________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [भूलोकतदिह मदिभिः क्षुदैश्छिद्रकमार्गणतत्परैः
प्रभुभिरुदितक्षत्यै क्षित्यै बुधः स्पृहयेत कः ॥ २६ ॥ बालत्वे वा तरुणिमनि वा प्रायशो वार्द्धके वा
मृत्वा मां बत यमभटैर्बद्धचमाना व्यथन्ते ॥ श्रेयस्तेषाममितविपदां जीवतां वा किमास्ते ?
कस्मिन् ग्रामे पुनरनड्डहां कर्षणक्लेशहानिः ॥ २७ ॥
तैर्मलिनाः, अत एव शोकेन दुःखेन आतुराः पीडिताः, सन्तीति शेषः। न त्वेतावदेव, किंतु राजानोऽपि भूःस्था अविनयमनुसरन्तीत्याह-तदिहेत्यादिना । तत् तस्मात् कारणात् छिद्राणां परकीयदोषाणामेकं मुख्यं यथा स्यात्तथा मार्गणे अन्वेषणे तत्परा आसत्तास्तैः "तत्परे प्रसितासतौ" इत्यमरः । अत एव क्षुद्रैः नीचैः मदिभिथाहंकारयुक्कैः । मदशब्दान्मत्वर्थ इनिः । प्रभुभी राजभिः उदिता प्रारब्धा क्षति
शो यस्याः, अर्थात् अधिककरग्रहणादिद्वारेति ज्ञेयम्। तस्यै क्षियै पृथिव्या इत्यर्थः। कः बुधः ज्ञाता; न तु मूर्खः, इह खर्गस्थः सन् स्पृहयेत? न कोपीत्यर्थः । “स्पृहेरीप्सितः" इति चतुर्थी । हरिणी वृत्तम् । “रस-युग-हयैश्छिन्ना न्सौ नौ स-लौ हरिणी गुरुः" इति तल्लक्षणात् ॥ २६ ॥ ___ अन्यदपि भूलोकदूषणमाह-बालत्वे इति । प्रायशो बहुधा मा मनुष्याः । बालत्वे बाल्यावस्थायां वाथवा तरुणस्य भावस्तरुणिमा तस्मिन् तारुण्ये इत्यर्थः । "पृथ्वादिभ्य इमनिज्वा" इति भावार्थे इमनिच्प्रत्ययः। वृद्धस्य भावो वार्द्धकं तस्मिन् वृद्धे वयसीत्यर्थः । “द्वन्द्वमनोज्ञादिभ्यश्च" इति वुञ्प्रत्ययः । मनोज्ञादेराकृतिगणत्वात् । मृत्वा, यमभटैर्यमदूतैः कर्तृभिः, बध्यमानाः निजपाशैदृढं बद्धा नीयमाना इत्यर्थः । तादृशाः सन्तः व्यथन्ते दुःखिनो भवन्ति । ननु मरणोत्तरं दुःखिनो भवन्ति चेत् भवन्तु नाम, परंतु जीवितकालपर्यन्तं सुखिन एव ते इत्याशङ्कयाहश्रेयस्तेषामित्यादि । तेषां पूर्वोक्तरीत्या दुःखभागिनां जनानां, अमिताः असंख्येया विपदो व्याध्यादिरूपा येषां तेषां, जीवतां सतां वाऽपि, श्रेयः सुखं किमास्ते ? अपि तु नैवेत्यर्थः । अपि च पुनः अनडुहां बलीवर्दानां कर्षणेन क्षेत्रादिभूम्यां हलाद्याकर्षणेन शकटाद्याकर्षणेन च यः क्लेशो दुःखं तस्य हानिर्विनाशः कर्षणादिक्लेशं विना लोकपूज्यानामपि बलीवर्दानां तृणादिना पोषणमिति भावः। कस्मिन् ग्रामे वर्तते अपि तु कैस्मिंश्चिदपि नैवेति भावः । तस्मात्स्वर्गस्थसुकृतिजनैर्नायं पापिजनाधिष्ठितो भूलोकः प्रशंसनीय इति । मन्दाक्रान्ता वृत्तम् । लक्षणमुक्तं प्राक् ( ८ श्लोकटीकायाम् )॥२७॥
१ 'मथ्यमाना'.
For Private And Personal Use Only