________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ५१] पदार्थचन्द्रिकाटीकासहिता । नैषां संध्याविधिरविकलो नाच्युतार्चाऽपि साङ्गा
न स्वे काले हवननियमो नापि वेदार्थचिन्ता ॥ न क्षुद्वेलानियतमशनं नापि निद्रावकाशो
न द्वौ लोकावपि तनुभृतां राजसेवापराणाम् ॥ ५७९ ॥ वि०-दुस्सहैषा बहुजनपोषकाणामेषां निन्दा ॥ २५१ ॥ अशुभपुषि कलावप्यप्रमत्ताः खधर्मा
दनुदिनमुपकारानाचरन्तो बुधानाम् ॥ बहुजनपरिपुष्टौ बद्धदीक्षास्त एते
तनुसुखमपि हित्वा तन्वते राजसेवाम् ॥ ५८० ॥
एतदेव स्पष्टमाह-नैषामिति । एषां राजसेवापराणां जनानां संध्यायाः विधिरनुष्टानं अविकल: यथोक्तः न भवति, एषामिति प्रतिवाक्यं योजनीयम् । अच्युतस्य भगवतो विष्णोः अर्चा पूजापि साङ्गा संपूर्णा न भवति । एतेन संध्या-पूजादिकं यद्यपि एतैः कृतं तथापि तन्मनःपूर्वकं यथाविधि न भवति, किंतु कथमपि केवलमाचमनादिमात्रेण गन्ध-पुष्पादिमात्रसमर्पणेन चेति बोध्यम् । तथा स्वे प्रातमध्याह्नादिशास्त्र. विहिते काले हवनस्य औपासन-वैश्वदेवादेर्नित्यमागन्तुसाधनस्य कर्मणः नियमः नियताचरणरूपः "नियमस्तु स यत्कर्म नित्यमागन्तुसाधनम् ।" इत्यमरः । न भवति । वेदस्य अर्थचिन्ता अभिधेयविचारोऽपि न भवति । एतावता पारलौकिकसौख्याभावमुक्त्वा ऐहलौकिकमाह-नेति । क्षुधः बुभुक्षायाः वेलायां नियतं सम्यक्पाचितं उदरपूर्तिपर्याप्तं वा अशनं भोजनं न, तथा भोजनोत्तरं निशायां वा निद्रायाः अवकाशः अवधिः निश्चिन्ततया प्रातःकालपर्यन्तः कालो वा न अस्ति । एवं राज्ञः सेवापराणां तनुभृतां जनानां द्वौ लोकावपि द्वयोर्लोकयोरपि सौख्ये इत्यर्थः । न भवतः ॥५७९॥
दुःसहेति । बहुजनानां पोषकाणां यथोक्ततया तत्कार्यकरणादित्यर्थः । एषां राजसेवकानामेषा त्वत्कृता निन्दा दुःसहा श्रोतुमशक्या ॥ २५१ ॥
अशुभेति । अशुभानि पापसंपादकानि कर्माणि पुष्णाति वर्धयतीति तत्पुषि कलौ युगेऽपि स्वधर्मात् खाचारात् अप्रमत्ताः खाचारे सावधानाः सन्त इत्यर्थः । बहूनां स्वकीयानां जनानां परिपुष्टौ परिपोषणे बद्धा स्वीकृता दीक्षा व्रतं यैस्ते एते राजसेवकाः अनुदिनं प्रतिदिनं बुधानां पण्डितानां उपकारान् आचरन्तः कुर्वन्तः सन्तः, तनुसुखं शरीरसुखं यथाकालं पर्याप्तभोजन-निद्रादिरूपमपि हित्वा त्यक्त्वा राज्ञः सेवां तन्वते कुर्वन्ति । यथाकालं भोजन-निदाद्यसेवनं संध्या-पूजाद्यनाचरणं चापि लोकोपकारार्थमेव ततश्वोत्तमलोकप्राप्तिरत्रापि मानश्चेति द्वयमपि सिध्यतीति भावः ॥ ५८० ॥
१ भवति सकला'.
For Private And Personal Use Only