________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५१
-वर्णनम् ३८ ] पदार्थचन्द्रिकाटीकासहिता ।
कृ०-भवतु तैवैतेषु नमस्कर्तृता । मम तु दवलकादिदेवालयोपजीविदुराचारानालोकयतो न भवति नमश्चिकीर्षा ॥ १९८ ॥ तथाहि
वारस्त्रीकुचमर्दिभिर्विरचयन्त्यादिदानं करै___ स्तद्वीटीरॅसवासितैश्च वदनै ल्पन्ति मन्त्रानमी।। द्रव्यं देवलका हरन्त्यचकिता देवस्य तत्पूजिता
खेतासु प्रतिमासु हन्त भविता किं देवतासंनिधिः॥४६६॥ किंचआघ्राता बत पण्ययौवतकथा नो कर्म संध्यादिकं
यैरभ्यस्तमभूसभ्यवचनं न त्वेव वेदाक्षरम् ॥ अन्धश्चौर्यपरैर्दुरन्वयभवैः सूदैरमीभिः कृता
न्येन्नौघानि निवेदितानि भगवानङ्गीकरोत्येष किम्? ॥४६७|| भवत्विति । एतेषु नाथस्थलेषु तव नमस्कर्तृता नमस्काराचरणं भवतु । मम तु देवलकाः वेतनादिना देवपूजकाः “देवाजीवस्तु देवलः" । इत्यमरः । आदयो मुख्याः येषु तादृशा ये देवालयोपजीविनः देवालयोत्पन्नधन-फलादिभिः खोदरपूरकाः अत एव दुराचारास्तान् आलोकयतः पश्यतः सतः नमश्चिकीर्षा नमस्कर्तुमिच्छा न भवति नैवोत्पद्यते ॥ १९८ ॥
वारस्त्रीति । अमी देवलकाः वारस्त्रीणां वेश्यानां कुचमर्दिभिः स्तनमर्दिभिः करैर्हस्तैः देवस्य, देवाय भगवते इत्यर्थः । अयं आदिः प्रधानं येषामावाहनादिषोडश. पूजोपचाराणां तेषां दानं समर्पणं विरचयन्ति कुर्वन्ति । तासां वेश्यानां वीव्याः मुखसम्बन्धिताम्बूलस्य रसेन वासितैः सुगन्धयुक्तैर्वदनैर्मुखैश्च मन्त्रानाद्युपचारसमर्पणमन्त्रान् जल्पन्ति पठन्ति । तथा अचकिताः परलोकभयरहिताः सन्तः द्रव्यं कैश्चिद्भक्तैः समर्पितं फलादिक हरन्ति खयमेव गृह्णन्ति । तैर्देवलकैः पूजितासु एतासु प्रतिमासु देवमूर्तिषु देवतानां संनिधिः सामीप्यं भविता भविष्यति किम् ? अपि तु नैवेत्यर्थः । हन्तेति खेदे ॥ ४६६ ॥
एवं देवलकानां स्थितिमुक्त्वा तन्नैवेद्यान्नपाचकानां सूदानामाचरणमाह-आघ्रातेति । यैः सूदैः पण्ययुवतीनां वारस्त्रीणां समूहः पण्ययौवतं तस्य कथा आघ्राता अभ्यस्ता संध्यादिकं कर्म तु नो नैवाघ्रातम् । बतेति विषादे । तथा असभ्यवचनं अश्लीलभाषणं अभ्यस्तमधीतमभूत् , वेदस्य अक्षरमपि, किमुत मन्त्रादिकं तु नैवाभ्यस्तम् । किंच अन्धसोऽन्नस्य "भिःसा स्त्री भक्तमन्धोऽनमोदनः" इत्य
१ 'भवत एतेषु'. २ 'आलोचयतो'. ३ 'रसभासितैश्च'. ४ 'मदभ्र', ५ 'अन्नाद्यानि'.
For Private And Personal Use Only