________________
Shri Mahavir Jain Aradhana Kendra
९०
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
----
विश्वगुणादर्शचम्पूः
तथाहि
मायाचुञ्चतया भयावहगतिः प्रत्यर्थिपृथ्वीभुजाम् माहाराष्ट्रभटच्छटा रणपटुनपर्यटाट्येत चेत् ॥ देव-ब्राह्मणवर्गनिग्रहकृतो देशांस्तुरुपका इमे निष्प्रत्यूहमनोरथा वितनुयुर्निर्देवै - भूमीसुरान् ॥ १४४ ॥
ततश्च
देवक्षोणी सुरहितकृते दारितम्लेच्छपङ्क्तेर्मयां सह्या कथमपि महाराष्ट्रयूथस्य चेष्टा ॥ व्याधिव्यूहप्रतिहतिकृतां व्यक्तमुग्रौषधानां
कायारोग्यप्रणयिहृदयैः काटवं मर्षणीयम् ॥ १४५ ॥
[ महाराष्ट्र -
"
कथं महनीयमित्येतदेवोपपादयति-मायाचुश्श्रुतयेति । रणे पटुः कुशला महाराष्ट्र भवा माहाराष्ट्रास्तेषां भटानां योधानां "भटा योधाश्च योद्धारः" इत्यमरः । छटा समूहः, मायया वित्ता प्रसिद्धा मायाचुच्चुः तस्याः भावः मायाचुञ्चुता तया " तेन वित्तञ्चुप-चणपौ” इति चुचुप्प्रत्ययः । युद्धकापट्यज्ञानप्रसिद्धत्वेनेत्यर्थः । प्रत्यर्थिनां शत्रुभूतानां क्षितिभुजां राज्ञां " दस्यु- शात्रव - शत्रवः । अभिघाति-पराराति-प्रत्यर्थि- परिपन्थिनः" इत्यमरः । भयावहा भयोत्पादका गतिः संचारो यस्यास्तथाभूता सती, नो पर्यटाट्येत भृशं पुनः पुनर्वा परिभ्रमणं न कुर्यात् चेत्, परिपूर्वकस्य 'अट गतौ' इत्यस्य यङन्तस्य विधिलिङि रूपम् । तदा देवाश्च ब्राह्मणाश्च तेषां वर्ग: समुदायः तस्य निग्रहं भ्रष्टकरण-धनग्रहणादिच्छलरूपं कुर्वन्तीति तथाभूताः इमे तुरुष्काः तुरुष्कदेशीया नृपाः, निष्प्रत्यूहः निर्विघ्नः " विनोऽन्तरायः प्रत्यूह: " इत्यमरः । मनोरथः परधनग्रहणादिरूपो येषां तथाभूताः सन्तः, सर्वान् देशान् निर्देवभूमीसुरान् देव-ब्राह्मणरहितान् वितनुयुः कुर्युरेव ॥ १४४ ॥
तत इति । ततश्च पूर्वोक्तत्रासनिवारण हेतोरेव -
3
देवेति । देव क्षोणीसुरहितकृते देव-ब्राह्मणहितार्थं दारिता विनाशिता म्लेच्छानां पङ्क्तिः समुदायो येन तथोक्तस्य महाराष्ट्रयूथस्य महाराष्ट्रनृपसैन्यस्य मयां पृथिव्यां कथमपि सोढुमशक्यत्वे सत्यपि संकटेनैव, चेष्टा कृतिः सह्या सहनीया । लोकैरिति परिशेषात् । यथा व्याधिव्यूहस्य रोगसमूहस्य प्रतिहतं नाशं कुर्वन्तीति तथाभूतानां उग्राणि खराणि च तानि औषधानि च तेषां व्यक्तं प्रसिद्धं काटवं कटुत्वं कायस्य देहस्य आरोग्ये प्रणयि अनुरागयुक्तं हृदयमन्तःकरणं येषां तैर्जनैः कथमपि मर्षणीयम् सहनीयम् दृष्टान्तालंकारः ॥ १४५ ॥
,
१ 'मायाच तया' ' चत्वं मोहजनकत्वनैपुण्यम्' इति तट्टिप्पणी. चेत्. ३ ' निर्वेद'. ४ ' प्रतिकृति '.
For Private And Personal Use Only
२ 'पर्यटत्येव