________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् ३०] पदार्थचन्द्रिकाटीकासहिता । . २०३ शास्त्रात्तप्तरथाङ्गधारणमपि श्रेयस्करं चेत्तदा
वेदैरेवं सवे पशोर्विशसनाद्धर्मोपि किं ? हीयते ॥ ३७२ ॥ इत्यवं श्रुत्ययुतविहितसंवनकरणावश्यकतासमर्थनेन करबदरास्तित्वसाधकप्रमाणान्तरपरिकल्पनकल्पेन ॥ १५९ ॥
अथ चञ्जीपुरी (तंजावूर ) वर्णनम् ३०.
इति दक्षिणतो विमानमानयन् सशिरःकम्पम्खञ्जीकृताखिलहृदां रमणीमणीनाम्
मञ्जीरम तरशिञ्जितरञ्जितेन ॥ चञ्जीपुरी युवगणेन चकास्ति पूर्णा
संजीवितोग्रपरिवञ्चितपञ्चबाणा ॥ ३७३ ॥ सापेक्षयेत्यर्थः । एकस्य क्षितिसुरस्य ब्राह्मणस्य एका हिंसा अधिका । तस्मात् कारणात् ब्राह्मणतापनं तप्तमुद्रयेत्यर्थात् । इदं एकस्य पशोसिया तुल्यं समं न किम् ? अपि तु अस्त्येवेत्यर्थः । यतः मुद्राधारणकाले 'हा ! हा !' इत्यादिखेदप्रदर्शकशब्दाः श्रूयन्ते । तस्मात् यद्यपि तस्मिन् काले प्रत्यक्षप्राणहानिर्न भवति तथापि तत्तुल्यत्वादेकपशुहिंसातुल्यमेव तदिति भावः। शास्त्रप्राप्तत्वान्मुद्राधारणमावश्यकमिति चेत्तत्राह-तप्तरथाङ्गधारणं संतप्तचक्रादिमुद्राधारणमपि शास्त्रात् नारदपाश्चरात्राद्यागमात्, प्राप्तमिति शेषः । श्रेयस्करं कल्याणकरं अस्ति चेत्, तदा वेदैरेव वेदान्तर्गतविधिवाक्यैरेव सवे यज्ञे पशोर्मेषादेः विशसनात् मारणात् धर्मः हीयते अपि किम् ? अपि तु नैवेत्यर्थः ॥ ३७२ ॥ . इतीति । इत्येवं प्रकारेण श्रुतीनां अयुतेन अनन्तश्रुतिकदम्बकेनेतियावत् । विहितस्य प्रतिपादितस्य सवकरणस्य यज्ञकरणस्य आवश्यकतायाः अवश्यकर्तव्यत्वस्य समर्थनेन प्रतिपादनेन अलं पर्याप्तम् । कीदृशं तत्समर्थनं, करे हस्ते वर्तमानस्य बदरस्य बदरीफलस्य अस्तित्वसाधकस्य सत्ताप्रतिपादकस्य प्रमाणान्तरस्य प्रत्यक्षादन्यस्थानुमानादेः परिकल्पकल्पेन विरचनतुल्येनेति श्रुत्ययुतेत्यादेविशेषणं "ईषदसमाप्तौ-" इति कल्पप्प्रत्ययः ॥ १५९ ॥ __ अथ चञ्जीपुरीं वर्णयति-खजीकृतेति । खञ्जीकृतं निरभिमानीकृतं अखिलानां स्त्रीजनानां हृत् मनो याभिस्तासां रमणीमणीनां स्त्रीरत्नानां मजीराणां नूपुराणां मञ्जुतरं अतिमञ्जुलं यत् शिञ्जितं शब्दः तेन रञ्जितः अनुरक्तीकृतः तेन, यूनां तरुणानां गणेन समूहेन पूर्णा, अत एव संजीवितः उग्रेण शिवेन परिवञ्चितः भस्मीकृतः
१ 'मिदं. २ 'वेदादेव मखे पशोर्विशसनं नैतेन किं मीयते,' धर्मो न किं हीयते'. ३ 'सदाचरणा,' 'सवनाकर्तव्यता'. ४ 'विमानमानीय'.
For Private And Personal Use Only