________________
Shri Mahavir Jain Aradhana Kendra
२०२
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
[ तुण्डीरमण्डल
कबहुना - यागं ये बत वैष्णवा विजहति छागच्छिदाभीतितः शिप्यक्लेशनसाध्वसाज्जहतु ते चत्राङ्कनप्रक्रियाम् || पूर्वस्मिन्बहुसंमतिर्भगवतः प्रीतिः फलं नो धना
न्यल्पीयोऽभिमतिः परत्र फलमप्यर्थाप्तिरित्थं भिदा ॥ ३७० ॥ कु० - ( विहस्य ) तप्ताभ्यां शङ्खचक्राभ्यां तापनं प्राणिनामिदम् ॥ छागालम्भसमत्वेन साधो ! किमिति वर्ण्यते ॥ ३७१ ॥ वि० – गुणदोषतारतम्यानभिज्ञ, श्रृणु तावदिदम् ॥ १५८ ॥ छागालम्भसहस्रतः क्षितिसुरस्यैकस्य हिंसाधिका
तस्माद् ब्राह्मणतापनं न किमिदं तुल्यं पशोसिया |
अध्वरान् यज्ञान्, अहहेति खेदे । जहतः त्यजन्तः तेषां वेद-शाखादीनां विरुद्धानि स्वसंकल्पसिद्धानीत्यर्थः । कृत्यानि कर्माणि आतन्वन्तः आचरन्तः सन्तः, कतिचित् अमी जनाः अपरानप्यन्यानपि जनान् शिक्षयन्ति । एतदेवायुक्तमिति ज्ञेयम् ॥ ३६९ ॥
किं च यागमिति । ये वैष्णवाः छागस्य मेषस्य छिदायाः हिंसायाः भीतितः भयाद्धेतोः यागं यज्ञं विजहति त्यजन्ति । बतेति खेदे ते वैष्णवाः शिष्याणां क्लेशनं तापोत्पादनं तद्रूपं यत् साध्वसं भयं तस्माद्धेतोः चक्राङ्कनस्य तप्तचक्र- शङ्खादिमुद्रालक्षणस्य प्रक्रियां करणं जहतु त्यजन्तु । किंच यागाङ्कनयोर्मध्येऽङ्कनमेव त्याज्यं स्यादित्याह -- पूर्वस्मिन् यज्ञे विषये बहूनां मतान्तरस्थानामपि संमतिरनुमतिः, भगवतो विष्णोः प्रीतिः संतोषः फलं, धनानि विषयादिलालसा जनकानि तु नो न भवन्ति । परत्र चक्राङ्कने तु अल्पीयसी अत्यल्पा एकदेशीयमतस्थानां जना - नामित्यर्थः । अभिमतिः, संमतिः फलमपि अर्थानां द्रव्याणां आप्तिः प्राप्तिः, पूर्वप्रतिपादितजार - चोरादिनीचजनेभ्य इत्यर्थः । इत्थमेवंरूपा भिदा भेदः अस्तीत्यर्थः ॥ ३७० ॥
कृशानुः सोपहासमाह -- तप्ताभ्यामिति । हे साधो ! एतत् परिहासद्योतकं संबोधनम् । तप्ताभ्यां शङ्ख-चक्राभ्यां तन्मुद्राभ्यामित्यर्थः । प्राणिनां शिष्यजनानां तापनं संतापोत्पादनं, छागालम्भसमत्वेन पशुहिंसातुल्यत्वेन किमिति कुतो हेतोः वर्ण्यते ? प्राणवियोजनं, किंचित्कालपर्यन्तं शरीरस्यैकस्मिन् भागे तापनं च नैव तुल्यमिति भावः ॥ ३७१ ॥
गुणदोषेति । हे गुणदोषतारतम्यानभिज्ञ गुण-दोषयोर्न्यूनाधिकभावनिर्णायकविचारशक्तिशून्य, इदं वक्ष्यमाणं शृणु ॥ १५८ ॥ छागेति । छागस्य आलम्भः हिंसा तेषां सहस्रं तस्मादिति ततः सहस्रपशुहिं१ 'भाषसे'.
For Private And Personal Use Only