________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:- [ महाराष्ट्रकिंच- . विमलचरिता विश्वामित्रादयः परमर्षयो ___ बहुभिरतुलैर्ब्राह्मण्यं यत्तपोभिरुपार्जयन् ।। तदिह जहतो जन्मप्राप्तं त्रयीविमुखेष्वमी___ष्वहह कतिचित्पाखण्डेषु प्रविश्य हता जनाः ॥ १४८ ॥ वि०-कथमरे हरेभक्तेषु विरक्तेष्वप्यमीषु सन्नद्यसि ॥ ५२ ॥ दोषेभ्यो नैव भेतव्यं दृढा चेद्भक्तिरच्युते । तिमिरेभ्यो नहि भयं दीपश्चेल्लभ्यते महान् ॥ १४९ ॥ किंचदुःखं च जन्मदुरितं च दृढामविद्याम्
हा हन्त हन्ति परमा हरिभक्तिरेका ॥ निपुणाः सन्तः, दिक्षु पूर्वादिषु, विदिक्षु आग्नेय्यादिषूपदिशासु, कुक्षिभृतये उदरभरणार्थं भिक्षाटनं कुर्वते ॥ १४७ ॥
किंच-विमलेति । विमलं निर्मलं चरितं आचरणं येषां ते, विश्वामित्रः "मित्रे वर्षों" इति विश्वशब्दस्य दीर्घः । आदिः प्रमुखो येषां ते परमर्षयः श्रेष्टा ऋषयः अतुलैः इतरैः कर्तुमशक्यैः बहुभिः षष्टिवर्षसहस्रसदृशबहुकालसाध्यैः तपोभिस्तपश्वर्याभिः, यत् ब्राह्मण्यं ब्राह्मणत्वं उपार्जयन् संपादितवन्तः, तत् ब्राह्मण्यं इह लोके जन्मतः प्राप्तं, न तु तपआदिप्रयत्नैः, जहतः त्यजन्तः सन्तः त्रयी विमुखेषु ऋगादिवेदत्रयपराङ्मुखेषु पाषण्डेषु वेद-शास्त्रविहितकर्मभ्रष्टेषु अमीषु वैरागिषु प्र. विश्य, तैः सहैकीभूयेत्यर्थः । एते जनाः हताः भ्रष्टाः । अहहेति खेदे ॥ १४८ ॥
कथमिति । अरे कृशानो ! हरेर्विष्णोर्भक्तेषु विरक्तेषु शब्दादिविषयपराङ्मुखेध्वपि, अमीषु दूषयितुमिति शेषः । संनह्यसि उद्युक्तो भवसि ॥ ५२ ॥ __ भक्तिसंपन्नेषु विरागयुक्तेषु च धर्मत्यागादिरूपं दूषणमकिंचित्करमित्याहदोषेभ्य इति । अच्युते श्रीभगवति विष्णौ दृढा भक्तिश्चेत् , दोषेभ्यः पूर्वोक्तेभ्यो नैव भेतव्यं, दृढभक्तेः पुरतः इतरे सर्वेऽपि दोषास्तुच्छा इत्यर्थः । एतद्भगवता श्रीकृष्णेनैव भगवद्गीतायां स्वमुखेन प्रतिपादितम्-"सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज । अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः" इति । एतदेव प्रतिवस्तूपमयाह-तिमिरेभ्य इति । महान् प्रज्वलितः दीपः लभ्यते चेत् , तिमिरेभ्यः अन्धकारेभ्यः भयं नहि नास्त्येव । प्रतिवस्तूपमालंकारः । लक्षणमुक्तं प्राक् ॥१४९॥ किंच-दुःखमिति । परमोत्तमा हरिभक्तिः श्रीकृष्णभक्तिः एकैव, दुःखं आधि
१ किमरे हरिभक्तेषु'. २ 'विरक्तेषु' कचिञ्चैतन्न दृश्यते. ३ कचिदपि 'विदूपयितुं' इत्यधिकं दृश्यते.
For Private And Personal Use Only