SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -वर्णनम् ३] पदार्थचन्द्रिकाटीकासहिता । विश्वावसुः-सत्यमेवं तथापि सखे मह्याश्रयं मानुषजन्म मा दूदुषः ॥ १० ॥ तथाहिरामः क्षेमस्य दाता भुवि ननु मनुजो रावणस्य प्रहता तत्तातः किं न मर्त्यस्त्रिदशकुलपतेर्दैत्ययुद्धे सहायः ॥ कृष्णो वृष्णो मदं योऽहरत नरतया न श्रुतः किं त्वयासौ के वा देवाः प्रभावात् खयमतिशयिता मानवादानवा वा ॥२८॥ एवं कृशानुनोक्तं दूषणमुद्धारयन्नाह विश्वावसुः सत्यमिति । सत्यमित्यर्धाङ्गीकारे । यत्किंचिद्दूषणसत्त्वेऽपि सर्वथा दूषणानहलं तस्यार्थः। तदेव द्योतयतिहे सखे कृशानो, तथापि यत्किचिदंशेन दूषणसत्त्वेऽपि, मह्याश्रयं पृथिव्याश्रयं मानुषाणां मनुष्याणां जन्म उत्पत्ति, मा दूदुषः मा दूषय । 'दुष वैकृत्ये' इत्यस्माणिजन्ताल्लुडि रूपम् । “णि-त्रि-" इति चङ् “चङि' इति द्वित्वम् । “णेरनिटि" इति णिलोपः । “णौ चडि-" इत्युपधाह्रखः "दी? लघोः" इत्यभ्यासस्य दीर्घः "न माड्योगे" इत्यडागमाभावः ॥ १० ॥ 'मानुषजन्म मा दूदुषः' इत्युक्तं तदेव सहेतुकमुपपादयति-राम इत्यादिना । भुवि क्षेमस्य कुशलस्य "कुशलं क्षेममस्त्रियाम्" इत्यमरः । दाता, रावणस्य प्रहर्ता माशको रामो दशरथपुत्रः, मनुजो ननु मनुष्य एव । बभूवेति शेषः । 'रावणस्य प्रहर्ता' इति हेतुगर्भ विशेषणम् । लोककण्टकीभूतरावणविनाशात् लोकानां सुखोत्पादक इत्यर्थः । तथा त्रिदशकुलपतेर्देवसमूहाधिपतेरिन्द्रस्य दैत्ययुद्धे वृषपर्वाख्यदैत्ययुद्धप्रसङ्गे इत्यर्थः।सहायः, तस्य रामस्य तातः पिता दशरथः,मर्त्यःमनुष्यःन किम् ? अपि तु मनुष्य एवेत्यर्थः । तथैव यः नरतया मनुष्यत्वेन "तस्य भावः” इति भावार्थे त• प्रत्ययः । कृष्णः वसुदेवपुत्रत्वेन प्रसिद्धः, वृष्णः इन्द्रस्य "इन्द्रोमरुलान्-"इत्यारभ्य "वासवो वृत्रहा वृषा" इत्यन्तोऽमरः । मदं गर्व लोकपालत्वाभिमानमित्यर्थः । "दर्पोऽवलेपोऽवष्टम्भश्चित्तोद्रेकः स्मयो मदः” इत्यमरः । अहरत हृतवान् , गोवर्द्धनोद्धरणेनेति भावः । असौ कृष्णः त्वया न श्रुतः किम् ? 'वृष्णो मदमहरत' इत्युपलक्षणम् । तेन कंसवध-ब्रह्ममायानिरासादिकान्यन्यान्यपि बहूनि कार्याणि ज्ञेयानि। एवं सति के वा देवाः दानवा दैत्याः वा मानवात् ल्यब्लोपे पञ्चमी । मनुष्यसहायमनपेक्ष्यर्थः । वयं प्रभावात् स्वपराक्रमादेव अतिशयिताः संजातोत्कर्षाः ? "तदस्य संजातं-" इति तारकादित्वादितच्। न केऽपीत्यर्थः । एवं च यत्र एतादृशा देवेभ्योऽपि वीर्यवन्तो मनुष्या बभूवुस्तादृशभूलोकनिन्दनमयुक्तमिति भावः। स्रग्धरा वृत्तम् । लक्षणमुक्तं प्राक् ( १ श्लोकटीकायाम् ) ॥ २८॥ १ 'सत्यमेव तथापि मा स्म'. २ 'द्विषः'. ३ एतत्त्वचित्पुस्तके नोपलभ्यते. ४ 'ते'. For Private And Personal Use Only
SR No.020911
Book TitleVishva Gunadarsh Champu
Original Sutra AuthorN/A
AuthorGangadev Bhatt, Mahadev Sharma
PublisherTukaram Jawaji Mumbai
Publication Year1910
Total Pages331
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy