________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १९] पदार्थचन्द्रिकाटीकासहिता ।
पुनः क्षणमनुध्याय सश्लाघम्
अन्यदास्तां नाम तामेव काममन्योन्यं कलहायमानानां नानाविधानां श्रुतीनामविरोधसाधनेन साधुभावं प्रकटयन्तीं अखिलगुणाभिरामां रामानुजसरस्वतीमभिनन्दामि । प्रसिद्धं हि "सन्धिमिच्छन्ति साधवः" इति ॥ ९९ ॥ पश्य
नित्यं हेयगुणावधूननपरा नैर्गुण्यवादाः श्रुतौ __ मुख्यार्थाः सगुणोक्तयः शुभगुणप्रख्यापनाद्ब्रह्मणः ॥ अद्वैतश्रुतयो विशिष्टविषया निष्कृष्टरूपाश्रया
भेदोक्तिस्तदिहाखिलश्रुतिहितं रामानुजीयं मतम् ॥ २४८ ॥ अन्यदिति । अन्यत् दूषणनिराकरणं, आस्तां नाम, किंतु नानाविधानां ईश्वरस्य साकारत्व-निराकारत्व-जीवात्मनोरैक्य-भिन्नत्वप्रतिपादकत्वेनानेकप्रकाराणां श्रुतीनां अन्योन्यं कलहायमानानां कलहं कुर्वन्तीनामिव स्थितानां अविरोधसाधनेन विरोधं परिहत्येत्यर्थः । साधुभावं सर्वासां सत्यतात्पर्य प्रकटयन्तीं, अत एवाखिलैगुणैरभिरामां मनोरमां, तां प्रसिद्धां रामानुजस्य सरस्वती वाणीमेवाभिनन्दामि । अत्रार्थे सहजं साधूनां चेष्टितमाह-प्रसिद्ध हीति ॥ ९९ ॥
यदुक्तं 'श्रुतीनामविरोधेन सधुभावं प्रकटयन्तीम्' इति तदेव प्रतिपादयतिनित्यमिति । ये श्रुतौ निर्गुणस्य भावो नैर्गुण्यं तस्य वादाः, ईश्वरस्य निर्गुणत्वबोधकानि वाक्यानीत्यर्थः । तानि च "अनादिमध्यान्तविहीनमेकम्” “न रूपमस्येह तथोपलभ्यते” इत्यादीनि । ते नित्यं निरन्तरं हेयगुणानां त्याज्यगुणानां दोषाणामिति यावत् । अवधूननपराः विनाशप्रतिपादकाः, सन्तीति सर्वत्रानुसंधेयम् । तथा सगुणोक्तयः “सर्वतः पाणिपादं तत् सर्वतोऽक्षिशिरोमुखम्" "सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्" इत्यादयः सन्ति ताश्च ब्रह्मणः आत्मनः शुभगुणानां लोकविलक्षणसृष्टि-स्थिति-लयकर्तृत्वादीनां प्रख्यापनात् प्रसिद्धिकरणात् मुख्यार्थाः शक्यार्थप्रतिबोधिकाः, तथा अद्वैतश्रुतयः “तत्त्वमसि" "अयमात्मा ब्रह्म” “अहं ब्रह्मास्मि" इत्यादयः जीवात्मपरमात्मनोरभेदप्रतिपादनपराः तास्तु, विशिष्टः सच्चिदानन्दात्मकस्य परमात्मनः असज्जड-सुख-दुःखात्मकस्य जीवस्य च अभेदप्रतिपादनरूपः विषयः यासां तथाभूताः, तथा भेदोक्तिः जीवेश्वरयोः परस्परं भेदवचनं तु निष्कृष्टं पूर्वप्रतिपादितविशेषणरहितं रूपं ययोर्जीवात्मनोस्तौ आश्रयौ प्रतिपाद्यौ यस्यास्तादृशी विद्यते । तत्तस्मात् इह लोके रामानुजस्येदं रामानुजीयं मतम् अखिलानां सकलानां श्रुतीनां हितम् । सर्वभेदनिराकरणेनैकवाक्यताकरणादिति भावः । एतत्प्रतिपादनेन रामानुजीये मते ग्रन्थकर्तुः पक्षपातः प्रकटीभवति । नहि तावत्तत्त्वतः सर्वत्रेदृश्येव विवेचनरीतिदृश्यते ।
१ अविरोधेन साधुभावम्'.
For Private And Personal Use Only