________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८४
विश्वगुणादर्शचम्यू:- [भिषग्इत्थं किल नीतिविदो विदुः ॥ २३० ॥
विदैवज्ञं ग्रामं विबुधविधुरं भूपतिसंभम् मुखं श्रुत्या हीनं मनुजपतिशून्यं च विषयम् ।। अनाचारान् दारानपहरिकथं काव्यमपि च
प्रवक्तृत्वापेतं गुरुमपि सुबुद्धिः परिहरेत् ॥ ५३५ ॥
अथ भिषग्वर्णनम् ४५.
कृ.--अस्त्वेवम् । इत्यन्यतो वीक्ष्य सोपहासम्__मिथ्यौषधैर्हन्त ! मृषाकषायैरसह्यलेबैरयथार्थतैलैः ॥ ___ वैद्या इमे वञ्चितरुग्णवर्गाः पिचण्डभाण्डं परिपूरयन्ति ॥५३६॥ किंच
न धातोर्विज्ञानं न च परिचयो वैद्यकनये __ न रोगाणां तत्त्वावगतिरपि नो वस्तुगुणधीः ॥ तथाप्येते वैद्या इति तरलयन्तो जडजना
नसून्भृत्या मृत्योरिव वसु हरन्ते ! गदजुषाम् ॥ ५३७ ॥ विदैवज्ञमिति । सुष्टु विचारसंपन्ना बुद्धिर्यस्य सः सुबुद्धिः पुरुषः विदैवज्ञं ज्यौतिषिकरहितं ग्राम, विबुधविधुरं पण्डितशून्यं भूपतिसभं राज्ञः सभा, क्वचित् 'विबुधविधुरां भूपतिसभा' इति पाठान्तरं दृश्यते । तत्तु न युक्तं, "सभा राजाऽमनुध्यपूर्वा" इति राजपर्यायपूर्वसभान्ततत्पुरुषस्य नपुंसकत्व विधानात् । श्रुत्या वेदेन हीनं रहितं मुखं, मनुजपतिना राज्ञा शून्यं च विषयं देशं, अनाचारान् सतीत्वाचाररहितान् व्यभिचारसंपन्नानित्यर्थः । दारान् स्त्रियं चापि, अपगता हरिकथा यस्मात् तत् हरिगुणानुवर्णनरहित मित्यर्थः । काव्यं च, प्रकर्षेण यद्वक्तृत्वं यथार्थोपदेशरूपं तस्मादपेतं निवृत्तं गुरुमध्यापकं च परिहरेत् त्यजेत् ॥ ५३५ ॥
मिथ्येति । इमे वैद्याः मिथ्यौषधैः रोगादिसम्यकपरीक्षामन्तरा प्रयुक्तैरससौषधैः, मृषाकषायैः पूर्ववदेव वृथाप्रयुक्तैः, असधैः सोढुमशक्यैलेंद्यैः, अयथार्थैः विरुद्धरोगप्रयुक्ततया अयोग्यैस्तैलैश्च, वञ्चितः रुग्णानां रोगिजनानां वर्गः समु. दायो यैस्तथाभूताः सन्तः, पिचण्डमुदरं भाण्डमिव परिपूरयन्ति पूर्ण कुर्वन्ति ५३६
नेति । एषां वैद्यानां धातोः पारद-ताम्रादेः विज्ञानं विशेषतः शुद्धिकरणादिज्ञानं न, वैद्यकनये वैद्यकशास्त्रे चरक-सुश्रुतादिग्रन्थे परिचयोऽभ्यासः न, रोगाणां ज्वरा१ 'विधुरां'. २ 'सभाम्'.
For Private And Personal Use Only