________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १२] पदार्थचन्द्रिकाटीकासहिता। एकोऽपि राघवशरः किल सप्ततालान्
शैलं रसातलमपि त्वरया बिभेद ॥ १५० ॥ अपि चधुनोति निबिडं तमः परिलुनाति पापाटवीं
तनोति च मनोरथानुपचिनोति नानोत्सवान् ॥ अनक्ति च पुनःपुनर्ननु मनः सुधानिझरै
र्व्यनक्ति परिपवित्रमं वृषगिरीशभक्तिः शुभम् ॥ १५१ ॥ किं बहुनापूताङ्गानां पुण्यगङ्गादिसिन्धुस्नानान्नानाक्षेत्रयात्रापराणाम् ॥
दारागारापत्यवैराग्यभाजां साराभिज्ञैरादरः कार्य एषाम् ॥ १५२ ।। भौतिकादिकं, जन्मदुरितं जन्मनः आरभ्य संपादितं पापमित्यर्थः । दृढां त्यक्तुमशक्यां अविद्या अज्ञानं च हन्ति विनाशयति । हा हन्तेत्याश्चर्ये । अत्र दृष्टान्तमाह-राघवस्य श्रीरामचन्द्रस्य शरो बाणः एकोऽपि एक एव, सप्ततालान् सप्तसंख्याकांस्तालवृक्षान् , शैलं पर्वतं च रसातलं पातालमपि, त्वरया शीघ्रमेव बिभेद। किलेल्यैतिह्ये । वालिवधात् पूर्वं सुग्रीवप्रार्थितेन श्रीरामचन्द्रेणैतत् खसामर्थ्यप्रकटनार्थ कृतमिति श्रीरामायणकथात्रानुसंधेया । दृष्टान्तालंकारः ॥ १५० ॥
किंच-धुनोतीति । वृषगिरीशः श्रीवेङ्कटाचलनिवासी श्रीनिवासः अथवा वृषस्य गिरिः पर्वतः श्रीशैलः तस्येशो मल्लिकार्जुनः, वृष इव गिरिः शुभ्रः कैलासः तस्य ईशः श्रीशंकर इति वा। तस्मिन् कस्मिन्नपि भक्तिः की। निबिडं सान्द्रं तमः अज्ञानं धुनोति विनाशयति । पापानां अटवी अरण्य तत्सदृशं समूह मित्यर्थः परिलुनाति सर्वतश्छिनत्ति । मनोरथान् तनोति विस्तारयति । नानोत्सवान् अनेकविधानानन्दान् उपचिनोति वर्धयति । पुनः पुनः मनः सुधानिर्झरैः अमृतप्रवाहैः सह अनक्ति संयोजयति । ननु निश्चयेन । ईशभक्त्या स्वर्गप्राप्तिर्भवतीति भावः । परिपक्रिमं फलाभिमुखं सत्,पचेः"द्वितःक्रिः" इति क्रिप्रत्ययः। तदन्ताच "केर्मप्-" इति मप् । शुभं शुभफलावहं व्यनक्ति संपादयति। समुच्चयनामालंकारः । "तत्सिद्भिहेतावेकस्मिन्यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ स त्वन्यो युपगद्या गुणकिया" इति तल्लक्षणात् ॥ १५१ ॥
किमिति । बहुनाधिकेन उक्तेनेति शेषः । किं किं फलं, सारमेव संक्षेपेण कथयामीति भावः ।
पृतेति । नानाक्षेत्रेषु काशी-प्रयागादिबहुषु पुण्यक्षेत्रेषु यात्रायां गमनरूपायां पराणामासक्तानां अत एव पुण्यासु पवित्ररूपासु गङ्गा आदिमुख्या यासु तासु
१'सप्तसालान्',
For Private And Personal Use Only