________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-वर्णनम् १०] पदार्थचन्द्रिकाटीकासहिता । तथाहि
ब्रीडामारव्यतिकरवतीविद्युदाभाः कृशाङ्गीः ___ क्रीडायोग्येऽप्यहह समये गेह एव त्यजन्तः ॥ नित्यासक्ता निरुपममणिश्रेणिवाणिज्यलाभे
बंभ्रम्यन्ते बहुदिनपरिप्राप्यदेशान्तरेषु ॥ ११७ ॥ वि०-मन्दमनीष ! सएष पुरुषाणां गुणविशेष एव न तु दोषः ॥३६॥
देशे देशे किमपि कुतुकादद्भुतं लोकमानाः ___ संपाद्यैव द्रविणमैतुलं सद्म भूयोऽप्यवाप्य ॥ संयुज्यन्ते सुचिरविरहोत्कण्ठिताभिः सतीभिः
सौख्यं धन्याः किमपि दधते सर्वसंपत्समृद्धाः ॥ ११८ ॥ तथाहि । अनैपुण्यमेवोपपादयामि शृण्वित्याह-व्रीडामारेति । एते इत्यनुषजनीयम् । निरुपमानां बहुमूल्यानां मणीनां श्रेणिभी राशिभिर्यद्वाणिज्यं क्रयविक्रयादिव्यापारः तस्माद्यो लाभो मूलाधिकद्रव्यप्राप्तिः तस्मिन् नित्यासक्ताः सततमासक्ताः सन्तः, व्रीडा लज्जा च मारो मदनश्च “मदनो मन्मथो मारः" इत्यमरः। तयोः यः व्यतिकरः मिश्रीभवनं, सः अस्ति यासां ताः, न केवलं कामाकुलाः न केवलं लज्जायुक्ताश्चेति भावः । अनेन तासां कुलीनत्वं सूचितम् । विद्युदिव आभा कान्तिः यासां ताः न तु कुरूपाः कृष्णवर्णाश्च । एतादृशाः कृशाङ्गीः स्त्रियः क्रीडायोग्ये मदनकेलिसमुचितेऽपि समये काले तारुण्यावस्थायामित्यर्थः । अहह इति खेदे ।"अहहेत्यद्रुते खेदे" इत्यमरः । गेहे गृहे एव त्यजन्तः सन्तः, बहुभिः न तु त्रिचतुरैः दिनैः परिप्राप्येषु गन्तव्येषु देशान्तरेषु बंभ्रम्यन्ते पुनः पुनः भृशं वा संचरन्ति । 'भ्रम अनवस्थाने ' इत्यस्य यङन्तस्य लटि रूपम् “ सन्यडोः” इति द्वित्वम् " नुगतोऽनुनासिकान्तस्य " इत्यभ्यासस्य नुगागमश्च ॥ ११७ ॥
मन्देति । मन्दमनीष मन्दबुद्धे, सः व्यापारार्थ देशान्तरपरिभ्रमणादिरूपः एष पुरुषाणां गुणविशेषः गुणाधिक्यमेव न तु दोषः ॥३६॥
गुणखमेवोपपादयति-देशे देशे इति । एते देशे देशे किमपि मनोहरं अद्भुतमाश्चर्यकारकं च वस्तु कुतुकात्कौतुकात् "कौतुकं च कुतुकं च कुतूहलम्" इत्यमरः। लोकमानाः पश्यन्तः सन्तः, एवं अमितं न तु अल्पं द्रविणं द्रव्यं संपाद्य, भूयः पुनरपि सद्म गृहं अवाप्य, प्राप्य, सर्वसंपत्समृद्धाः सकलोपभोग्यवस्तुसमृद्धियुक्ताः सन्तः सतीभिः पातिव्रत्ययुक्ताभिः न तु खैरिणीभिः अत एव सुचिरं चिरकालपर्यन्तं यो विरहः स्वप्रियवियोगः तेन उत्कण्ठिताभिः 'कदास्माकं पतिभिः सह संगमो भवेत्'इतीच्छावतीभिः सह, संयुज्यन्ते संगमं कुर्वन्ति । अत एव ते धन्याः सन्तः
१ मिमितं'. २ 'वधूभिः.
For Private And Personal Use Only