________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
विश्वगुणादर्शचम्पू:- [शठकोपमुनिसमन्तादवलोक्य सानन्दं कृशानुमुद्दिश्य
अभ्यस्तवेदमौलिभ्यः सद्भयस्तत्त्वबुभुत्सया ॥
कुरुकापुरवासिभ्यः कुरु कामं नमस्क्रियाः ॥ ४९९ ॥ कृ०--सत्यमेवम् । तथापि पुनरतिपतितश्रुतिस्मृतयो यतयोऽपि कतिचिदत्र वर्तन्त इति भातीह नातिमाननीयता ॥ २०७॥ तथाहिन संध्यासु स्नानं तिसूषु न कमण्डल्वभिधृति
ने चातुर्मास्यादिव्रतमपि न भिक्षाटनविधिः ॥ न लिप्सायास्त्यागो न परिपठनं चोपनिषदाम् ___ यतित्वं नैतेषां श्रुतिमैतमतिक्रम्य चरताम् ॥ ५०० ॥ __ न केवलमेतावदेव शृणु तावदन्यदपि ॥ २०८ ॥ रङ्गभूमिः, विमुक्तेर्मोक्षस्य निःश्रेणी, अधिरोहणी, सुकृतस्य पुण्यकर्मणः परिपकेः परिपाकस्य फलं इच्छितलाभः, प्रपत्तेः शरणागतेः उद्यानक्षितिः उपवनभूमिः, विशिसुखोत्पादकत्वात् । अकृतकायाः अकृत्रिमायाः उक्तेः वेदस्य प्रियसखी, चिदड. रस्य चिन्मयनूतनप्ररोहस्य क्षोणी उत्पत्तिभूमिः, एतदभ्यासादेव चिन्मयब्रह्मज्ञानं प्रादुर्भवतीत्यर्थः । एतादृशी असौ बकुलधरस्य श्रीशठकोपस्य वाणी प्रबन्धरूपा विजयते सर्वोत्कर्षेण वर्तते ॥ ४९८ ॥
अभ्यस्तेति । हे कृशानो, त्वमिति शेषः । तत्त्वस्य आत्मयाथार्थ्यस्य बुभुत्सया जिज्ञासया हेतुभूतया अभ्यस्ताः अधीताः वेदमौलयः उपनिषदः यैस्तेभ्यः अत एव सन्यः कुरुकापुरवासिभ्यः कामं यथेच्छं नमस्क्रियाः नमस्कारान् कुरु ॥ ४९९ ॥
सत्यमिति । सत्यमित्यार्धाङ्गीकारे । एवं त्वदुक्तप्रकारेण सत्यं, तथापि अतिपतिताः अतिक्रमिताः श्रुतयः स्मृतयश्च यैस्ते कतिचित् यतयः संन्यासिनोऽपि अत्र कुरुकानगों वर्तन्ते इति हेतोः अतिमाननीयता अतिपूज्यता इह न भाति ॥२०७॥
नेति । श्रुतिमतं वेदमतमतिक्रम्य चरतां एतेषां संन्यासिनां एतत्प्रतिवाक्यान्वयि । तिसृषु संध्यासु प्रातमध्याह्न-सायाह्रासु स्नानं यतीनां वेदविहितं न, कमण्डलोः अभिधृतिर्धारणं न, चातुर्मास्यादिवतं एकस्मिन्नेव स्थाने संवासादिरूपं एतच्च यतीनां शास्त्रविहितम् । तदपि न, भिक्षाटनं भिक्षार्थे परिभ्रमणं तस्य विधिः न, लिप्सायाः धनवाञ्छायाः त्यागो न, किंच उपनिषदां पठनमपि न, अत एव एतेषां यतित्वं न । केवलं काषायवनपरिधानादिना बाह्यतः संन्यासित्वेपि न तथाऽन्तत इत्यर्थः॥५००॥
१ सहर्षम्'. २ 'अतीतं'. ३ 'न भातीह माननीयता'. ४ 'श्रुतिगति',
For Private And Personal Use Only