________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१३०
विश्वगुणादर्शचम्पू:
श्रीरामानुजदर्शनैकरसिकः शिष्टः प्रकृष्टैर्गुणैः पूर्णानां विदुषां मतान्तरजुषां पङ्क्तौ न भुङ्क्ते क्वचित् ॥
हान्तौदनमन्ततः शुचितमं तद्दृष्टमाशु त्यज
त्यास्तां तत्स्वमतस्थितैरपि समं प्रायेण नाश्नात्यसौ ॥ २२९ ॥ किंच—
नैषां न्याय्य इह द्विजान्वयजुषां भाषाप्रबन्धे श्रमो वेदे विश्वमर्थसाधनविधौ बद्धोदरे जाग्रति ॥ तीरं क्षीरपयोनिधेरुपगतो दैत्यारिदध्यावृतम्
को वा धावति दुग्धलब्धिचपलो गोपालकस्यालयम् ॥ २३०॥ किंचएतन्मतानुवर्तिनां केषांचिदेषां चेष्टा नेष्टा वैदिकानाम् । पश्य ॥ ९२ ॥
,
तानेव दोषान् दर्शयति - श्रीरामानुजेति । श्रीरामानुजस्य दर्शने एव एकं मुख्यं यथा तथा रसिकः रसज्ञः प्रकृष्टैः विद्वत्त्वाचारसंपन्नत्वादिभिरुत्तमैर्गुणैः शिष्टः श्रेष्ठश्च सन्, मतान्तरजुषां शांकराद्यन्यमतानुयायिनां पूर्णानां विद्याचरणादिभिः परिपूर्णानामपि किमुतापूर्णानाम् । पङ्क्तौ भोजनपङ्कौ कचित् कदाचिदपि न भुङ्क्ते भोजनं नैव करोति । किंच नैतावदेव अन्यदपि मात्सर्य कथयति । अन्ततो वस्तुतः शुचितममतिपवित्रमपि ओदनमन्नं तैर्दृष्टं मतान्तरस्थैरवलोकितं सत्, आशु शीघ्रमेव त्यजति । तत्तु आस्तां नाम, किंतु स्वमतस्थितैरपि समं सह असौ रामानुजीयः प्रायेण न अश्नाति नैव भुङ्क्ते । कदाचित्तु भुङ्क्ते ॥ २२९ ॥
1
[ श्रीरामानुज
नैषामिति । एषां रामानुजीयानां द्विजान्वयं ब्राह्मणवशं जुषन्ति आश्रयन्ति तेषां ब्राह्मणकुलोत्पन्नानामिति यावत् । विश्वेषां सकलानां पुमर्थानां धर्मादिपुरुपार्थानां साधनविधौ संपादनकर्मणि, बद्धादरे स्वीकृतादरे वेदे जाग्रति सति, भाषाप्रबन्धे द्राविडभाषानिर्मिते पन्थे श्रमः अभ्यासः इह न न्याय्यः नैव युक्तः । तत्र दृष्टान्तमाह - तीरमिति । दैत्यारेः श्रीविष्णोः दीप्त्या कान्त्या आवृतं वेष्टितं क्षीरपयोनिधेः क्षीरसमुद्रस्य तीरं उपगतः प्राप्तः सन् को वा पुरुषः दुग्धस्य लब्धौ प्राप्तौ चपलः आसक्तः गोपालकस्य नीचगोपालस्य, अल्पार्थे कन् । आलयं गृहं धावति शीघ्रं गच्छति ? अपि तु कोपि नैव गच्छतीत्यर्थः ॥ २३० ॥
2
एतदिति । एतन्मतानुवर्तिनां रामानुजमतानुसारिणां केषांचिदेषां पुरुषाणां, अविदुषामित्यर्थः । चेष्टा आचरणं वैदिकानां वेदानुयायिनां नेष्टा न प्रिया ॥ ९२ ॥
? ' प्रबन्धश्रमो'. २ ' बद्धाइरो'.
For Private And Personal Use Only