________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १३] पदार्थचन्द्रिकाटीकासहिता । वेदाध्यायी सर इव मरौ क्वापि कश्चिद्यदि स्या
दत्रामंत्रप्रकरकरणे वर्ततेऽसौ नियुक्तः ॥ १५४ ॥ किंच महाराष्टे दृष्टा दोषा अत्राप्यतिदेष्टव्याः ॥ ५४ ॥ विश्वावसुः-वयस्य, मैवं वादीः ॥ ५५ ॥
मा नाम यक्षत मखैरनधैरिहामी
मो चाधिगीषत वचांसि चिरंतनानि ॥ देवेषु भक्तिरवनित्रिदशेषु चैषां
विश्राणनं च विविधान् विधुनोति दोषान् ॥ १५५ ॥ पश्य तावदेतेषां भाग्यवत्ताम् ॥ ५६ ॥
रोमावल्या तपनसुतया रम्यहारधुनद्या
हृद्यास्तुङ्गस्तनगिरिजुषो नाभिवापीमनोज्ञाः ॥ आन्ध्रदेशे अमत्राणां मलिनपात्राणां प्रकरे संक्षालने करणे कर्मणि नियुक्तः सन् , वर्तते । अतिनीचवृत्त्या जीवतीत्यर्थः ॥ १५४
वयस्येति । वयस्य भो मित्र, एवमुक्तप्रकारं दूषणं मा वादीः मा वद 'वद व्यक्तायां वाचि, इत्यस्मात् माङयोगे "माडि लुङ्” इति लुडि "न माझ्योगे" इत्यडागमाभावः ॥ ५५॥
मेति । इह आन्ध्रदेशे अमी ब्राह्मणादयः त्रयोवर्णाः, अनधैः मखैर्यज्ञैः मा यक्षत न यजन्तु । नामेत्यनादरे । सर्वत्र अतिसर्गे लोट् । अतिसर्गः कामचारानुज्ञा । किंच चिरंतनानि पुरातनानि वचांसि वेदवाक्यानि च माधिगीषत न पठन्तु नाम । तथापि देवेषु श्रीविष्ण्वादिषु भक्तिः, अवनित्रिदशेषु ब्राह्मणेषु निषये विश्राणनं दानं च “विश्राणनं वितरणं स्पर्शनं प्रतिपादनम्" इत्यमरः । एषामान्ध्रदेश्यानां, समस्तान् दोषान् सर्वान् पूर्वोक्तान विधुनोति निवारयति ॥ १५५ ॥
पश्यति । एतेषां आन्ध्रदेशीयानां अन्यामपीति शेषः । भाग्यवत्तां अग्रे वक्ष्यमाणां पश्य तावत् ॥ ५६ ॥
रोमावल्येति। अत्र उपमाप्रायपाठात् , तपनसुतया यमुनयेवेति व्यवहितोऽपि इवशब्दोऽनुषञ्जनीयः । रोमावल्या, रम्येण हारेण धुनद्या गङ्गयेवेत्युपमितसमासः।
१ कचित्पुस्तके 'पत्रामत्रप्रकरकरणे' इति पाठो दृश्यते । अस्मिंश्च पाठे"पत्रं पलाशं छदनम्' "पात्रामत्रं च भाजनम्" इति कोशात् पत्राणां पलाशानां अमत्रं पात्रं 'पत्रावली' इति महाराष्ट्रभाषायां प्रसिद्धं, तस्य प्रकरः समुदायः तस्य करणे इति व्याख्येयम् । क्वचित्कचित् दृश्यन्ते चाधुनातनानां धनिकानां गृहस्थानां गृहे मुखेन वेदपाठं कुर्वन्तः पत्रावलीकरणे नियुक्तास्तदाश्रिता वैदिकाः। २ 'मावाधिगीतवचनानि'. ३ 'हारा'. ४'स्तनगिरिजुषिर'.
For Private And Personal Use Only