Book Title: Bhikshunyayakarnika
Author(s): Mahapragna Acharya
Publisher: Jain Vishva Bharati
Catalog link: https://jainqq.org/explore/002672/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आचार्यतुलसीप्रणीता भिन्यायकोणका (बृहवृत्तिः ) सम्पादकः आचार्य महाप्रज्ञः बुहळूवृत्तिकार पं. विश्वनाथ मिश्र Page #2 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका Page #3 -------------------------------------------------------------------------- ________________ जैन विश्वभारती विश्वविद्यालय, लाडघ्र प्रकाशन Page #4 -------------------------------------------------------------------------- ________________ आचार्यतुलसीप्रणीता भिक्षुन्यायकर्णिका (बृहवृत्तिः ) सम्पादक: आचार्यः महाप्रज्ञः बृहवृत्तिकार : पं. विश्वनाथ मिश्रः प्रोफेसर जैन विद्या एवं तुलनात्मक धर्म तथा दर्शन विभाग जैन विश्वभारती संस्थान (मान्य विश्वविद्यालय) लाडनूं - 341 306 (राजस्थान) Page #5 -------------------------------------------------------------------------- ________________ प्रकाशक : जैन विश्वभारती संस्थान (मान्य विश्वविद्यालय) लाडनूं-341306 (राज.) © जैन विश्वभारती संस्थान, लाडनूं मूल्य : 120/-रुपये संस्करण : जनवरी,2007 लेजर टाइप सेटिंग : मोहन कम्प्यूटर, लाडनूं मुद्रक : श्री वर्द्धमान प्रेस, नवीन शाहदरा, दिल्ली Page #6 -------------------------------------------------------------------------- ________________ भूमिका 'अपरीक्ष्य दृष्टिं न खलु एव सिद्धिः" इति भगवतो महावीरस्य वाणी न्यायशास्त्रस्यास्तिताया महत्त्वपूर्णाऽस्ति घोषणा । न्याययुगेऽस्या महान् विस्तारो जातः । तत्र विचारकरणं भीरुवृत्तेः परिचायकमभूत् । गीतमतएव अस्ति वक्तव्यता काचित्, तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत् स्यात्, परीक्षाया बिभेति किम् ॥ परीक्षाया भावो वृद्धिं गतस्तदा न्यायशास्त्रस्य विकासो जात: । जैनपरम्परायां न्यायस्य बीजानि सन्ति तावदागमिकानि । तानि विकासमुपेयिवांसि सिद्धसेनस्य न्यायावतारेण सह । उत्तरोत्तरं तानि विशालभावमुपगतानि । अनेकैराचायैरत्र स्वप्रतिभायाः पाटवं प्रकटीचक्रे । फलतः समुपलभ्यन्त एतच्चर्याचञ्चवोऽनेके विशाल काया ग्रन्थाः । रुचिरुत्तरोत्तरं बिभर्ति नवानि नवानि रूपाणि । कदाचित् सा विस्तारमिच्छति कदाचिदिच्छति संक्षेपम् । अद्य समस्यासंकुलं जगत् 1. अपरिच्छ दिट्ठि ण हु एव सिद्धी सूत्रकृताङ्ग १.७.१९ Page #7 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका सर्वमपि वाञ्छति संक्षिप्तम्, सद्यो ग्राह्यम्। विद्यार्थिनां रुचिस्तु विशेषतोऽत्र दृश्यते। संक्षिप्तरुचीनां न्यायशास्त्रे सहसा प्रवेश: स्यादिति धिया व्यरचि मयाऽनेकशास्त्रसमुपलब्धसाराऽसौ श्रीभिक्षुन्यायकर्णिका। __आचार्यवरो भिक्षुस्वामी निदर्शनमस्ति तावदाज्ञाहेतुवादयोः समन्वयस्य। महात्मना तेन चक्रे प्रयोग आज्ञायास्तत्क्षेत्रे, हेतुवादविषये च तस्यैव, उभयोः क्षेत्रे तदुभयोरेव। ___ बाह्यजगताऽन्तर्जगतः कः सम्बन्धः? धर्मस्य मोक्षं प्रति साधनभावमावहतो बाह्यजगत् प्रति किं कर्तृत्वम् ? अमुष्मिन् विषये आचार्यभिक्षोर्हेतवः सन्ति खलु मार्मिकाः । तत्तर्कपद्धतिरेकं सृजति नवमध्वानम्। केचिद् दार्शनिका बाह्यजगता सम्बन्धविच्छेदस्थितावपि अन्तर्जगत्प्राप्तिमुपदिशन्ति। जैनदर्शनमेति विभेदमत्र। बाह्यजगता यावन सम्बन्धविच्छित्तिस्तावत्कौतस्कुती मुक्तिः। मुक्तेः साधनं मुक्तिरेवेति सम्मतम् । अन्तर्जगत्तदनुकूलैरेव साधनैः प्राप्यम्, नान्यथा। बन्धनं स्याद् यदि मुक्तेः साधनं तत्स्यात् स्वयं तन्मुक्तिः । प्रोक्तमतो भिक्षुस्वामिना- 'ज्ञानदर्शनचारित्रं विना मुक्तेर्नास्ति कश्चिदुपाय:'। ‘शेषाणि कर्माणि संसारस्य, तैरात्मा बध्यते ।' बन्धनं हिंसा मुक्तिरहिंसा च । प्राणव्यपरोपणं हिंसा, प्राणाव्यपरोपणञ्चाहिंसेति व्यवस्था स्थूला। तेन सुबोधमिति-मुक्तिर्मुक्त्या लभ्या, बन्धनञ्च बन्धनेन । मुक्तिः स्वभावो बन्धनञ्च विभावः । तदपि बन्धनमनादिपरिचितं मुक्तिश्च 1. अणुकम्पा री चौपई ४.१७ 2. वही, ४.२२ Page #8 -------------------------------------------------------------------------- ________________ भूमिका खल्चपरिचिता'।' 'तेन संसारिणस्तत् (बन्धनम्) प्रशंसन्ति न तु मुमुक्षवः । आत्मना सूक्ष्मशरीरस्य-कार्मणस्य, सर्वशरीरहेतुभूतस्य निमित्तनैमित्तिकभावोऽस्ति कथञ्चित्, तावदान्तरिकस्य जगतो बहिस्तनेन जगता सम्बन्धो जायते। कार्मणेन आत्मनः प्रवृत्तिः, तेन स्थूलशरीरोपादानम्, तत्र इन्द्रियाणां मनसश्चाभिनिर्वृत्तिः, तैश्च स्वगोचराणां ग्रहणम्, तत्र च प्रियाप्रिययो रागद्वेषौ, ताभ्याञ्च कर्मबन्धः तेन च कार्मणस्य पोषः- इत्थमयं संसार:-जन्ममरणयोः परम्परा प्रवर्तते। कार्मणशरीरेण मुक्तिर्या सैव मोक्ष: । विना च तेन स्थूलशरीरस्य न सम्भूतिः । तामृते न जन्म। विना हि तेन (जन्मना) न मृत्युः । अन्यत्र तस्मान्न संसारः । मोक्षेण न संसारः, संसारेण च न मोक्षः । अतएव मोक्षार्थिना न जन्म एष्टव्यं न च मरणम्। केवलं तेन संयमोऽभिकाङ्क्षणीयः। किञ्च, संयमो बाह्यजगता-अनात्मिकेन पदार्थेन सम्बन्धं विनिवर्तयति । ततः स मोक्षोपायो मोक्षो वा। संयममयं जीवनम्, संयममयो मृत्युः-द्वावपि प्रार्थनीयौ। नात्राभिलाषा जीवनमरणयोः, किन्तु तयोर्योऽशः संयमस्य, तस्यैव।। इन्द्रियाणां मनसश्च विषयः-वस्तुबोधः, सोऽपि आत्मनः खल्वनात्मिकेन-आत्मातिरिक्तेन-बाह्यवस्तुजातेन सह सम्बन्धः । किन्तु नासौ हिंसामहिंसाञ्च सम्बध्नाति । ज्ञेयं प्रति ज्ञातुश्चेतनाव्यापार: सोऽयं भवति ग्राह्यग्राहकसम्बन्धः । असौ रागद्वेषसंवलितो जनयति विकारम् । शुभप्रवृत्त्यर्थं प्रवर्तितश्च जनयति वैशद्यम्। विकारो हिंसा 1. जम्बूकुमार चारित्र २.