________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [ महाराष्ट्रसुराभ्यची कृत्वा शुचिकृतमदन्त्यन्नमनघं ___ महाराष्ट्र देशे विलसति महानेष हि गुणः ॥ १४० ॥ किंच
चमूनियमनेन वा जनपदाधिकारेण वा
द्विजवज उपव्रजन्प्रभुपदं महाराष्ट्रजः ॥ न वृत्तिमिह पालयेद्यदि धरासुराणां ततो
भवेद्यवनवेष्टितं भुवनमेतदब्राह्मणम् ॥ १४१ ॥ यच्च दोषान्तरं भवता परिभाषितं तदशेषमपि साधुजनोपकारेण परिहीयते ॥ ४७॥
ज्ञानादिविषयप्रतिपादकानि यैस्तथाभूताः । अत्र श्रुतपुराणप्रहणमुपलक्षणम् । तेन न केवलं श्रुतानि, किंतु सम्यगधीतानि मीमांसितानि च । वेद शास्त्र-पुराणानीत्यपि ज्ञेयम् । अत एव अवहितं श्रुतिस्मृत्यादिविहितप्रतिषिद्ध विषये प्रमादरहितं हृत् चित्तं येषां ते तथाभूताः सावधानचित्ता इत्यर्थः। एतादृशा अमी जनाः अपूतानां अपवित्राणां चाण्डालादीनां स्पर्शान् शरीरसंपर्कान् , विजहतः त्यजन्तः सन्तः, सुराणां विष्णु-शिवादिदेवानामभ्यची पूजां कृत्वा शुचिभिः पवित्रजनैः कृतं पक्तं अत एव अनघं निमलमन्नं अदन्ति भुञ्जन्ति । न तु येन केनापि कृतमित्यर्थः । तस्मादेष पूर्वोक्तःमहान् गुणः महाराष्ट्र देशे हि एव विलसति प्रकाशते दृश्यते । नान्यत्रेत्यर्थः ॥ १४० ॥
'कुक्षेः पूत्यै यवननृपतेः' इत्यादिनोक्तं दूषणं परिहरति-चम्विति । किंच महाराष्ट्रजः तद्देशोत्पन्नः द्विजानां ब्राह्मणानां व्रजः समूहः, चम्वाः सेनायाः नियमनेन सेनाधिपत्यं स्वीकृत्येत्यर्थः । जनपदस्य देशस्य अधिकारेण आय-व्ययलेखनादिरूपेण वा, प्रभुपदं तत्तदधिकारस्थानमुपव्रजन् प्राप्नुवन् , यदि धरासुराणां ब्राह्मणानां वृत्तिं जीविकां न पालयेत् न रक्षेचेत् , ततस्तर्हि एतद्भुवनं सर्वोऽप्ययं भूलोक इत्यर्थः । यवनैः म्लेच्छैः वेष्टितं सर्वत्र व्याप्तं, ततश्च अब्राह्मणं ब्राह्मणरहितमपि भवेत् संपद्येत । यवनानामेव सर्वत्र प्रावल्यात् ते वर्णाश्रमधर्म विनाश्य ब्राह्मणादीनपि भ्रंशयिष्यन्तीति भावः ॥ १४१॥ __ अथ 'उपनयन-विवाहौ-' इत्यादिनोक्तं दूषणं परिहरति-यच्चेति । भवता यच्च दोषान्तरं 'विजहति न कदाचिद्वेदपाठैकयोग्ये वयसि च यवनानीवाचनाभ्यासं' इत्यादिरूपं परिभाषितं, तत् अशेषं सकलमपि साधुजनानां उपकारेण परिहीयते निवार्यते ॥ ४७ ॥
१'चेष्टितं'. २ परिहार्यते'.
For Private And Personal Use Only