________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४२
विश्वगुणादर्शचम्पू:- [श्रीरामानुजकतिचिदलसाः कर्मायासासहा यदि निश्चला
स्तदपि भगवद्भक्तिस्तेषां धुनोति भवव्यथाम् ॥ श्रमसहजनैकाहैर्नृणां विनैव हि लङ्घनै
वरनिरसनायालं वीर्योत्तरं परमौषधम् ॥ २४६ ॥ किंचरहस्यव्याख्यानै रघुवरचरित्रानुकथनै
स्त्रयीसध्रीचीनां बकुलधरवाचां प्रवचनैः ॥ अमी भाष्याख्यानैर्हरिचरणकैंकर्यविधिभिः प्राणामैश्चार्याणां क्षणमिव नयन्त्यत्र दिवसान् ॥ २४७ ॥
कतिचिदिति । एषां रामानुजीयानां मध्ये इति शेषः । कतिचित् जनाः अलसाः कर्माणि कर्तुमशक्ताः सन्तः, कर्मणां संध्यादीनां आयासं श्रमं न सहन्ते ते तथाभूताः अपि, यदि भगवद्भक्तौ निश्चलाः स्थिरचित्ताः भवन्ति, तदपि तावन्मात्रेणापि भगवद्भक्तिः तेषां रामानुजीयानां भवस्य संसारस्य व्यथां धुनोति विनाशयति । अत्र दृष्टान्तं प्रमाणयति-श्रमं क्षुत्तृड्जन्यं सहन्ते इति तत्सहास्तथाभूतानां जनानां एकं मुख्यं यथा तथा अ&ोग्यैः लङ्घनैः भोजननिवृत्तिभिः विनैव हि, नृणां रोगिजनानां वीर्योत्तरं बलवत्तरं परममुत्तमं च तत् औषधं च तत्, ज्वरस्य निरसनाय विनाशाय अलं समर्थ भवति ।वैद्यशास्त्रे हि रुग्णजनानां रोगशान्त्यै लङ्घन प्रधानत्वेनोक्तं, परं यदि लङ्घने अशक्ताः केचिजना भवेयुस्तहि केवलमौषधेनैव तेषां रोगशान्तिर्भवतीति भावः । तथैवैतेषां भक्तिसामर्थ्यम् ॥ २४६ ॥
रहस्येति । किंच अमी रामानुजीयाः, रहस्यानां ईश्वरस्वरूपप्रतिपादकानां व्याख्यानैः अर्थप्रकाशपरैः, रघुवरस्य श्रीरामचन्द्रस्य चरित्रानुकथनैः चरित्रवाचनैः त्रयीसध्रीचीनां वेदानुसारिणीनां बकुलधरवाचां श्रीरामानुजवचनानां प्रवचनैः कथनैः, भाष्यस्य श्रीरामानुजप्रणीतस्य आख्यानैः, हरेः श्रीविष्णोः चरणयोः कैंकर्यविधिभिः दास्यकरणैः, आर्याणां तन्मतस्थश्रेष्ठजनानां प्रणामैर्वन्दनैश्च, अत्र क्षणमिव दिवसान् नयन्ति निर्यापयन्ति ॥ २४७ ॥
ञ्चिता ब्रह्मणः योषा वाणी यस्याः सा, दलिताः खण्डिताः दोषाः यया, दत्तः तत्त्वे परतत्त्वे अभिलाषः यया, वरः श्रेष्ठो यो मुनिः तस्य वरः वेषो यस्याः रामानुजरूपेत्यर्थः । वैकुण्ठलोकस्य भूषा भूषणं विष्णुः कापि जयति सर्वोत्कर्षेण वर्तते ॥ १०॥
१ 'कर्मायासाद्विहाय विनिश्चला:'.
For Private And Personal Use Only