१५ 2. अणुकम्पा री चौपई ११.३८ Page #9 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका वैशद्यमहिंसा च । हिंसा बन्धनस्य निबन्धनम्, अहिंसा मुक्तेः । अनयोर्वैपरीत्येन ग्रहणम् - मिथ्यादर्शनम् याथातथ्येन ग्रहणञ्च सम्यग्दर्शनम् । ये जीवानां वधेऽपि अहिंसां प्ररूपयन्ति ते न केवलं हिंसकाः अपितु मृषाभाषिणः, अदत्ताहारिणोऽपि । जीवान् व्यापाद्य जीवपोषणं न अहिंसा-इति सत्यम्, तत्र जीवपोषणाय जीवप्रमथनेऽपि दयेति प्ररूपयतां भवति ध्रुवमसत्यम् - इति ते असत्यवादिनः । म्रियमाणा जीवाश्च न ददते स्वप्राणापहाराय स्वीकृतिमिति तेऽदत्तहारिणोऽपि । एवं जीवनस्य वस्तुसत्येषु यस्य मतिरभिनवान् हेतुवादानुदमिषत्तस्य महात्मनः पुण्यस्मृतौ द्विशताब्दीसमारोहवेलायामुपहतस्तन्नाम्ना समलङ्कृतोऽसौ ग्रन्थो जैनन्याये प्रविविक्षूणां विनेयानां सुनिश्चितं भावी सदा मोदविधायी । iv अस्याश्च सम्पादने निकायसचिवेन शिष्यवरमुनिनथमलेन 'तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्ना तन्निवेसणा' इत्यागमवाक्यानां साक्षात् चरितार्थीकरणसहजसंकल्पेन यः श्रमो व्यधायि स च नाभिनन्द्यते । तदभिनन्दने स्वाभिनन्दनप्रसक्तिः । गुरु-शिष्ययोः कथंचिदभिन्नत्वात् केवलमाशीर्वचनप्रदानेनैव आश्वस्तो विश्वस्तश्च भवामि मनसि नितरां मोमुदीमि । अन्यैरन्याभिश्चात्र किंचित् कृतं श्रम विभाजनं तत्र किं यत् सभाजनं नात्रोल्लेखः कर्तुं शक्यस्तस्य न केवलं कर्त्तव्यनिर्वाह एव तत्र शासनसेवाऽपि उल्लेखनीयतामगमत् तेषां सर्वेषामित्यलं विस्तरेण । आचार्य : तुलसी वल्लभ निकेतन, अणुव्रत ग्राम, बंगलौर - 1 2 सितम्बर, 1969 Page #10 -------------------------------------------------------------------------- ________________ सम्पादकीयम् आचार्यस्य नैसर्गिकं कर्तव्यमस्ति शिष्यगणाय दिशादर्शनम् । शिष्या विभिन्नरुचयो भवन्ति केचिद्दर्शनप्रियाः, केचित्तर्कप्रवणा:, केचिदयोगाभ्याससन्निहितमतयः केचिच्च संघविकासविहितरुचयः । तत्र सर्वेषां रुचिपोषः क्रियते, तेन सर्वेऽपि स्वाभिमतदिशायां संवर्धन्ते । एतत् संवर्धनाय मन्ये आचार्यवरेण ग्रन्थचतुष्टयी निर्मिता-दर्शनं जिज्ञासूनां कृते जैनसिद्धान्तदीपिका, तर्क जिज्ञासूनां कृते भिक्षुन्यायकर्णिका, योगार्थिनां कृते मनोनुशासनम्, संघविकासार्थिनां कृते पञ्चसूत्रम् । प्रस्तुतग्रन्थोस्ति भिक्षुन्यायकर्णिका । अस्माकं तेरापंथसंप्रदायस्य प्रथमाचार्याः नैसर्गिकों तार्किकीं प्रतिभां संप्राप्ता आसन, अतएव आचार्यवरैस्तेषां स्मृतिसम्बन्धेनास्य ग्रन्थस्य नाम विहितं 'भिक्षुन्यायकर्णिका' । आचार्यवर्याः भिक्षुस्वामिनो विचारसरणिं तार्किकपद्धत्या प्रसारितवन्तः । तेन भिक्षुस्वामिनो नैयायिकत्वमधुना विदुषां समक्षे प्रकटीभूतम् । एवमनेकैर्वर्त्मभिराचार्यवरेण परंपराप्राप्तं ऋणं संपूर्य आनृण्यमाप्तमिति मन्येऽहम् । Page #11 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका प्रस्तुतग्रन्थे सरलपद्धत्या तर्कशास्त्रस्य निरूपणं कृतमस्ति । विद्यार्थिनां तर्कशास्त्रविषये स्यात् सुगमः प्रवेश इति मुख्यं लक्ष्यमत्रास्ति सन्निहितम् । अस्मिन् लक्ष्ये साफल्यमनुभूयते प्रतिपदम् । आचार्यवर्यैस्तेरापन्थसंघस्योन्नयनाय महान् प्रयत्नः कृतः । अनेकेषां साधूनां साध्वीनां चानेकासां विद्याजीवनमभून्निर्मितम् । मम निर्माणे आदित एव योऽप्रयत्नात्मकः प्रयत्नः कृतः स खलु मम नैसर्गिकसौभाग्यसंचयः । vi प्रस्तुतग्रन्थो विद्यार्थिनां महान् उपयोगी वर्तते । अस्य संपादनं चिरकालापेक्षितमिदानीं जायते । अस्य संपादने प्रतिसंशोधनादिकार्ये मुनिगुलाबचन्द्रेण मम यथेष्टं योगः कृतः । अस्माकं संघस्य निसर्गोऽस्य यत् साधवः साध्व्यश्च भवन्ति कर्त्तव्यानुपालनप्रकृतलक्ष्याः । आचार्यवर्यस्य प्रसादोऽयं सौकर्येण सर्वोपयोगी भविष्यतीति साधुवादार्हास्ते । वल्लभ निकेतन, अणुव्रत ग्राम बंगलौर - १ २ सितम्बर, १९६९ मुनिः नथमल: Page #12 -------------------------------------------------------------------------- ________________ पुरोवाक् भारतं ज्ञानप्रधानो देशः । ज्ञानस्याखण्डधारा अत्रानादिकालत एव प्रवहन्ती वर्तते। कोऽहं कस्त्वम् ? कुत आयातः? इयं विसृष्टि: कुत आबभूव? एवंभूतानादिकालिकी जिज्ञासा एव दर्शनशास्त्रस्य बीजभूमिरित्यत्र न संशयः। जैनपरम्परायामपि भगवता महावीरेण सह गौतमस्य जायमानं प्रश्नोत्तरमपि दर्शनशास्त्रस्य प्रेरणासूत्रम् । तत्र भगवती नामके अङ्गे गौतमः पृच्छति-भंते ! जीवा किं सासया असासया? गोयमा! जीवा