________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४८ विश्वगुणादर्शचम्पू:- [श्रीरामानुजअप्राप्ताच्युतदास्यवृत्तय इहाऽविज्ञातमन्त्रोत्तमाः ।
सर्वे तर्हि कलावंतप्ततनवो हन्तापतिष्यन्नधः ॥ २५६ ॥ तापादिभिः सपापां जनतां पुनतां महात्मनामेषाम् ॥ दोषश्चेदेष समो दुष्टान् पुनतोऽपि गाङ्गपूरस्य ॥ २५७ ॥ इदं चावबोद्धव्यम्सद्वंशप्रभवश्चरित्ररहितोऽप्यादृत्य एवोत्तमैः
साध्वाचारयुतोऽपि दुष्कुलभवः सभ्येषु नाभ्यर्हितः ॥ शालग्राममकृत्रिमं प?मतिः सल्लक्षणायुक्तम___प्यादत्ते न तु लक्षणाढ्यमपि तं चक्रोज्ज्वलं कृत्रिमम् ॥२५८॥ मकुलेषु यदि न अवातरिष्यन् न प्रादुरभिष्यन् , तर्हि सर्वे जनाः इह लोके कलौ युगे च अप्राप्ता अलब्धा अच्युतस्य विष्णोदास्यवृत्तियैस्ते तथाभूताः अत एव अज्ञाताः मन्त्रोत्तमाः विष्णोः प्राप्तिकरत्वादुत्तमा मन्त्रा यैस्ते तथोक्ताः, तत एव च अतप्ता चक्र-शङ्खादिमुद्राभिः, विष्णोः पूजन-स्तवन-कथाश्रवणादिराहित्येन च अपरिशुद्धा तनुर्येषां ते तथाभूताश्च अधः अपतिष्यन् नरके पतिष्यन्तीत्यर्थः । अत्र तरति-पत. त्योः “लिङ्किमित्ते-" इत्यादिना क्रियाया अनिष्पत्तिरूपेऽर्थे लङ् ॥ २५६ ॥
यच्च 'आराध्येष्टसमर्पणैः-' इत्यादिना नीचोद्धतजनप्रपत्तिरूपं दूषणमुक्तं तन्निराकर्तुमाह-तापादिभिरित्यादि । सपापां पापयुक्तां जनतां जनसमूह, तापादिभिः तप्तमुद्रादिसंस्कारैः, आदिशब्देन मन्त्रोपदेशादेग्रहणम् । पुनतां पवित्रीकुर्वतां अत एव महात्मनामुदारचित्तानां, एषां आचार्यपुरुषाणां दोषः अनधिकारिशिष्यखीकाररूपः अस्ति चेत् , तर्हि दुष्टान् जनान् पुनतः पवित्रीकुर्वतः गाङ्गपूरस्य गङ्गाप्रवाहस्यापि एष दोषः, समस्तुल्य एव । गङ्गाप्रवाहस्य यथा यस्यकस्यापि पवित्रीकरणं नाधिकारिविशेषावलम्ब, तथैवैतेषामिति भावः । इदमेव च महतां महत्त्वभूषणं, यत् सूर्य इव आनीचजनमहाजनपर्यन्तं सर्वत्र पक्षपातं विना समबुद्धित्वमित्यप्यवधेयम् ॥ २५७ ॥
सदिति । किंच सदंशे उत्तमवंशे प्रभव उत्पत्तिर्यस्य सः उत्तमकुलप्रसूत इत्यर्थः । चरित्ररहितोऽपि सदाचरणशून्योऽपि, उत्तमैः श्रेष्ठजनैरादृत्य एव स्वीकार्य एव । अपि च साध्वाचारयुतः सदाचारसंपन्नोऽपि सः दुष्कुलभवः नीचकुलोत्पन्नश्चेत् , सभ्येषु मध्ये नाभ्यर्हितः न पूज्यः । भवतीति शेषः । अत्र दृष्टान्तः-पट्टी कार्याकार्यकुशला मतिर्बुद्धिर्यस्य तथाभूतः पुरुषः, सद्भिः शङ्ख-चक्राद्युत्तमैर्लक्षणैश्चिकैः अयुक्तमपि, अकृत्रिमं सहजोत्पन्नं शालग्रामं आदत्ते स्वीकरोति । किंतु तं कृत्रिमं केनापि पुरुषेण निर्मितं शालग्रामं चक्रोज्ज्वलं चक्रादिचिह्नः सुशोभितमपि, अत एव लक्षणाढ्यं
१ 'बवाप्ततनवो.' २ 'नाभ्यर्चितः. ३ 'पटुतमं.'
For Private And Personal Use Only