________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४४] पदार्थचन्द्रिकाटीकासहिता। २८३ इष्टे प्रागवधारिते सति धृतेस्तुष्टेश्च लाभो भवे
दृष्टे तु व्यसनेऽत्र तत्परिहृतिः कर्तुं जपाद्यैः क्षमा ॥ ५३३ ॥ अविस्रम्भश्च दैवज्ञवचनेष्वनुपपन्नः ॥ २२९ ॥ वृद्धि-हासौ कुमुदसुहृदः पुष्पवन्तोपैरागः
शुक्रादीनामुदयविलयावित्यमी सर्वदृष्टाः ।। आविष्कुर्वन्त्यखिलवचनेष्वत्र कुम्भीपुलाकन्यायाज्ज्योतिर्नयगतिविदा निश्चलं मानभावम् ॥ ५३४ ॥
इत्यनेन डप्रत्ययः । राहुणा केतुना वा ग्रासे, चन्द्र-सूर्यग्रहणे इत्यर्थः । पुरः ग्रासकालात् पूर्वमेव निश्चिते ज्ञाते सति, ज्योतिषिकेनेति शेषः । तापत्रयस्य आध्यात्मिकादिदुःखत्रयस्य उच्चाटनं निर्मूलनं यस्मात् तत् , तापत्रयनाशकरमित्यर्थः । तीर्थानां गङ्गादीनां यात्रार्थमिति शेषः । अटनं भ्रमणं जनस्य घटयेत् संपादयेत् । किंच ग्रहाणामानुकूल्येन इष्टे अभीष्टफले प्राक् तत्प्राप्तिकालात् पूर्वमेव अवधारिते निश्चिते सति धृतेधैर्यस्य तुष्टेः संतोषस्य च लाभः भवेत् । व्यसने दुःखे ग्रहाणां प्रातिकूल्येनेति शेषः। दृष्टे प्राग्गणितेन ज्ञाते सति तु, अत्र तस्य व्यसनस्य परिहृतिः परिहारः जपाद्यैः तत्तदनिष्टग्रहमन्त्रजपायैः, आद्यशब्देन दानादेर्ग्रहणम् । कर्तु क्षमा योग्या स्यात् । अनेन 'असुखमथ सुखं वा' इत्यादिनोतं दूषणं परिहृतमिति ज्ञेयम् ॥ ५३३ ॥
अत एव ज्यौतिषिकवचनमवश्यं माननीयमिति वक्तुमाह-अविस्रम्भ इति । दैवज्ञानां ज्योतिर्विदां वचनेषु भाषणेषु अविनम्भोऽविश्वासः अनुपपन्नः अयुक्तः २२९
कुत इत्यत आह-वृद्धि-हासाविति । कुमुदसुहृदश्चन्द्रस्य वृद्धिः शुक्लपक्षे प्रतिदिनमेकैककलया जायमाना पुष्टिः ह्रासः कृष्णपक्षे तत्क्रमेणैव जायमानः क्षयश्च तौ, पुष्पवन्तौ सूर्याचन्द्रमसौ “एकयोक्त्या पुष्पवन्तौ दिवाकर-निशाकरौ" इत्यमरः। तयोः उपरागः ग्रहणं "उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च।" इत्यमरः । शुक्रादीनां ग्रहाणां, आदिशब्देन गुर्वादीनां ग्रहणम् । उदयः विलयः अस्तमयश्च तो, इत्येवंप्रकारेण अमी कालविशेषाः सर्वैलेोकैः दृष्टाः, एते ज्यौतिषिकनिश्चिता एवेति शेषः । अत्र लोके कुम्भी अन्नपचनपात्रं पुलाकः धान्यकणः तयोायः एककणपचनज्ञानात् सर्वधान्यपाकज्ञानरूपः तस्मात् ज्योतिर्नयो ज्योतिःशास्त्रं तस्य गतिं लापनरीति विदन्ति जानन्तीति तद्विदस्तेषां अखिलानि सर्वाणि यानि वचनानि तेषु निश्चलं चञ्चलतारहितं सनिश्चयमित्यर्थः । मानभावं पूज्यभावं अविष्कुर्वन्ति प्रकटीकुर्वन्ति ॥ ५३४ ॥
१ कष्टे च'. २ 'बुद्धि'. ३ पुष्पवन्तोपरागौ'. ४ 'विदो'.
For Private And Personal Use Only