुः-सुत-संपदादिकथनैर्दैवज्ञपाशा इमे
गेहंगेहमनुप्रविश्य धनिनां मोहं मुहुः कुर्वते ॥ ५२८ ॥ किंचविलिखति सदसद्वा जन्मपत्रं जनानाम्
फलति यदि तदानीं दर्शयत्यात्मदाक्ष्यम् ॥ न फलति यदि लग्नं द्रष्टुरेवाह मोहं
हरति धनमिहेवं हन्त ! दैवज्ञपाशः ॥ ५२९ ॥ ज्योतिरिति । बहुतराः अतिबहुलाः उत्सर्गाः सामान्यवचनानि अपवादाः विशेषवचनानि च आत्मा खरूपं येषां तथाभूतैः, अतिशयोत्सर्गापवादवचनरूपैरित्यर्थः । कल्लोलैस्तरङ्गैः निविडे परिपूर्णे ज्योतिःशास्त्रं प्राणिनां ग्रहाद्यानुकूल्य-प्रातिकूल्यज्ञापनद्वारा शुभाशुभफलप्रतिपादकं ग्रहनक्षत्रस्वरूपगत्यादिज्ञापकं च शास्त्रं स एव महोदधिः समुद्रस्तस्मिन् कतिपयान् अत्यल्पान् द्वि-त्रान् कणान् लेशान् लब्ध्वा प्राप्य, अतिविशालज्योतिःशास्त्रस्य यत्किचिदंशमधीयेति यावत् । कृतार्थाः कृत. कृत्या इव वर्तमानाः इमे कुत्सिता दैवज्ञाः ज्योतिषिकाः दैवज्ञपाशाः, याप्ये पाशप् । गेहं गेहं प्रतिगृहं अनुप्रविश्य दीर्घायुः-सुत-संपदादिकथनैः कस्यचित् दीर्घायुष्यकथनेन, कस्यचित्सुतार्थिनः 'तव सद्गुणसंपन्नः पुत्रः स्यात्' कस्यचिद्दरिद्रस्य लं 'अग्रे बहुतरद्रव्यसंपन्नो भविष्यसि' इत्यादि कथनमूह्यम् । धनिनां द्रव्यवतां मुहुवारंवारं मोहं कुर्वते । इमे भविष्यच्छुभकथनेनातीव विद्वांस इति भ्रान्तिमुत्पादयन्तीत्यर्थः ॥ ५२८ ॥
विलिखतीति । किंच अयं दैवज्ञपाशः ज्यौतिषिकाधमः जनानां सत् यथार्थफलज्ञापकं असत् अयथार्थफलं वा कथमपि जन्मपत्रं विलिखति । तच्चाने यदि कदाचिदैववशतः फलति स्खलेखनानुरूपफलप्राप्तिर्भवति चेत् , तदा आत्मनः दाक्ष्यं भविष्यत्फलकथनचातुर्य दर्शयति । यदि च लग्नं न फलति तदा द्रष्टुर्जन्मका. लीनलग्नादिकं पश्यत एव मोहं अज्ञानं आह कथयति । अस्य जन्मकालीनलग्नादि सम्यक ज्ञातं भवद्भिस्तस्माद्भवतामेवायं दोषो न ममेति वदतीत्यर्थः । एवं इह लोके धनिनामिति शेषः । धनं हरति । हन्तेति खेदे ॥ ५२९ ॥
१ 'लग्नप्रष्टुरेवैष दोषो'.
For Private And Personal Use Only