________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[आन्ध्रदेश
विश्वगुणादर्शचम्पू:- अथ आन्ध्रदेशवर्णनम् १३.
इति विमानमन्यतः समानयन् निपुणं विभाव्य
सुशोभनक्रमकरैः सेवितो जीवनार्थिभिः ।।
मध्यस्थवाडवो राजत्यान्ध्रदेशो नंदीशवत् ॥ १५३ ॥ कृ०-अये किं प्रशंसस्यपयातमर्यादममुं देशम् ? ॥ ५३ ॥ पश्यग्रामे ग्रामे निवसति चिरात्स्वामिभावेन शूद्रो
भृत्यो भूत्वा पठति गणनां ब्राह्मणस्तस्य पार्थे ।
सिन्धुषु नदीषु स्नानात् पूतं शुद्धियुक्तं 'पूञ् पवने' इत्यस्मात् भावे क्तप्रत्यये अर्श. आदित्वान्मत्वर्थीयोऽच्प्रत्ययः। अझं शरीरं येषां तेषाम् । तत एव च दाराः स्त्रियश्च अगारं गृहं च, एतद्धनादेरप्युपलक्षणम् । अपत्यानि पुत्राश्च तेषु वैराग्यं अनासक्ति भजन्ति कुर्वन्तीति तथाभूतानां, एषां जनानां साराभिज्ञैः सदसद्विवेकयुक्तैर्जनैः आदरः कार्यः कर्तव्यः ॥ १५२ ॥
सुशोभनेति । अयं आन्ध्रदेशः जीवनं उपजीविकां जलं च अर्थयन्ति इच्छन्तीति जीवनार्थिनः तैः सु उत्तमानि शोभनानि कल्याणानि येभ्यस्तान् क्रमान् आचारान् कुर्वन्तीति तत्करास्तैर्जनैः, पक्षे सुष्ठ शोभा येषां ते सुशोभाः ते च ते नका मत्स्यविशेषाश्च मकराश्च तैर्जलजन्तुभिश्च सेवितः अधिष्ठितः, मध्यस्था मध्ये वर्तमानाः वाडवाः ब्राह्मणा यस्य पक्षे मध्ये स्थितो वाडवो वाडवाग्निश्च यस्येत्यर्थः । नदीशवत् समुद्रवत् राजति शोभते । अत्र 'नदेशवत्' इति पाठान्तरं प्रकल्प्य नदेशवत् समुद्रवत्' इति, आन्ध्रदेशः देशवत् अन्यदेशवत् न राजति,अपि तु सर्वोत्तमतया राजति' इत्यप्यर्थान्तरं कुर्वन्ति केचित् । अत्र श्लिष्टोपमालंकारः ॥ १५३ ॥
अये इति । अये भो, अपयातमर्यादं त्यक्तवर्णाश्रमरीतिममुं देशं आन्ध्रदेशं, किं कुतो हेतोः प्रशंससि ? ॥ ५३॥ __ ग्राम इति । शूद्रः खामिभावेन प्रभुत्वेन उपलक्षितः, ग्रामे ग्रामे, वीप्सायां द्विर्भावः। चिरात् निवसति । तस्य शूद्रस्य पार्श्वे भृत्यः गणकसंज्ञया उपलक्षितः, सेवको भूत्वा ब्राह्मणः गणनां ग्रामाय-व्ययसंख्यां पठति । मरौ देशे सर इव क्वापि कुत्रापि वेदाध्यायी कश्चिदेकः स्यात् यदि वर्तते चेत् , असौ वेदपाठकः अत्र
१ 'न-देशवत्'.
For Private And Personal Use Only