________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
विश्वगुणादर्शचम्पू:- [श्रीरामानुजअपि चयज्ञाः पञ्च महत्पदेन सहिता ये चापरे विश्रुता
यत्कर्म ग्रहसंक्रमादिसमये सर्वे बुधाः कुर्वते ॥ तत्सर्व विसृजन्ति काम्यमिति ये त्रय्यन्तविध्वंसका
स्तैर्द्व नित्यतयाऽऽश्रिते यदशनं या च व्यवायक्रिया ॥२३३।। अन्यच्चविदुषामपि मोहमावहन्तो वितथैतिह्यसहस्रवर्णनेन ॥ विनयाभिनयात्खलाः किलाऽमी विजयन्ते कपटालया जगन्ति २३४ किंचयस्यां नास्ति पुरस्कृतिर्नयविदां यज्वा तु हासास्पदम्
पूज्यन्ते च निरक्षराः पुनरमी सांकेतिकाचार्यकाः ।। यशा इति । ये पञ्च यज्ञाः ब्रह्मयज्ञादयः महत् इति पदेन सहिताः महायज्ञा इत्यर्थः । ये लपरे यज्ञाः ज्योतिष्टोमादयः विश्रुताः प्रसिद्धाः, इदं पूर्वत्रापि योज्यम् । चस्त्वर्थः । सर्वे बुधाः श्रुति-स्मृतिज्ञाः, ग्रहः चन्द्र-सूर्योपरागः, "उपरागो ग्रहो राहुग्रस्ते विन्दौ च पूष्णि च" इत्यमरः। संक्रमः रवेर्मेषादिषु प्रवेशः तदादौ समये यत्कर्म देव-पित्राथुद्देशेन कुर्वते तत्सर्वे नित्यं नैमित्तिकं च कर्म काम्यं, कामहेतुकमिति अपलप्येति शेषः। ये य्यन्तस्य वेदान्तमार्गस्यापि वि वंसकाः सन्तः, अमी विसृजन्ति मुञ्चन्ति । तैदूषकैः, अशनं भोजनं यत् , या च व्यवायक्रिया मैथुनं ते द्वे कर्मणी नित्यतया नित्यकर्तृत्वेन आश्रिते अङ्गीकृते । शिश्नोदरमात्रपरायणा एत इत्यर्थः ॥ २३३ ॥
विदुषामिति । वितथानामसत्यानां ऐतिह्यानां कल्पितपूर्वतनमिथ्यावादानां 'एतन्मतं स्वीकृत्य ते कृतार्थाः' 'एते च कृतार्थाः अभवन्' इत्यादिरूपाणां सहस्रस्य वर्णनेन कथनेन विदुषामपि, किमुत अज्ञानां, मोहं स्वमताभिनिवेशं आवहन्तः कुर्वन्तः । वस्तुतः खलाः पापाः कपटस्य आलयाः गृहरूपाः दाम्भिका इत्यर्थः । अत एव अमी रामानुजीयाः विनयस्य आरोपितस्य अभिनयात् प्रकटनाद्धेतोः जगन्ति विजयन्ते किल ॥ २३४ ॥
यस्यामिति । यस्यां गोष्टयाम् । इदं सर्वत्र योज्यम् । नयविदां शास्त्रज्ञानां पुरस्कृतिः पूजा नास्ति । यज्वा विधिवद्यज्ञाद्यनुष्ठानकर्ता तु “यज्वा तु विधिनेष्टवान्" इत्यमरः । हासास्पदम् , निरक्षराः वेद-शास्त्रग्रन्थाक्षरस्यापि ज्ञानरहिताः अमी सांकेतिका संकेत सिद्धा आचार्य इति संज्ञा येषां ते आचार्यकाः संज्ञायां कन् । आचार्यपुरुषाश्च पुनः पूज्यन्ते । वेदानामवहेलनं काम्यकर्मानुष्ठापका इत्यवमाननं १ 'त्रय्यध्व'. २ 'जगत्सु'.
For Private And Personal Use Only