________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ४३] पदार्थचन्द्रिकाटीकासहिता ।
२७७
अन्यच्च श्रोतव्यम् ।। २२० ॥ स्सरहरपरिचर्या सांप्रतं तन्यते या
जनयति हरिभक्तिं हन्त जन्मान्तरे सा ॥ शमितदुरितवर्ग सा च सूतेऽपवर्गम् ___ कुत इव फलहानिः ? कुर्वतां शर्वपूजाम् ॥ ५२१ ॥ परंतुसा रुद्रभक्तिर्वितनोति भद्रं या विष्णुविद्वेषलवासहिष्णुः ॥
त एव धर्माय भवन्ति दाराः कदापि यान्नाभिमृशन्ति जाराः ५२२ शेषशायिविद्वेष एव हि मूर्धाभिषिक्तो दोषः पुरुषाणाम् ॥ २२१ ॥ पश्यनास्तिक्यमावहति नारकमातनोति
प्रौढिं निहन्ति परिलुम्पति संपदं च ॥ आयुः क्षिणोत्युपचिनोति समस्तदोषान्
द्वेषो मुकुन्दविषयो विषयोगतुल्यः ॥ ५२३ ॥ किंचैतेषां शिवपूजनं हरिभक्तिजननद्वाराऽपवर्गसाधकमतो महदुपकारकं तदिति वक्तमवतारयति-अन्यञ्चेति ॥ २२० ॥
स्सरहरेति । सांप्रतमधुना स्मरहरस्य शिवस्य परिचर्या पूजा या तन्यते क्रियते, जनैरिति शेषः । सा । हन्तेति हर्षे । जन्मान्तरेऽन्यस्मिन् जन्मनि हरिभक्तिं विष्णुभक्तिं जनयति उत्पादयति । सा हरिभक्तिश्चापि शमितः विनाशितः दुरितानां पापानां वर्गः समुदायो येन स तं, सकलपापसंबन्धनिवारकमित्यर्थः । अपवर्ग मोक्षं सूते उत्पादयति । तस्मात् शर्वस्य शिवस्य पूजां कुर्वतां जनानां फलहानिः कुतो भवति ? अपि तु कुतोऽपि नैव भवतीत्यर्थः ॥ ५२१ ॥ शिवभजनेऽपि विष्णुभजनमावश्यकमन्यथानापात इति वक्तुमाह-परमिति ।
सेति । या रुद्रभक्तिः शिवभक्तिः विष्णौ द्वेषः अप्रीतिस्तस्य लवस्य लेशस्यापि, किमुताधिकस्य, असहिष्णुरसहनशीला, सा भद्रं मोक्षप्राप्तिरूपं कल्याणं वितनोति विस्तारयति । अन्यथाधःपातः स्यादिति भावः । एतदेवार्थान्तरेण द्रढयति-त ए. वेति । यान् दारान् त्रियः जाराः परस्त्रीलम्पटाः पुरुषाः कदापि न अभिमृशन्ति न स्पृशन्ति, ते एव दाराः स्त्रियः धर्माय धर्मसाध्यपुरुषार्थाय भवन्ति प्रभवन्ति ५२२
शेषशायीति । पुरुषाणां शेषशायि विद्वेषः विष्णुद्वेष एव हि मूर्धाभिषिक्तः सर्वदोषेभ्योऽधिकः दोषः ॥ २२१ ॥
एतदेव सप्रपञ्चमुपपादयति-नास्तिक्यमिति । विषस्य योगेन भक्ष्य-पेयपदार्थसंबन्धेन तुल्यः समः मुकुन्दविषयः श्रीविष्णु विषयः द्वेषः नास्तिक्यं नास्तिपरलोक
For Private And Personal Use Only