सिय सासया सिय असासया। अत्र सिय पदस्यार्थ: स्यात् इति तथा सासय पदस्यार्थोऽस्ति शाश्वता: 1 नात्र चित्रं यत् एतादृशः प्रश्नस्तथा तदुत्तरं च दर्शनशास्त्रस्य उद्भावकमिति संशयातीतोऽर्थः । दर्शनशब्दः दृश्धातो: दृश्यते येनेति विग्रहे करणे ल्युटि निष्पद्यते। नेत्राभ्यां क्रियमाणं दर्शनमेवात्र नाभिमतं दर्शनं किन्तु दृश्यते आत्मस्वरूपं जगत् स्वरूपञ्च येन तत् दर्शनमिति । अनया व्युत्पत्त्या इदं सिद्ध्यति यत् यया विद्यया आत्मानात्मविवेकः सम्पद्यते सा विद्या दर्शनपदवाच्या आन्वीक्षिकीति नाम्ना ख्याता अस्ति। उक्तञ्च वात्स्यायनभाष्ये Page #13 -------------------------------------------------------------------------- ________________ viii भिक्षुन्यायकर्णिका प्रदीपः सर्वविद्यानामुपाय:सर्वकर्मणाम्। आश्रयः सर्वधर्माणां सेयमान्वीक्षिकी मता॥ प्रत्यक्षदृष्टस्य शास्त्रे श्रुतस्य च विषयस्य तात्त्विकं विवेचनं या विद्या करोति सा एव आन्वीक्षिकीति कथ्यते। इयमान्वीक्षिकी भारतीयदर्शने हेतुविद्या, हेतुशास्त्रं तर्कशास्त्रं, प्रमाणशास्त्रमिति विभिन्नैः शब्दैरभिलप्यते। प्रमाणशास्त्रं न्यायशास्त्रञ्चेत्यनर्थान्तरम् । न्यायो विचारस्य सा एव प्रणाली यत्र वस्तुतत्त्वस्य निर्धारणार्थं सर्वेषां प्रमाणानामुपयोगः कृतः स्यात्। वात्स्यायनभाष्ये तथ्यमिदमेवं प्रतिपादितम् 'प्रमाणैरर्थपरीक्षणं न्यायः' न्यायस्य वात्स्यायनीयलक्षणे प्रमाणशब्दमपहाय आचार्यस्तुलसी भिक्षुन्यायकर्णिकायां न्यायस्य लक्षणमेवं करोति 'युक्त्यार्थपरीक्षणं न्यायः' युक्तिश्च साध्यसाधनयोरविरोधः। युक्तमप्येतत् यदि साधनं साध्यविरोधि स्यात् तदा कथं तत् स्वसाध्यं गमयितुं शक्नुयात्। इयं हेतुविद्या, तत्त्वज्ञानं प्रस्तुत्य, तद्द्वारा निराकृत्य मिथ्याज्ञानं नानायोनिषु अन्तहीनयात्रापरायणस्य जीवात्मनो निःश्रेयसं साधयतीति मोक्षसाधिकेयं विद्येति प्रथितचरमस्ति। विषयेऽस्मिन् सर्वेषां दर्शनानामैकमत्यम् । जैनदर्शनेऽपि सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः' इति सूत्रद्वारा मोक्षस्य चरमलक्ष्यत्वं तथा तदुपायतया सम्यग्दर्शनज्ञानचरित्राणामनिवार्यता व्यक्तीकृतास्ति। Page #14 -------------------------------------------------------------------------- ________________ पुरोवाक् ix गौतमीयन्यायशास्त्रमपि निःश्रेयसमेव मानवजीवनस्य चरमलक्ष्यं मत्वा तदुपायतया तत्त्वज्ञानस्यैव असाधारणकारणत्वं प्रतिपादयति । तदुक्तं न्यायसूत्रे दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदन्तराभावादप वर्ग: । न्या.द. १/१/२ अस्यायं भावः-तत्त्वज्ञानात् मिथ्याज्ञाननिवृत्तिः तया च रागद्वेषादिदोषाणां निवृत्तिः, दोषनिवृत्त्या च धर्माधर्मादिप्रवृत्तिनिवृत्तिः, प्रवृत्तिनिवृत्त्या च पुनर्जन्मनिवृत्तिः, पुनर्जन्मनिवृत्त्या य समस्तदुःखानामात्यन्तिकनिवृत्तिरूपा निःश्रेयसोपलब्धिरिति तत्त्वज्ञानस्य वैशिष्ट्यं व्यक्तं भवति । वेदान्तदर्शनन्तु ऋते ज्ञानान्न मुक्तिः, इत्युक्त्या मुक्तौ ज्ञानस्यैव कारणत्वं स्वीकरोति। अनया रीत्या न्यायशास्त्रमतीवोपयोगि। भारते न्यायशास्त्रं भागद्वये विभक्तमस्ति, वैदिकन्यायः, अवैदिकन्यायश्च। यो न्यायो वेदस्य प्रामाण्यं स्वीकरोति स खलु वैदिको न्यायः । यश्चं वेदस्य प्रामाण्यं न स्वीकरोति स खलु अवैदिको न्यायः। वैदिकन्यायस्य-न्यायः, वैशेषिकः, सांख्यः योगः, मीमांसा वेदान्तश्चेति षड्भेदाः सन्ति। अवैदिकन्यायस्य द्वौ भेदौ स्तः, बौद्धन्यायो जैनन्यायश्चेति। एषां संक्षिप्तपरिचयस्तु इत्थम्न्यायदर्शनम् तत्रादौ गौतमीयन्यायः- गौतमीयन्यायस्य प्रणेता महर्षिः गौतमोऽस्ति। अस्मिन् दर्शने प्रमाणम्, प्रमेयम्, संशयः, प्रयोजनम्, दृष्टान्तः, सिद्धान्तः, अवयवः, तर्कः, निर्णयः, वादः, जल्पः, वितण्डा, हेत्वाभासः, छलम् जाति:, निग्रहस्थानञ्चेति षोडशपदार्थाः स्वीकृताः Page #15 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका सन्ति। पदार्थानां ज्ञप्तिः ज्ञानं प्रमाणादेव भवतीति सिद्धान्तानुसारं अस्मिन् दर्शने प्रत्यक्षम्, अनुमानम् उपमानम्, शब्दश्च इति चत्वारि प्रमाणानि स्वीकृतानि सन्ति। दर्शनेऽस्मिन् प्रमाणस्योपरि सूक्ष्म विवेचनं कृतमस्ति। प्रमाणानामुपरि सूक्ष्मविवेचनकरणात् न्यायशास्त्रं प्रमाणशास्त्रमिति नामान्तरेणापि ख्यातमस्ति। न्यायसूत्राणामुपरि वात्स्यायनेन विशिष्टं भाष्यं लिखितम्। वैशेषिकदर्शनम् ___ अत्र द्वितीयं दर्शनमस्ति वैशेषिकदर्शनम् । अस्य प्रवर्तको महर्षिः कणादोऽस्ति । अस्मिन् दर्शने द्रव्यम्, गुणः, कर्म, सामान्यम्, विशेषः समवायस्तथा अभावश्चेति सप्त पदार्थाः स्वीकृताः सन्ति । प्रमाणञ्चात्र प्रत्यक्षमनुमानञ्चेति द्विविधमेव। न्यायवैशेषिकयोरुभयोर्दर्शनयोः सन्निकर्षस्य प्रमाणत्वं स्वीकृतं वर्तते। इन्द्रियपदार्थयोः सम्बन्ध एव सन्निकर्षः । स च सन्निकर्षः षड्विधः-संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेष्यभावश्च । वैशेषिकसूत्राणामुपरि प्रशस्तपादेन भाष्यं लिखितमस्ति । इदमेव दर्शनं परमाणुवादस्योद्भावकमस्ति। सांख्यदर्शनम् अस्य दर्शनस्य प्रणेता महर्षिकपिलः। अस्मिन् दर्शने