________________
Shri Mahavir Jain Aradhana Kendra
-वर्णनम् ३४]
तथाहि
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पदार्थचन्द्रिकाटीकासहिता ।
२३५
अधिगतनिगमाङ्गोऽपि द्विजराजोऽप्यच्युतं दधानोऽपि ॥
निजगार ? कथंकारं निःशङ्कं भिल्लपल्लिकां गरुडः ॥ ४३२ ॥ वि० – पक्षिराजस्य भिल्लपल्लीनिगरणेन साधुजनानुग्रहासाधुजननिग्रहसामर्थ्य सदसद्विवेचनचातुर्ये च व्यञ्जितमेतत्कथं भूषणमेव दूषयसि ! ॥ १८१ ॥
शृणु
गरुड गर्ल कमपि किल्बिषाविलं खलभिल्लजालैमुषितं तदन्तरे ॥ निरजीगल न्निजगला दिलासुरं भवतः प्रपन्नमिव पन्नगेशयः ॥ ४३३ ॥ हन्त शकुन्तपुरन्दरस्यास्य खच्छन्दविहारावसरेष्वप्यभङ्गुरमेव खामिकैङ्कर्यम् ॥ १८२ ॥
अतिकान्तमर्यादत्वमेवाह-अधिगतेति । अधिगतानि ज्ञातानि निगमा वेदाश्च अङ्गानि शिक्षा-व्याकरणादीनि च येन, अधिगतानि प्राप्तानि निगममयान्यङ्गानि हस्तपादाद्यवयवा येनेति वा, तथाभूतोऽपि द्विजानां ब्राह्मणानां पक्षिणां च राजा श्रेष्ठः अधिपतिश्वापि, अच्युतं विष्णुं दधानोऽपि धारयन् सन्नपि गरुडः भिल्लपल्लिको भिल्ल गोधिकां, हिरण्यपुराभिधं शबरग्रामं चेति भावदर्पणकारः । निःशङ्कं भयरहितं यथा तथा कथंकारं कथं निजगार भक्षितवान् । एतदेवातिक्रान्तमर्यादत्व • मित्यर्थः ॥ ४३२
-
पक्षिराजस्येति । भिल्लपल्लयाः निगरणेन भक्षणेन साधुजनेषु अनुग्रहः कृपा च असाधुजनेषु दुष्टजनेषु च निग्रहः शिक्षा च तयोः सामर्थ्य, तत एव च सदसतोः सत्यासत्ययोः विवेचने चातुर्यं नैपुण्यं च पक्षिराजस्य गरुडस्य व्यञ्जितं प्रकटीभूतं, एतच्च भूषणमेव तत् त्वं कथं दूषयसि ! ॥ १८१ ॥
गरुड इति । गरुड: कमपि किल्बिषैः पापैः आविलं मलिनं दूषितमित्यर्थः । खलभिल्लानां दुष्टशबराणां जालं समूहं गिलन् भक्षयन् सन् तस्य भिल्लसमूहस्य अन्तरे मध्ये उषितं स्थितं निजगलात् स्वकण्ठात् इलासुरं भूसुरं ब्राह्मणमित्यर्थः । भवतः संसारात् प्रपन्नं शरणागतं भक्तं पन्नगे शेषे शेतेऽसौ पन्नगेशयः विष्णुरिव निरजीगलत् बहिर्निःसारितवान् । अनेन तस्य दुष्टेष्वेव निग्रहो द्योतितः ॥ ४३३ ॥
हन्तेति । शकुन्तानां पक्षिणां पुरंदरस्य इन्द्रस्य पक्षिश्रेष्ठस्येत्यर्थः । " शकुन्त- पक्षि-शकुनि -" इत्यमरः । अस्य गरुडस्य स्वच्छन्दाः स्वतन्त्रा ये विहाराः क्रीडाः तेषां अवसरेषु समयेष्वपि स्वामिनो भगवतो विष्णोः कैङ्कर्य दास्यं अभडरमेव विच्छेदरहितमेव । वर्तत इति शेषः ॥ १८२ ॥
१ 'निगरणे', २ ' विजृम्भितं' ३ ' दूषयति भवान्' ४ 'गिरन्' ५ ' भिलजात'.
•
For Private And Personal Use Only