________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनोपसंहारः ५२।५३ ] पदार्थचन्द्रिकाटीकासहिता। ३११ नराः सुरा वा पशवः परेऽपि वा न निन्दनीयाः पुरुषेण भूष्णुना ॥ यतोऽपि दोषप्रचुरे जगत्रये न सन्ति ते वीतगुणाः कलावपि ॥५९२॥ कु०-अभ्युपगम्यदाव्य गुणसमृद्धेर्दूषणभणितिः समस्तवस्तूनाम् ॥ अस्माभिरुपनिबद्धा सिद्धान्तस्येव पूर्वपक्षोक्तिः ॥ ५९३ ।।
कवेर्वाक्यम् ५३.
इति सकलजनानामीरयन्तौ शुभं तौ ___ मधुमथनपवित्रक्षेत्रसेवाकृतार्थौ ॥ अनुपथि दृढसख्यौ हन्त गन्धर्वमुख्यौ
निजसदनमगातां निर्भरानन्दसान्द्रौ ॥ ५९४ ॥ नरा इति । भूष्णुना समअसेन भूधातो: "ग्ला-जि-स्थश्च ग्नुः" इति चकारात् ग्नुप्रत्ययः । “भूष्णुभविष्णुर्भविता वर्तिष्णुर्वर्तन: समौ ।" इत्यमरः । पुरुषेण नराः मनुष्याः, वा चकारार्थकः । सुरा देवाश्च, पशवः, परे पक्ष्यादयोऽपि च न निन्दनीयाः । यतो यस्मात् कारणात् दोषैः प्रचुरे बहुलेऽपि जगत्रये त्रैलोक्ये अस्मिन् कलियुगेऽपि ये वीताः गताः गुणाः येषां तथाभूताः जनाः ते सर्वेऽपि न सन्ति । किंतु केचिद्गुणयुक्ता अपि सन्तीत्यर्थः ॥ ५९२ ॥
अभीति । अभ्युपगम्य तदुक्तं सर्वमप्यङ्गीकृत्यदाायेति । अस्माभिः उपनिबद्धा आरोपिता दूषणानां भणितिर्भाषणं समस्तानां सर्वेषां वस्तूनां पदार्थानां गुणसमृद्धेः दाव्य दृढीकरणायैव भवति, न पस्तुतः । कथमिव । सिद्धान्तस्य कस्यापि शास्त्रीयप्रमेयस्य दृढीकरणाय पूर्वपक्षोकिरिव ॥ २९३ ॥ __ एवं कथनीयमुक्त्वोपसंहरति-इतीति । इत्येवंप्रकारेण सकलानां जनानां शुभं कल्याणं, क्वचित् 'खभावान्' इति पाठः । ईरयन्तौ कथयन्तौ अनुपथि प्रतिमार्गे मधोः एतनामकदैत्यस्य, मधुशब्दस्य वसन्तवाचकतया लक्षणया तन्मित्रस्य मदनस्य च मथनः विनाशकः विष्णुः शिवश्च तयोः पवित्राणि यानि क्षेत्राणि श्रीरा-वाराणस्वादीनि तेषां सेवया कृतार्थों दृढं सख्यं, मैत्री ययोस्तौ अत एव निर्भरानन्देन अतिशयहर्षेण सान्द्रौ परिपूर्णौ हन्तेत्यानन्दे । गन्धर्वाणां मुख्यौ कृशानु-विश्वावसू निजसदनं गन्धर्वलोकं अगातां जग्मतुः ॥ ५९४ ॥
१ यतोऽति'. २ 'आस्माकमुप'. ३ 'स्वभावान्'.
For Private And Personal Use Only