प्रकृतिः पुरुषश्चेति तत्त्वद्वयं स्वीकृतम्। अत्र प्रत्यक्षम् अनुमानं शब्दश्चेति प्रमाणत्रयं स्वीकृतम्। प्रकृतेर्महदादिक्रमेण विकारमासाद्य त्रयोविंशतिविकारानासाद्य सांख्यदर्शने पञ्चविंशतितत्त्वानि स्वीकृतानि । अत्र प्रकृतिः जडात्मिका पुरुषश्च चेतनः । एतन्मतानुसारम् आध्या Page #16 -------------------------------------------------------------------------- ________________ पुरोवाक् xi त्मिकम् आधिभौतिकम् आधिदैविकञ्चेति दुःखत्रयं जगति वर्तते । दुःखत्रयविघात एवात्रमुक्तिः । सा चेयं मुक्तिः विवेकख्यातिसाध्या । इदं सत्कार्यवादि दर्शनमस्ति । योगदर्शनम् अस्य दर्शनस्योद्भावक : महर्षि पतञ्जलिरस्ति । अनेन योगसूत्राणि लिखितानि । योगसूत्राणामुपरि महर्षिव्यासेन भाष्यं लिखितम् । सांख्यदर्शनाभिमतपञ्चविंशतितत्त्वानि स्वीकुर्वद् योगदर्शनम् एतेभ्यस्तत्त्वेभ्यः पृथक् एकमीश्वरनामकं तत्त्वमपि स्वीकरोति । ईश्वरश्च क्लेशकर्म विपाकाशयैरपरामृष्टः पुरुषविशेषः । अनेन प्रकारेण सांख्यदर्शनं निरीश्वरसांख्यदर्शनं चेत् योगदर्शनम् सेश्वरसांख्यदर्शनमिति पदेनाप्यभिधीयते । अस्मिन् दर्शनेऽपि सांख्य दर्शनवत् त्रीण्येव प्रमाणानि स्वीकृतानि सन्ति । योगशास्त्रे चत्वारो व्यूहाः सन्ति । ते चेत्थम् - संसार:, संसारहेतु:, मोक्षो, मोक्षोपायश्च । दुःखमयः संसारो हेयः । प्रधानपुरुषयोः संयोगो दुःखमयसंसारस्य हेतुरस्ति । प्रधानपुरुषयोः संयोगस्यात्यन्तिकी निवृत्तिरेवमोक्षः तदुपायश्चास्ति प्रकृतिपुरुषयोः स्वाभाविकभेदस्य ज्ञानम् । मीमांसादर्शनम् अस्य दर्शनस्योदभावको महर्षि जैमिनिरस्ति । महर्षिणानेन विरचितानि सूत्राणि यदुपरिशबरस्वामिनः भाष्यं वर्तते । मीमांसादर्शनस्य द्वौ भेदौ स्तः - कर्ममीमांसा, ज्ञानमीमांसा च । कर्ममीमांसा पूर्वमीमांसारूपेण तथा ज्ञानमीमांसा उत्तरमीमांसारूपेण प्रसिद्धे स्तः । Page #17 -------------------------------------------------------------------------- ________________ rii भिक्षुन्यायकर्णिका मीमांसादर्शने अष्टौ पदार्थाः स्वीकृताः । ते च द्रव्यम्, गुणः, कर्म, सामान्यम्, परतन्त्रता, संख्या शक्तिः सादृश्यञ्च। पदार्थानामवबोधाय कुमारिलभट्टः षड्प्रमाणानि स्वीकुरुते। तानि चप्रत्यक्षम्, अनुमानम्, उपमानम्, आगमः अर्थापत्तिः, अनुपलब्धिश्च। प्रभाकरस्तु-अनुपलब्धिमपहाय पञ्चैव प्रमाणानि मन्यते। धर्मानष्ठानेनैवाभिमतफलसिद्धिः। धर्मश्च वेदविहितकर्मजन्यः । वेदाश्च अपौरुषेयाः स्वतः प्रमाणभूताः सन्ति । वेदान्तदर्शनम् वेदान्तो नाम उपनिषत्प्रमाणम्। महर्षिव्यासरचितानि सूत्राणि वेदान्तदर्शनस्य मूलभूतानि सन्ति। उपनिषदां तत्त्वज्ञानोपरि वेदान्त दर्शनमवलम्बितमस्ति। तस्याधारोऽस्ति ब्रह्म। ब्रह्म चाद्वैतं सत् चित् आनन्दात्मकमस्ति । वेदान्तदर्शने पञ्चवादाः प्रसिद्धाः सन्ति। आचार्यशंकरस्याद्वैतवादः । रामानुजाचार्यस्य विशिष्टाद्वैतवादः, निम्बार्काचार्यस्य द्वैताद्वैतवादः, माघ्वाचार्यस्य द्वैतवादः, तथा वल्लभाचार्यस्य शुद्धाद्वैतवादः । वेदान्तस्य साहित्यमतिविशालमस्ति । गीता उपनिषदः ब्रह्मसूत्रञ्चेति त्रयं प्रस्थानत्रयीनाम्ना वेदान्तदर्शनं ख्यापयति। यद्यपि बहुशाखं वेदान्तदर्शनं तथापि वेदान्तशब्देन आचार्यशंकरस्याद्वैतवाद एव परां ख्यातिं गतो वर्तते। एतदनुसारं परिवर्तनशीलसंसारे यथार्थतत्त्वं ब्रह्म एव। यद्यपि जपतपोऽनुष्ठानादिक्रियाणां सम्पादनार्थं जगतो व्यवहारस्योपपत्तये जगतो व्यावहारिकसत्यत्वं दायेन प्रतिपादितं तथापि श्रवणमनननिदिध्यासनाद्युपायैः जाते तत्त्वसाक्षात्कारे जगतः पारमार्थिकरूपेणासत्यत्वमेवेति कथ्यतेऽत्र ब्रह्मसत्यं जगन्मिथ्येति न तु आपादमस्तकं प्रपञ्चपतितस्य कृते जगतो मिथ्यात्वमिति अत्रत्यः सारः। Page #18 -------------------------------------------------------------------------- ________________ पुरोवाक् xiii जैनदर्शनम् सम्प्रति अवैदिकन्यायेषु जैनन्यायः प्रस्तूयते। इदं पूर्वमुक्तं यत् जैनन्यायस्योद्गमस्थलं भगवती षटखण्डागमप्रभृतय आगमाः सन्ति। जैनन्यायस्य प्रमुखः सिद्धान्तोऽस्ति अनेकान्तवादः। अनेके अन्ता धर्मा यत्र सोऽनेकान्तः, अनन्तधर्मात्मकं वस्तु, तस्य वादः-कथनम् अनेकान्तवादः । जैनदर्शनं प्रत्येकं वस्तुनि अनेकधर्मान् स्वीकरोति । ते च धर्माः परस्परं विरोधिनोऽपि अपेक्षाबुद्ध्या एकत्र स्थातुं शक्नुवन्ति । अस्यानेकान्तवादस्य व्याख्यां स्याद्वादः करोति। अनया रीत्या अनेकान्तः सिद्धान्तः । स्याद्वादश्च अनेकान्तस्य व्याख्याता वचनप्रयोगात्मकोऽस्ति। तत्त्वमीमांसा प्रत्येकं दर्शनस्य प्रमुखं कार्यम्। अस्मिन् संदर्भ जैनन्याये नव तत्त्वानि स्वीकृतानि । तानि चेत्थम्- . जीवः, अजीवः, पापं, पुण्यम्, आश्रवः, संवरो, निर्जरा, बन्धो, मोक्षश्च । एषां संक्षिप्तः परिचयः १. जीवः- चेतनालक्षणो जीवः । यत्र चैतन्यं स एव जीवः । २. अजीव:- चेतनाशून्योऽजीवः । पापम्- अशुभरूपे उदीयमानः कर्मपुद्गलः पापम्। पुण्यम्- शुभरूपे उदीयमानः कर्मपुद्गलः पुण्यम्। आश्रवः- कर्मपुद्गलानामाकर्षिका आत्मप्रवृत्तिः आश्रवः। ६. संवरः - आश्रवनिरोधिका आत्मप्रवृत्तिः संवरः । । Page #19 -------------------------------------------------------------------------- ________________ xiy भिक्षुन्यायकर्णिका ७. निर्जरा- तपश्चर्यया कर्मविलयेन आत्मन आंशिकी उज्ज्वलता। बन्धः- आत्मनि संश्लिष्टा कर्मपुद्गला एव बन्धः। ९. मोक्ष:- कर्ममुक्तस्यात्मनः स्वरूपेऽवस्थानमेव मोक्षः । द्रव्यम्-द्रव्यस्य विवेचनं प्रत्येकं दर्शनं करोति । तत्र न्यायदर्शने गुणक्रियाश्रयो द्रव्यमिति स्वीकृतं तत्र जैनन्याये गुणपर्यायाश्रयो द्रव्यम् इति स्वीकृतमस्ति। द्रव्यस्यात्र षड्भेदाः सन्ति धर्मास्तिकायः, अधमर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकाय:, जीवास्तिकायः, कालश्चेति। एषु षड्द्रव्येषु कालमतिरिच्य पञ्चद्रव्याणि अस्तिकायशब्देन कथ्यन्ते। अस्तिकायशब्दे यत् अस्तिपदमस्ति तस्यार्थोऽस्ति प्रदेशः तथा कायशब्दार्थोऽस्ति समूहः । अनेन प्रकारेण यत्र प्रदेश: स्यात् अर्थात् यत् द्रव्यं सावयवं स्यात् तदेव द्रव्यम् अस्तिकायशब्देन व्यवहर्तुं शक्यते। काले अवयवा न भवन्ति । अतः कालस्य गणना अस्तिकाये न भवति। तस्मादिदं सिद्धं यत् जैनदर्शने षड्व्व्याणि तथा पञ्चास्तिकायाश्च सन्ति। प्रमाणम् 'प्रमेयसिद्धिः प्रमाणात् हि' इत्युक्त्यनुसारं प्रमेयमवबोद्धं प्रत्येकं दर्शने प्रमाणानि स्वीकृतानि । तत्र जैनन्याये प्रत्यक्षं परोक्षञ्चेति द्विविधं प्रमाणम्। तत्र प्रत्यक्षस्य द्वौ भेदौ पारमार्थिकम् सांव्यावहारिकञ्च । अनयोर्मध्ये पारमार्थिकस्य-अवधि मनःपर्याय: केवलञ्चेतित्रयो भेदा भवन्ति। तत्र चेतनस्य सर्वथावरणविलये स्वरूपाविर्भावः केवलं Page #20 -------------------------------------------------------------------------- ________________ XV पुरोवाक् प्रत्यक्षम्। आवरणविलयस्य तारतम्ये न्यूनाधिकभावे अवधिज्ञानं, मन:पर्यायज्ञानं च भवति। सांव्यावहारिकप्रत्यक्षम् इन्द्रियमनो निमित्तंभवति। अस्यअवग्रह: ईहा, अवाय: धारणाचेति चत्वारो भेदाः भवन्ति । अविशदः परोक्षप्रमाणं भवति। अस्य मतिज्ञानं श्रुतज्ञानं चेति द्वौ भेदौ। मतिज्ञानस्यस्मृति: प्रत्यभिज्ञानम्, अनुमानम्, आगमश्चेति चत्वारो भेदा भवन्ति । तत्र इन्द्रियमनोनिमित्तं ज्ञानं मतिज्ञानम्। शब्दसंकेतादिसहयोगेन जायमानं मतिज्ञानमेवश्रुतज्ञानं भवति। अस्मिन् दर्शने ज्ञानमेव प्रमाणमिति स्वीकृतिः। अनुमानमपि एकं विशिष्टं परोक्षप्रमाणम्। साधनात् साध्य ज्ञानमेवानुमानम्। साधनं लिङ्गं हेतुरिति पर्यायवाचिनः शब्दाः सन्ति। इदञ्चानुमानं सद्धेतुना भवति। अत्र हेतोः सद्हेतुता, पक्षसत्वम्, सपक्षसत्वम्, विपक्षासत्वम्, अबाधितत्त्वम्, असत्प्रतिपक्षत्वम् इति एभिः पञ्चरूपैर्न गृह्यते, किन्तु हेतोः साध्याविनाभावित्वमेव तस्य सद्हेतुताज्ञापकमस्ति। __ हेत्वाभास :- कश्चन हेतुरेतादृशो भवति य:खलु अहेतुरपि हेतुवदाभासते। अयम् असद्हेतुरेव हेत्वाभासः । न्यायदर्शने यत्र पञ्चहेत्वाभासाः स्वीकृतास्तत्र जैनन्याये असिद्धविरूद्धानैकान्तिक रूपेण त्रय एव हेत्वाभासा अभिमताः । बौद्धन्यायः बौद्ध सम्प्रदायस्य प्रवर्तको महात्मा बुद्धोऽस्ति । अस्मिन् सम्प्रदाये Page #21 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका सन्ति चत्वारः सम्प्रदायाः । ते च वैभाषिकः, सौत्रान्तिकः, योगाचारो माध्यामिकश्च । अस्मिन् न्याये प्रत्यक्षमनुमानञ्चेति प्रमाणद्वयम् । xvi वस्तुनो लक्षणमस्ति अत्र - अर्थक्रियाकारित्वम् । तच्च स्थिरपदार्थे न तिष्ठति किन्तु क्षणिकपदार्थे एव तिष्ठति । तस्मात् यत् सत् तत् क्षणिकम् । अनेन प्रकारेण क्षणिकवादो बौद्धदर्शनस्य प्रमुखो भाग: सिध्यति । आर्यसत्यानि - अत्र मते चत्वारि आर्यसत्यानि स्वीकृतानि । तानि च दुःखम्, दुःख समुदयः, दुःखनिरोधः, दुःखनिरोधमार्गश्च । भवचक्रमेव दुःखकारणम् । दुःखनिवारणार्थ मष्टाङ्ग योगस्य सेवनमावश्यकं मतम् । स च अष्टांगयोगः - सम्यक् दृष्टिः, सम्यक् संकल्पः, सम्यक् वाक्, सम्यक् कर्मान्तः, सम्यक् आजीवः, सम्यक् व्यायामः, सम्यक् स्मृतिः, सम्यक् समाधिः । एषां योगाङ्गानां सेवनेन समुदेति यथार्थप्रज्ञा । तया एव भवचक्रस्य विनाशः । तत एव मोक्षः । मोक्षमार्गोपरि आरोढुं चतस्रः भावनाः सन्ति उपास्याः । ताश्चेत्थम् १. सर्वं दुःखमयम् २. सर्वं क्षणिकम् ३. सर्वं स्वलक्षणम् ४. सर्वं शून्यम् । आसां भावनानामभ्यासेन सांसारिकी आसक्तिः क्षीयते । तत एव मनुष्यो मोक्षमार्गस्य पथिको भूत्वा स्वकीयं चरमलक्ष्यमधिगन्तुं यतमानो भवतीति संक्षेपः । विशेषतश्च तत्तद्साम्प्रदायिकग्रन्थेभ्यो ज्ञातव्यम् । प्रस्तुतपुस्तकविषये किमपि प्रस्तुतपुस्तकम् आचार्यतुलसीमहाभागेन विरचितम्। आचार्य- Page #22 -------------------------------------------------------------------------- ________________ पुरोवाक् xvii तुलसी दर्शनशास्त्रस्य तलावगाही विद्वानवर्तत। दर्शनशास्त्रं हि आत्मानात्मविवेचकम् अपवर्गमार्गप्रदर्शकं निखिलतत्त्वप्रकाशकममूल्यरत्नोपमं महदुपयोगीत्यवधार्य जैनन्याये सारल्येन प्रवृत्तिकामनया पुस्तकमिदं व्यलेखि सूत्रशैल्यामाचार्यवरेण । सूत्राणि भवन्ति अल्पाक्षराण्यपि गभीरभावभरितानि इत्याकलय्य सूत्राणां स्वोपज्ञवृत्तिरपि लिखिता तेन महाभागेन । वृत्त्या सह