________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६
विश्वगुणादर्शचम्पूः–
[ अयोध्या
कृशानुः —— कथं नाम रामभद्रमनुचितकर्माणमप्येवमीडिडिषे ? ॥ १५ ॥ वर्षीयानपि जानकीसहचरो मातुः सपत्न्या मुदे
संपन्नं रथ- हस्ति - पत्ति - तुरगैः संत्यज्य राज्यं निजम् ॥ विन्दन् हन्त घनं वनं कथमसौ न स्यादयुक्तक्रियो गव्यं दुग्धमपास्य पास्यति जनः को वा यवागूरसम् ॥ ४३ ॥
सन-कोदण्ड-कार्मुकम् ” इत्यमरः । भजति धारयतीति कोदण्डभाक् अस्ति । इतीदं क्षमं युक्तम् । वक्तुमिति शेषः । पुनः इदं वक्ष्यमाणं च परममत्यन्तं अद्भुतं विचित्रं, ब्रूमहे ब्रूमः । 'ब्रूञ् व्यक्तायां वाचि' इति धातोर्जित्त्वादात्मनेपदमपि । किं तत् । सः पूर्वोक्तः अभीष्टघटक इत्यादिविशेषणविशिष्ट एव, स्वयं विघटितं नाशितं अरीणां शत्रूणां चक्रं समूहो येन तथाभूतः, अत एव विधूता विनाशिता परमा अतिशयिता आर्तिः जन्ममरणादिपीडा (अर्थात् भक्तानां ) येन सः विधूतपरमार्तिकः । शैषिकः कप् । प्रभुः श्रीरामः क्रुधा रोषेण, कुम्भस्य कुम्भनाम्नो राक्षसस्य जनकं रावणं, कुम्भनामा राक्षसो रावणपुत्रत्वेन रामायणादौ प्रसिद्धः । शकलयांबभूव खण्डयामास विनाशितवानिति यावत् । रावणस्य देवादिभिरप्यजेयत्वात्तन्नाशकरणमाश्चर्यजनकमिति भावः । इति वास्तवोऽर्थः । श्लिष्टार्थोऽप्यत्र संभवति यथा - क्षितौ अभीष्टः इच्छितः घटः यस्य स अभीष्टघटकः । शैषिकः कप् । दीप्यते प्रकाश्यते उत्पाद्यत इति यावत् । घटोऽनया दीप्तिर्मृत्पिण्डः अतुला अप्रतिमा दीप्तिर्यस्य स तथाभूतः अत्रापि शैषिकः कप् । दण्डं भजति स्वीकरोतीति दण्डभाक् । घटस्य निमित्तकारणरूपदण्डग्रहीतेति यावत् । इत्येवं क्षमं योग्यमेव । परं च पुनः इदं वक्ष्यमाणं, परममद्भुतमत्याश्चर्यकरं ब्रूमहे । किं तत् । सः अभीष्टघटक एव प्रभुः पुमान् विधूता परा उत्कृष्टा मृत्तिकैव मार्तिका स्वार्थेऽण् । येन तथाभूतः, अराः चक्रान्तर्भूततिर्यक्काष्ठानि यस्य तच्च तत् चक्रं च तत् विघटितं विनाशितं येन तथाभूतः सन् क्रुधा कुम्भजनकं घटोत्पादकं दण्डादिकमपि, शकलयांबभूव शकलीचकार । शकलशब्दात् ' तत्करोति-' इत्यर्थे णिचि लिटि च प्रत्ययान्तत्वादाम् तदन्तात् “कृ-भ्वस्तयोऽनु -" इत्यादिना भवतेरनुप्रयोगः । घटस्पृहावत एव मृद्दण्डादितत्साहित्यनाशनमति विचित्रमिति भावः । अत्र श्लिष्टविशेषणैरप्रकृतार्थसंभवात्समासोक्तिरलंकारः । तदुक्तम् - "परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिः" इति । पृथ्वी वृत्तम् ॥ ४२ ॥
1
1
अथ कृशानुराह कथं नामेति । अनुचितानि अयोग्यानि कर्माणि यस्य तथाभूतमपि रामभद्रं रामचन्द्रं, एवमुक्तप्रकारेण ईडिडिषे स्तोतुमिच्छसि । 'ईड स्तुतौ' इति धातोः सन् " पूर्ववत् " - इति तङ ॥ १५ ॥
अनुचितकर्मत्वमेव प्रपञ्चयति - वर्षीयानिति । यः वर्षीयान् चतुर्ष्वपि दशरथपुत्रेषु ज्येष्ठः, वर्षीयस्शब्दस्य ज्येष्ठभ्रातृवाचकत्वे व्याकरणकोशादिना केनापि न
१ ‘ईडिषे'.
For Private And Personal Use Only