________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १२) पदार्थचन्द्रिकाटीकासहिता ।
अलं मच संहर्तुमंहस्सहस्रं स एकोऽपि विप्रप्रवेकोपकारः ॥ कठोरः कुठारः किलैकोऽपि तिग्मो विनिर्भेत्तुमीष्टे विषढूननेकान्॥१४२॥
कृ०-अस्त्वेवमथाप्यत्रत्यानामाद्येतरवर्णप्रभवानां पुनरैतिदुस्सहं चेष्टितम् ॥ ४८ ॥ पश्यदेशे देशे लम्पटाः पर्यटन्तो भञ्ज भञ्ज ब्राह्मणादीनशेषान् ॥ हारं हारं हन्त सर्वखमेषां पापा एते स्वोदरं पूरयन्ति ॥ १४३ ॥ वि०-सत्यमेवैमथापि महनीयमेव तेषामेवं चेष्टितम् ॥ ४९ ॥
कथमिति चेत्तदाह-अलमिति । सः प्रसिद्धः एकोऽपि किमुतानेके ? विप्राणां ब्राह्मणानां मध्ये ये प्रवेकाः संध्यादिकर्मानुष्ठानेनोत्तमाः तेषां, "प्रवेकानुत्तमोत्तमाः" इत्यमरः। उपकारः अंहसां पापानां सहस्रं, मञ्जु शीघ्रमेव "द्राक् मङ्घ सपदि द्रुते" इत्यमरः । संहतु विनाशयितुं अलं समर्थः । दृष्टान्तमाह-कठोरः दण्डादिना दृढः तिग्मः धारया च तीक्ष्ण: "तिग्मं तीक्ष्णं खरं तद्वत्-" इत्यमरः । एकोऽप्येक एव किल कुठारः, अनेकानू बहून् विषदून विषवृक्षान् विनिर्भेत्तुं विशेषेण आमूलादित्यर्थः। भेत्तुं छेत्तुं ईष्टे समर्थो भवति । दृष्टान्तालंकारः । भुजंगप्रयातं वृत्तम् । “भुजंगप्रयातं भवेद्यैश्चतुर्भिः” इति तल्लक्षणात् ॥ १४२ ॥
इदानी क्षत्रियादीनां दोषानाह कृशानु:-अस्त्विति । एवं भवदुक्तं अस्तु नाम, अथापि भवदुक्तरीत्या ब्राह्मणानामुपकारकर्तृत्वे सत्यपि, अत्रत्यानामेतद्देशीयानां आद्यात् इतरे क्षत्रियादयस्तेषु वर्णेषु प्रभव उत्पत्तिर्येषां तेषां पुनरतिदुःसहं अत्यन्तं सोढुमशक्यं चेष्टितं आचरणम् । अस्तीति शेषः ॥ ४८ ॥
दुःसहचेष्टितत्वमेव प्रतिपादयति-देशे देश इति । लम्पटाः परद्रव्यापहारतत्पराः अत एव पापाः पापकारिणः एते एतद्देशीयाः क्षत्रियादयः देशेदेशे प्रतिदेशं पर्यटन्तः परिभ्रमन्तः सन्तः, ब्राह्मणादीत अशेषान् सर्वान् भखं भऊं द्रव्यवाञ्छया भक्त्वा भङ्क्त्वा एषां ब्राह्मणादीनां सर्वस्वं, हारं हारं हृत्वा हृत्वा । पूर्वत्रात्र च 'भो आमर्दने' 'हृञ् हरणे' इति धातुभ्यां " आमीक्ष्ण्ये णमुल् च" इति णमुल् । खोदरं पूरयन्ति । हन्तेति खेदे ॥ १४३ ॥
सत्यमिति । एवं 'देशे देशे-' इत्यादिप्रकारेणोक्तं दूषणं सत्यं, अथापि तेषां क्षत्रियादीनां एवमग्रे वक्ष्यमाणरीत्या चेष्टितमाचरणं महनीयमेव पूज्यमेव ॥ ४९ ॥
१ 'अस्त्वेवमप्यत्र'. २ 'वर्णानां'. ३ 'पुनरपि'. ४ 'सत्यमेव तथापि एतेषां चेष्टितं सहनीयम्'.
For Private And Personal Use Only