हिन्द्यां सूत्रार्थोऽपि कृतोऽत्र । सप्तसु विभागेषु विभक्तेऽस्मिन् पुस्तके न्यायशास्त्रीयनिखिलतत्त्वानि निबद्धानि सन्ति। प्रमाणं प्रमेयः प्रमाता प्रमितिश्चेति चत्वारि न्यायशास्त्रीयाङ्गानि वैशद्येन सन्त्यत्र व्याख्यातानि। कार्यकारणविभागस्तेषां लक्षणानि, लक्षणदोषः, प्रमाणस्य भेदप्रभेदादयो विषया अत्र सम्यक्तया स्फुटीकृताः सन्ति । प्रमाणमध्येऽनुमानस्यैकं विशिष्टं स्थानम्। तच्चाविनाभाविना लिंगेन लिङ्गिनो ज्ञानस्वरूपम्। तत्र हेतुरूपोपर्यपि गरीयान् विचारो दृश्यतेऽत्र। पुस्तकस्य परिशिष्टभागस्य गांभीर्यमपि हेतुमवलम्ब्यैव । जैनदर्शनम् अनेकान्तवादि दर्शनम्। प्रत्येक वस्तुनि अनेके धर्माः स्वीक्रियन्तेऽत्र । अनेकान्तः सिद्धान्तः, स्याद्वादश्चानेकान्तस्यव्याख्याता। स स्याद्वादः नयो निक्षेपश्चेति त्रयः खलु इमे केवलं जैनदर्शने एव स्वीकृताः सन्ति। किमर्थमिमे स्वीकृताः? अस्य प्रश्नस्योत्तरमिदमेव बोध्यं यत् जैनदर्शनस्य हार्द बोद्धमेषामावश्यकता अस्ति। दर्शनमिदनेकान्तवादिदर्शनमस्ति। अस्य व्याख्या स्याद् वादनयनिक्षेपान् विना सम्यक्तया भवितुं नाह तीति एषां स्वीकरणमावश्यकम। Page #23 -------------------------------------------------------------------------- ________________ xviii भिक्षुन्यायकर्णिका विषयाणां बाहुल्यं तेषां गाम्भीर्यं चावलोक्य तेषां स्पष्टप्रतिपत्तये भिक्षुन्यायकर्णिकाया मया न्यायप्रकाशिकानाम्नी संस्कृतव्याख्या कृता। अस्या व्याख्याया इदमेवोद्देश्यं यत् अत्रत्याः सर्वे विषयास्तुलनात्मकदृष्ट्या व्याख्याता विशिष्टज्ञानप्रयोजकाः स्युः । यथा-ज्ञानं प्रमाणं चेत्तस्य प्रामाण्यं स्वतः परतो वेति विसंवादः । विषयोऽयं विचारपथमानीतो नैयायिकादिभिर्दार्शनिकैः। सर्वं चात्रत्यं हार्द प्रथमविभागस्य पञ्चदशसूत्रे प्रामाण्यनिश्चयः स्वतः परतो वा इत्यत्र वैशयेन प्रस्तुतीकृतम्। अनुमितौ सद्हेतवः प्रयोजकाश्चेत् हेत्वाभासाः प्रतिबन्धका भवन्ति। के च ते असद्धेतवः इति विषयमादायगौतमीयन्यायपरम्पराया हेत्वाभासा अपि सोदाहरणमत्र सन्ति प्रस्तुतीकृताः । परिशिष्टे समागता भावेन विधिहेतवो भावेन प्रतिषेधहेतवश्च उदाहरणप्रत्युदाहरणमुखेन तथा व्याख्याता येन तद्विषयक: सन्देहः सर्वथैव व्यपगतो भवेत्। अनया रीत्या व्याख्यातमिदं पुस्तकं जैनतत्त्वबुभुत्सूनां कृते सरलो राजमार्ग इति मे द्रढीयान् विश्वासः । ज्ञानगरिम्णा व्यापकविषयप्रतिपादनदृष्ट्या चेदं पुस्तकं विद्वज्जनमनःसु निदधीतपदमिति कामयमानः १६/७/२००६ विश्वनाथमिश्रः प्रो. जैनविद्याविभाग जैन विश्व भारती संस्थान, लाडनूं Page #24 -------------------------------------------------------------------------- ________________ विषयानुक्रम भूमिका सम्पादकीयम् प्रथम विभाग 1. न्याय की परिभाषा 2. न्याय के अंग 3. न्याय की प्रवृत्ति का हेतु लक्षण और प्रमाण से अर्थसिद्धि लक्षण की परिभाषा लक्षणाभास की परिभाषा और प्रकार अव्याप्त लक्षणाभास की परिभाषा अतिव्याप्त लक्षणाभास की परिभाषा असंभवी लक्षणाभास की परिभाषा प्रमाण की परिभाषा अयथार्थ ज्ञान के प्रकार विपर्यय की परिभाषा 13. संशय की परिभाषा mi twoi o o o or r n o 599 vo o ar an Page #25 -------------------------------------------------------------------------- ________________ XX 14. 15. द्वितीय विभाग 1. 2. 3. 4. 5. 6. 7. 8. 9. 10. 11. 12. 13. 14. अनध्यवसाय की परिभाषा प्रामाण्य - निश्चय के प्रकार 15. 16. 17-18. प्रमाण के प्रकार प्रत्यक्ष की परिभाषा पूर्ण प्रत्यक्ष- केवलज्ञान अपूर्ण प्रत्यक्ष-अवधिज्ञान और मनः पर्यायज्ञान अवधिज्ञान की परिभाषा मनः पर्यायज्ञान की परिभाषा व्यावहारिक प्रत्यक्ष की परिभाषा अवग्रह की परिभाषा अवग्रह के प्रकार भिक्षुन्यायकर्णिका चक्षु और मन के व्यञ्जनावग्रह का अभाव ईहा की परिभाषा अवाय की परिभाषा धारणा की परिभाषा अवग्रह, ईहा अवाय और धारणा की भिन्नता के कारण अवग्रह आदि के क्रम-ज्ञान का अभाव इन्द्रिय की परिभाषा इन्द्रिय के प्रकार १४ १५ 2 x 2 w 2 x m २१ २४ २५ २६ २७ ३१ ३३ ३४ ३६ ३८ ३९ ४० ४१ ४२ ४३ ४४ ४५ Page #26 -------------------------------------------------------------------------- ________________ विषयानुक्रम 19. निर्वृत्ति और उपकरण इन्द्रिय की परिभाषा 20. लब्धि और उपयोग इन्द्रिय की परिभाषा मन की परिभाषा 21. तृतीय विभाग 1. 2. 3. 4. 5. 6. 7. 8. 9. 10. 11. 12. 13. 14. 15. 