________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वर्णनम् ४४]
पदार्थचन्द्रिकाटीकासहिता ।
२८१
अपि चप्रमोदे खेदे वाऽप्युपनमति पुंसो विधिवशा
न्मयैवं प्रागेवाभिहितमिति मिथ्या कथयति ॥ जनानिष्टानिष्टाकलनपरिहारैकनिरैता___नसौ मेषादीनां परिगणनयैव भ्रमयति ॥ ५३० ॥ अस्तु वा तथ्यवादी दैवज्ञस्तथापि वृथा तद्वचःश्रवणम् ॥ २२६ ॥ तथाहि
असुखमथ सुखं वा कर्मणां पक्तिवेला___ खहह ! नियतमेते भुञ्जते देहभाजः ॥ तदिह पुरत एवं प्राह मौहूर्तिकश्चेत्
कथय फलममीषामन्ततः किं ततः स्यात् ? ॥ ५३१ ॥ प्रमोद इति । पुंसो जनस्य विधिवशादैववशादेव न तु स्वकथनेन, प्रमोदे आनन्दे वाऽथवा खेदे दुःखे उपनमति प्राप्नुवति सति, इदं सुखं दुःखं वा मया प्रागेव प्राप्तकालात् पूर्वमेव अभिहितं कथितं इत्येवं मिथ्या असत्यं कथयति । इष्टं सुखादि अनिष्टं दुःखादि च तयोः आकलनं स्वीकारः परिहारः निवारणं च तयोः एकं मुख्यं यथा स्यात् तथा निरतानासक्तान् , सुखस्याङ्गीकारे दुःखस्य परिहारे च तत्परानिति यथायथमूह्यम् । जनान् असौ ज्यौतिषिकः मेषादीनां राशीनां परिगणनया संख्यानेनैव भ्रमयति विमोहयति । 'तव जन्मराशेः सकाशाद्रव्यादेहस्येष्टफलप्रतिपादके एकादशादिस्थाने प्रवेशात् सुखोत्पत्तिः, जन्म-चतुर्थादिस्थानप्रवेशाचा निष्टफलप्राप्तिः' इत्यादिकथनेन भ्रमयतीत्यर्थः ॥ ५३० ॥
अस्त्विति । किंच दैवज्ञः तथ्यवादी सत्यवक्ता, वाऽप्यर्थकः । अस्तु तथापि तस्य वचसो भाषणस्य श्रवणं वृथा निष्फलमेव ॥ २२६ ॥
वृथात्वमेवाह-असुखमिति । एते दृश्यमाना देहभाजः प्राणिनः कर्मणां पूर्वजन्मकृतानां पक्तिवेलासु फलनिष्पत्तिकालेषु असुखं दुःखं अथवा सुखं च नियतं नियमेनैव भुञ्जते । अहहेयाश्चर्ये । तदेव सुखं दुःखं वा मौहर्तिको ज्यौतिषिकः इह पुरतः तत्प्राप्तेः प्रागेव प्राह कथयति चेत्, ततः अग्रिमसुख-दुःखादिकथनात् अमीषां देहभाजां फलं अन्ततः पर्यवसाने किं स्यात् ? कथय । प्राणिनामिष्टानिष्टप्राप्तिः खखकर्मानुसारेणैव भविष्यति ज्यौतिषिकादिकथनेन किमप्यन्यथा न भवेदित्यर्थः ॥ ५३१॥
१ 'प्रमोदः खेदो वा'. २ 'मयेदं'. ३ 'नियतान्'.
For Private And Personal Use Only