________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
watering
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३४]
पदार्थचन्द्रिकाटीकासहिता ।
२३३
कु० - कमलाकटाक्षातिशयो विभवोपचय हेतुरिति नोपपद्यते । यतस्तदल्पीयस्त्वमेव सम्पदुत्कर्षसम्पादकम् ॥ १७८ ॥
तथाहि
गजशिविकातुरगाः स्युर्नरस्य तन्व्या दृशा हरेस्तन्व्याः || तद्भूनि भवति वाहो नीरद उक्षा च हन्त पक्षी च ॥ ४२८ ॥ वि० - विहस्य -
ईदृशीमुत्कर्षपिशुना मरविन्दालयाया निन्दामभिनन्दामि ॥ १७९ ॥ किं दर्पदायकधनोपचयप्रमत्तैः कन्दर्पसाय कहतैः क्षितिपैरिहेति ॥ सन्तः पुरन्दरनुतं त्वरविन्दनाभेरन्तःपुरं तदवनावनुचिन्तयन्ति ॥ ४२९ ॥
:
शयः जयति सर्वोत्कर्षेण वर्तते । कथंभूतः सः । यस्य कटाक्षपूरस्य उपचयो वृद्धिः तस्य तारतम्येन न्यूनाधिकभावेन हेतुना केऽपि पूर्व हीनदशापना अपि जन्तवः प्राणिनः नराणां मनुष्याणां सुराणां देवानां नरसुराणां ब्राह्मणानां वा पशूनां सर्वजीवानां गोमहिष्यादीनां च प्रजानां च पतयः पालकाः खामिनश्च हन्तेत्यानन्दे । नृपति इन्द्र- रुद्र-ब्रह्माणो वा स्युः ॥ ४२७ ॥
कमलेति । कमलाकाकाणां लक्ष्मीकटाक्षाणामतिशयो विभवस्यैश्वर्यस्य उपचयहेतुवृद्धिकारणमिति नोपपद्यते नैव युज्यते । यतः कारणात् तेषां लक्ष्मीकटाक्षाणामल्पीयस्त्वमेव अत्यल्पत्वमेव संपदः संपत्तेः उत्कर्षसंपादकं भवति ॥ १७८ ॥
तदेवोपपादयति- गजशिबिकेति । हरेः विष्णोस्तन्व्याः कान्तायाः लक्ष्म्याः तन्व्या अल्पयैव दृशा कटाक्षरूपया नरस्य गजा हस्तिनश्च शिबिका आन्दोलिकाश्च तुरगा अश्वाश्च ते स्युः भवन्ति । तेषां लक्ष्मीकटाक्षाणां भूम्नि अतिशये सति क्रमेण नीरदो मेघः वाहो वाहनं भवति । एतदेव पदद्वयमपि योज्यम् । अनेन चेन्द्रस्वरूपमुक्तम् । उक्षा वृषभश्च, अनेन शिवखरूपं, पक्षी गरुडश्च, एतेन विष्णुस्वरूपं वोक्तम् । एतद्यथोत्तरमाधिक्ये ज्ञेयम् । हन्तेत्यानन्दे ॥ ४२८ ॥
ईशीमिति । ईदृशीं शब्दमात्र विरोधदर्शिनीं वस्तुतस्तत्त्वार्थप्रतिपादिनीं अत एवोत्कर्षस्यातिशयस्य पिशुनां सूचकां अरविन्दालयायाः पद्मालयायाः लक्ष्म्याः निन्दामप्यभिनन्दामि मुदानुमन्ये ॥ १७९ ॥
यतः सज्जनाः क्षणभङ्गुरत्वं लौकिकराज्याद्यैश्वर्यस्यालोच्य मोक्षमार्गमेवानुसरन्तीत्याह- किमिति । दर्पदायकः गर्वसंपादको यो धनस्य द्रव्यस्योपचयो वृद्धिः तेन प्रमत्तैः सदसद्विवेकशून्यैः केवलं कन्दर्पस्य मदनस्य सायकैः बाणैः करणैः हतैः, सततं कामास कैरित्यर्थः । क्षितिपै राजभिः इह लोके किं कर्तव्यमस्ति ? इत्यालोच्य सन्तः पुरंदरेणेन्द्रेणापि नुतं स्तुतं अरविन्दं कमलं नाभौ यस्य तस्य विष्णोः तत्
१ 'हृतैः',
For Private And Personal Use Only
,