16 17. परोक्ष की परिभाषा परोक्ष के प्रकार मतिज्ञान की परिभाषा मतिज्ञान के प्रकार स्मृति की परिभाषा प्रत्यभिज्ञा की परिभाषा तर्क की परिभाषा अनुमान की परिभाषा साध्य की परिभाषा साधन की परिभाषा अविनाभाव की परिभाषा सहभाव का निरूपण क्रमभाव का निरूपण विधि और प्रतिषेध के हेतु तु का प्रयोग हेत्वाभास के प्रकार असिद्ध हेत्वाभास की परिभाषा xxi. ४७ ४८ ४९ ५५ ५६ ५६ ५६ ५७ ६० ६४ ६७ ६८ ७० ७१ __७१ ७२ ७३ ८२ ८३ ८४ Page #27 -------------------------------------------------------------------------- ________________ xxii भिक्षुन्यायकर्णिका 18. विरुद्ध हेत्वाभास की परिभाषा 19. अनैकान्तिक हेत्वाभास की परिभाषा वचनात्मक अनुमान में दृष्टान्त, उपनय और निगमन का प्रयोग दृष्टान्त की परिभाषा दृष्टान्त के प्रकार अन्वयी दृष्टान्त की परिभाषा व्यतिरेकी दृष्टान्त की परिभाषा अन्वयी दृष्टान्ताभास के प्रकार व्यतिरेकी दृष्टान्ताभास के प्रकार उपनय की परिभाषा निगमन की परिभाषा प्रतिषेध के प्रकार प्रागभाव की परिभाषा प्रध्वंसाभाव की परिभाषा इतरेतराभाव की परिभाषा अत्यन्ताभाव की परिभाषा निर्विकारता, अनन्तता, सर्वात्मकता और एकात्मकता की आपत्ति कारण की परिभाषा कारण के प्रकार 37. उपादान कारण की परिभाषा १०१ Page #28 -------------------------------------------------------------------------- ________________ विषयानुक्रम 38. निमित्त कारण की परिभाषा 39. कार्य की परिभाषा 40. कार्य के प्रकार चतुर्थ विभाग 1. 2. 3. 4. 5. 6. 7. 8. श्रुतज्ञान की परिभाषा आगम की परिभाषा 1. 2. 3. आप्त की परिभाषा आप्त के प्रकार अर्थ - प्रतिपत्ति का हेतु शब्द वक्ता के गुण-दोष के अनुसार शब्द की यथार्थता और अयथार्थता स्याद्वाद की परिभाषा विधि - निषेध की कल्पना से स्याद्वाद के अनेक भंग सप्तभंगी 9. 10. 11. 12. पंचम विभाग प्रमाण - प्रतिनियत अर्थ का प्रकाशक प्रमाण - स्वार्थ और परार्थ दोनों सवाद की परिभाषा नय की परिभाषा नय के प्रकार द्रव्यार्थिक नय के प्रकार xxiii १०२ १०५ १०५ १०७ ११० ११२ ११२ ११३ ११६ ११७ ११९ १२१ __१२६ १२६ १२७ १३२ १३४ १३६ Page #29 -------------------------------------------------------------------------- ________________ xxiv भिक्षुन्यायकर्णिका १३८ १४० in १४० १४२ oo १४३ १४४ 12. १४६ १४७ १४९ 4-5. नैगम नय की परिभाषा संग्रह नय की परिभाषा संग्रह नय के प्रकार व्यवहार नय की परिभाषा 9. पर्यायार्थिक नय के प्रकार 10. ऋजुसूत्र नय की परिभाषा शब्द नय की परिभाषा समभिरूढ़ नय की परिभाषा 13. एवंभूत नय की परिभाषा ___ अर्थ नय का निरुपण ___ शब्द नय का निरुपण पूर्ववर्ती और उत्तरवर्ती नयों में पार्थक्य प्रकारान्तर से नय के प्रकार निश्चय नय की परिभाषा व्यवहार नय की परिभाषा 20. ज्ञान नय और क्रिया नय का निरूपण 21. नयाभास की परिभाषा षष्ठ विभाग ___ 1. प्रमाण का विषय 2. सत् की परिभाषा 3. असत् की परिभाषा १४९ १५० १५२ १५३ १५४ १५४ १५९ १६३ १६५ Page #30 -------------------------------------------------------------------------- ________________ विषयानुक्रम XXV दद 8. १६९ 4. नित्य की परिभाषा 5. अनित्य की परिभाषा सामान्य की परिभाषा १६६ विशेष की परिभाषा १६८ विशेष के प्रकार 9. वाच्य की परिभाषा १७० अवाच्य की परिभाषा १७० अपेक्षाभेद से विरोधी धर्मों की संगति १७० प्रमाण-फल की परिभाषा १७३ प्रमाण से प्रमाण-फल की भिन्नता-अभिन्नता १७४ 14. प्रमाण और प्रमाण-फल की भिन्नता १७५ का निरूपण 15. प्रमाण और प्रमाण फल की अभिन्नता का निरूपण 16. अवग्रह आदि की क्रमिकता से पूर्ववर्ती प्रमाण-उत्तरवर्ती फल १७६ सप्तम विभाग 1. प्रमाता की परिभाषा १७९ 2. चैतन्यलिंग की उपलब्धि से आत्मा का बोध १८२ 3. भूतों में चैतन्यधर्म का अभाव १८३ 4. उपादान और नियम का निरूपण १८४ १७५ Page #31 -------------------------------------------------------------------------- ________________ xxvi 5. 6. असत् के उत्पादन का अभाव मस्तिष्क चैतन्य के प्रयोग का हेतु, किन्तु मूल नहीं 7. पूर्वाभ्यास की स्मृति पृथ्वी आदि में चेतना की सिद्धि त्रस प्राणियों में चेतना की सिद्धि रक्त प्राणशक्ति का अनुगामी किन्तु चैतन्य का मूल नहीं १८७ 8. आत्म- अस्तित्व का हेतु प्रेत्य का सद्भाव १८८ 9. पुनर्जन्म के सद्भाव का कारण- चैतसिक आग्रह१८९ 10. 11. 12. प्रशस्ति - श्लोकाः परिशिष्ट भिक्षुन्यायकर्णिका १८४ १८६ १९० - १९१ १९३ १९५ २०४ Page #32 -------------------------------------------------------------------------- ________________ न्यायशास्त्रीयपदार्थानां यथार्थबोधोपपत्तये प्रारब्धस्य भिक्षुन्यायकर्णिकाग्रन्थस्य निर्विघ्नसमाप्ति प्रचारादिप्रतिबन्धकाशेष प्रत्यूहपरिहारकामनया ग्रन्थादौ नमस्कारात्मकं मङ्गलमाचरति ग्रन्थकार: श्रीस्याद्वादोपदेष्टारं, तीर्थेशं त्रिशलात्मजम्। भक्त्याभिनम्य कुर्वेहं, श्रीभिक्षुन्यायकर्णिकाम्॥ स्याद्वाद के उपदेष्टा, तीर्थ के अधिपति, त्रिशलापुत्र भगवान् महावीर को सभक्ति वन्दन कर मैं भिक्षुन्यायकर्णिका की रचना करता हूँ। अहं तुलसीगणी श्रिया-विषयसम्पदा युक्तस्य स्याद्वादस्य जैनदर्शनाधार भूतसिद्धान्तानेकान्तवादव्याख्यातृपदप्रतिष्ठितस्य उपदेष्टारम् - उपदेशक रम्, तीर्थेशम्-साधुसाध्वीश्रावकश्राविकेति चतुष्टयतीर्थस्य ईशं-स्वामिनं निर्मातारं वा तथा त्रिशलाया आत्मजं तनयं भगवन्तं महावीरं भक्त्या श्रद्धया अभिनम्य-नमस्कृत्य भिक्षुन्यायकर्णिकां कुर्वे-रचयामि । भिक्षुन्यायकर्णिकेति नाम्नी रचनां विदधामि। ग्रन्थनाम्न आदौ भिक्षुशब्दोल्खेस्तु आदरातिशय व्यञ्जकत्वात्-अभ्यर्हितत्वाच्चेति बोध्यम्। त्रिशलात्मजं भगवन्तं नमस्कृत्य भिक्षुन्यायकर्णिकां विरचयामीति स्पष्टोऽर्थः। Page #33 -------------------------------------------------------------------------- ________________ Page #34 -------------------------------------------------------------------------- ________________ प्रथमो विभागः न्यायशास्त्रस्य सर्वशास्त्रोपकारकत्वं मन्वान आचार्यो न्यायस्य परिभाषां कुर्वन् सूत्रमवतारयतियुक्त्यार्थपरीक्षणं न्यायः। साध्यसाधनयोरविरोधो युक्तिः, अर्थपरीक्षणोपायो वा। नीयते प्राप्यतेऽर्थसिद्धिर्येन स न्यायः । युक्ति के द्वारा तत्त्वों का परीक्षण करना न्याय है। साध्य और साधन के अविरोध का नाम युक्ति है। अर्थपरीक्षण के उपाय को भी युक्ति कहा जाता है। जिससे अर्थसिद्धि प्राप्त की जाती है, वह न्याय है। यह न्याय शब्द का व्युत्पत्तिलभ्य अर्थ है। न्या. प्र.