________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
२६२
Acharya Shri Kailassagarsuri Gyanmandir
विश्वगुणादर्शचम्पू:
[ शठकोपमुनि
हरिमिव कृतावतरणं बकुलाभरणं वृणीमहे शरणम् ॥ ध्येयं यं विदुरार्या मुमुक्षुभिर्यत्प्रबन्धमध्येयम् ॥ ४९२ ॥ तस्मिन्मतिर्मेऽस्तु दृढा शठारौ गायन्त उच्चैरिह यस्य गाथाः ॥ हाय देहं प्रथयन्ति दिव्ये पदेहमन्नाद इति प्रगीते ॥ ४९३ ॥ कृतदुरितनिरोधानां कलितश्रुतिमौलिभावबोधानाम् ॥ वशितरमानाथानां न सुधाऽपि समा शठारिगाथानाम् ॥ ४९४ ॥ जनानुद्दिश्य
कठिनशठनरेन्द्रस्तावकान् श्लोकपाशान् जठरपिठरपूर्त्यै जातु मा संगिरैध्वम् ॥
हरिमिवेति । हरिमिव श्रीविष्णुमिव कृतं अवतरणमवतारो येन सः तं भगवन्तं विष्णुमिव लोकोपकारार्थमाविर्भूतमित्यर्थः । बकुलाभरणं श्रीशठकोपमुनिं शरणं रक्षितारं वृणीमहे अङ्गीकुर्मः । किं वा तस्मिन् रक्षणसामर्थ्यं यस्मात्तदङ्गीकार इत्याकाङ्क्षायामाह - यं शठकोपमुनिं आर्याः श्रेष्ठजनाः मुमुक्षुभिः ध्येयं ध्यातुं योग्यं यत्प्रबन्धं यस्य शठकोपस्य ग्रन्थं अध्येयं अभ्यसनीयं च विदुः जानन्ति । एतदेव शरणत्वेन स्वीकारे बलवत्तरं प्रमाणमित्यर्थः ॥ ४९२ ॥
तस्मिन्निति । इह लोके यस्य शठारेः गाथाः संहितारूपाः उच्चैरुच्चस्वरेण गायन्तः सन्तः देहं प्रहाय त्यक्त्वा अहमन्नादः इति प्रगीते वर्णिते, यजुर्वेदीयतैत्तिरीयोपनिषदि भृगुवयां दशमेऽनुवाके "य एवं वित् । अस्माल्लोकात्प्रेत्य " इत्युपक्रम्य “ एतत्साम गायन्नास्ते । हा३वु हा ३ बुहा ३ वु । अहमन्त्रमहमन्नमहमन्नम् । अहमन्नादोऽहमन्नादोऽहमन्नादः ।" इत्युपसंहारपरया श्रुत्येति शेषः । अत एव दिव्ये तेजः संपन्ने पदे वैकुण्ठस्थाने प्रथयन्ति प्रसिद्धा भवन्ति । तस्मिन् शठारौ शठकोपमुनौ मे दृढा अनन्यविषया मतिः अस्तु ॥ ४९३ ॥
•
एवं शठकोपं वर्णयित्वा तगाथामाहात्म्यं वर्णयति---कृतेति । कृतं दुरितानां पापानां निरोधो वारणं याभिस्तासां कुतः यतः कलितः प्रकटीकृतः श्रुतिमौलीनां उपनिषदां भावस्याभिप्रायस्य बोधो ज्ञानं याभिस्तासां अत एव वशितः वशीकृतः रमानाथो भगवान् विष्णुर्याभिस्तासां शठारिगाथानां सुधा अमृतमपि समा तुल्यान, का पुनरितरेषां वार्तेति भावः ॥ ४९४ ॥
कठिनेति । भो भो जनाः भवन्तः कठिनाः निष्ठुरा: अत एव शठाः दुस्तरकरभारादिग्रहणेन वञ्चकाश्च ये नरेन्द्रा राजानः तेषां स्तावका: वृथैव श्लाघाकारिणस्तान् अत एव श्लोकपाशान् निन्द्यश्लोकान् केवलं जठरपिठरस्य उदरकुण्डस्य “पिठरः स्थाल्युखा कुण्डं” इत्यमरः । पूलैं भरणार्थे जातु कदाचिदपि मा
१ 'प्रव्हाय वेद'. २ ' प्रपठन्ति' ३ 'संगदिष्ठाः '.
For Private And Personal Use Only