________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०
विश्वगुणादर्शचम्पू:यन्त्रालयाधिपतिभिः श्रीमद्भिस्तुकारामजावजी इत्येतैः सादरं संमुद्य प्रकाशीकरणे आश्वासितः। ततश्च मुद्रणकालीनसंशोधनकार्यमप्यस्मिन्नेवापतितम् । तदा चेदं, शाके १७७४ तमे वत्सरे अत्र ज्ञानदर्पणनाम्नि शिलायन्त्रेऽङ्कितमेकं शाके १८१० वत्सरे कर्नाटकनाम्नि यन्त्रालये मुद्रितं भावदर्पणव्याख्यासहितं द्वितीयंएतदन्यानि षट् पुरातनानि पुस्तकानि संगृह्य मुद्रितमिति तदुपोद्धाततो ज्ञायतेतृतीयं चैकं हस्तलिखितमित्येतत्पुस्तकत्रितयं परस्परेण संवाद्य मुद्रितम् । तत्र च प्रायशः प्राचीनपुस्तकस्थानि पाठान्तराण्यातानि। कर्नाटकयन्त्रालये मुद्रितपुस्तकस्थपाठान्तराणि तु टीकाया अधोभागे टिप्पणीरूपेण निवेशितानि । तथाऽस्मिन्नेव पुस्तके मूलेऽस्मत्संपादितप्राचीनपुस्तकाभ्यामनुमानतः २५।२६ श्लोकाः अधिका अवलोकिताः, तत्र ये तावन्मूलेनातीव विसंबद्धा इति प्रतीतास्ते टीकास्थले सूक्ष्माक्षरैनिर्दिष्टाः, तत्र च मया टीकापि पृथङ्न विरचिता, ये तु मूलेन सुसंबद्धत्वेन प्रतीतास्तेषु टीकां विरचय्य ते मूले एवं [] इत्याकारचिह्न निवेशिताः केचित्त्यकाश्चापि, एतच्च तत्र तत्र स्फुटीकृतम्। अन्यच्चैतत् सप्रणामं निवेदयति-टीकाकरणसमये शोधनसमये च कर्नाटकयन्त्रालयमुद्रितपुस्तकस्य महत्साहाय्यं सँलब्धम् । न ह्येतावदेव, किंतु यदि तत्पुस्तकं नालप्स्यत, तदा एतट्टीकारचनादिकार्य निष्पन्नमभविष्यन्न वेति नैव निश्चीयते । किंचैतत्पुस्तके टीकायां यत्र यत्र मुद्रितपुस्तकसंबन्धेनोल्लेखः कृतः तत्र तत्र तदेव ( कर्नाटकयन्त्रालये मुद्रितं) निर्दिष्टमिति ज्ञेयम् । ततश्चास्यां टीकायां प्रमादा भवेयुस्तर्हि ममायं नूतन एव प्रयास इत्याकलय्य 'धावतः स्खलनं न दोषाय' इति न्यायेन सदयहृदयैः कोविदाम्यैः क्षम्याः मह्यं निवेदनीयाश्च । तथा दृष्टिदोषस्य नैसर्गिकलात् क्वचिदवधानाभावाद्वा यदि शोधनेऽपि क्वचित्प्रमादाः स्युस्तर्हि तेऽपि सुधीभिः सदयं सहनीयाः मह्यं कथनीयाश्च । तेन हि द्वितीयावृत्तौ पुनः सावधानतया सर्वेषां यथाभिप्रेतं करिष्यामीत्यभीक्ष्णं सविनयं विज्ञापयति । तथा तत्रभवता 'देवस्थळी' इत्युपाभिधेन पण्डितशंकरसूनुना भालचन्द्रशर्मणा शोधनकाले सुहृत्तया यत् साहाय्यं दत्तं तस्यापि महत उपकारान् नैव विस्मरति
मनीषिजनचरणानुवा
बालकृष्णशर्मा।
For Private And Personal Use Only