-अर्थानां तत्त्वानां महदुपयोगित्वं लोके। तत्रापरीक्षितं तत्त्वं न भवितुमर्हत्यभ्युदयाय अपितु सम्पद्यतेऽनिष्टायापि इति मनसि निधायाह-अर्थपरीक्षणं तत्त्वपरीक्षणमेव न्यायः। अत: परीक्षणं विधायैव यत्र कुलापि प्रवृत्तिः कर्त्तव्येत्यत्रत्यं रहस्यम्। तच्च परीक्षणं कथमितिचेत् युक्त्येति गृहाण । तत्र का नाम युक्तिरितिजिज्ञासायामाह साध्यसाधनयोरविरोधो Page #35 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका युक्ति: अर्थपरीक्षणोपायो वा। यत्र किमपि वस्तु परीक्ष्यते तत्र तद्वस्तु साध्यं भवति, तथा येन साधनेन तत् परीक्ष्यते तत् साधनं कथ्यते। यदि साधनं साध्यस्य विरोधि भवति तदा तत् साध्यं साधयितुं न शक्नोति यथा शब्दो नित्यः कार्यत्वात् । अत्र कार्यत्वेन हेतुना शब्दे नित्यत्वं साध्यते। तच्च साधनं कार्यत्वं नित्यत्वस्य विरोधि अस्ति। अतः कार्यत्वेन हेतुना नित्यत्वं साधयितुं न शक्यते। अत उक्तं मूले साध्यसाधनयोरविरोध एव युक्तिः। एतादृश्या युक्त्या अर्थपरीक्षणं कार्यम् । परीक्षितोऽर्थएवप्रवृत्युपयोगी। साध्यसाधनयोः प्रयोगस्यानुमितिस्थल एव प्रसिद्धत्वात् युक्तिप्रथमलक्षणेऽरुचिं निधाय लिखति अर्थपरीक्षणोपायो वा युक्तिः । अर्थस्य परीक्षणं येनोपायेन भवति सोऽप्युपायो युक्तिपदेनाभिधीयते। येन केनापि प्रकारेणार्थस्य परीक्षणं कृत्वैव तत्र प्रवर्तितव्यमिति अत्रत्यं तात्पर्यम् । तत्र न्यायपदार्थः क इति जिज्ञासायायुच्यते - नीयते प्राप्यते अर्थस्य पदार्थस्य सिद्धिप्तिर्येन स न्यायः। न्यायशास्त्रमेव वस्तुनो याथार्थ्यं प्रस्तौति । तत एव तत्र प्रवृत्तिः साधीयसी भवतीति अत्रत्यं हार्दम्। प्रमाणं प्रमेयं प्रमितिः प्रमाता चेति चतुरङ्गः । प्रमाणं - साधनम्। प्रमेयम् - वस्तु। प्रमितिः - फलम्। प्रमाता – परीक्षकः। - 2. Page #36 -------------------------------------------------------------------------- ________________ प्रथम विभाग: 3. प्रमाण, प्रमेय, प्रमिति और प्रमाता- न्याय के ये चार अंग हैं। प्रमाण- साधन । प्रमेय-वस्तु । प्रमिति — फल | ------ प्रमाता - परीक्षक । न्या. प्र. - प्रमाणं प्रमेयं प्रमितिः प्रमाता चेति चतुरङ्गः । न्यायस्य चत्वारि अङ्गानि भवन्ति । तानि च इत्थम्प्रमाणम् प्रमीयते येन तत् प्रमाणम् - साधनम् । प्रपूर्वात् मा धातोः करणे अनट् प्रत्यये निष्पन्न: प्रमाणशब्दः साधन वाचकः । प्रमेयम् - प्रमीयते यत् तत् प्रमेयं ज्ञेयं वस्तु । ज्ञप्तिर्ज्ञानं वा फलम् । प्रमितिः प्रमाता प्रमिमीते जानाति यः स ज्ञाता एव प्रमाता । एभिश्चतुर्भिरङ्गैः समुपेतो न्याय: प्रेक्षावतां कृते भवत्युपयोगी । किमुद्दिश्य न्यायस्य प्रवृत्तिरिति शंकां मनसि निधाय लिखति --- m अर्थसिद्धयै तत्प्रवृत्तिः । असतः प्रादुर्भावः, इष्टावाप्तिर्भावज्ञप्तिश्चेति त्रिविधाऽर्थसिद्धिः । तत्र न्यायस्य प्रवृत्तेः साक्षात् निमित्तं भावज्ञसिरेव । न्याय की प्रवृत्ति अर्थसिद्धि के लिए होती है। अर्थसिद्धि के तीन प्रकार हैं-असत् का प्रादुर्भाव, इष्ट की प्राप्ति और पदार्थ का ज्ञान । Page #37 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका मिट्टी घट के रूप में परिणत होती है, वह असत् का प्रादुर्भाव है। प्यास से आकुल व्यक्ति को पानी मिलता है वह इष्ट की प्राप्ति है। किसी पदार्थ का ज्ञान होता है वह भावज्ञप्ति है। ___ न्यायशास्त्र की प्रवृत्ति का साक्षत् निमित्त भावज्ञप्ति ही है। अर्थसिद्धयै तत्प्रवृत्तिः। अर्थस्य सिद्धि-सिरर्थसिद्धिस्तस्यै तस्य-न्यायस्य प्रवृत्ति र्भवति। तत्रार्थसिद्धेः त्रयः प्रकारा भवन्ति । ते चेत्थम् असत: प्रादुर्भावः। असतः पूर्वतोऽविद्यमानस्य प्रादुर्भाव: प्रकाट्यमुत्पत्तिर्वा। इह दार्शनिकजगति सत्कार्यवादोऽसत् कार्यवादश्चेत्यादयोऽनेके वादाः सन्ति । तत्रासत्कार्यवादस्येदं तात्पर्य यत् कार्य स्वोत्पत्तेः पूर्वं स्वकीयकारणेऽसदासीत्। तच्च कर्तृव्यापारात् प्राकट्यमुपैति। मृत्तिकायां पूर्वतो घटो नासीत् किन्तु कर्तुः क्रियया मृदेव घटरूपे परिणता भवति। घटो नातिरिक्तो मृत्तिकायाः। अयमसतः प्रादुर्भावो ज्ञायते न्यायशास्त्रद्वारेणैवेति न्यायशास्त्रस्य प्रयोजनमिदम्। कश्चन पिपासुर्जनो नभसि उड्डीयमानान् पक्षिणः समवलोक्य तत्र गतः। जलं प्राप्य पीत्वा च तृप्तिं याति। इयं खलूच्यते इष्ट प्राप्तिः। तत्र सरसि जलमस्ति नभसि तत्र पक्षिण: उड्डयनात् इत्येवं रूपेण न्यायबलादवबुध्य जलं प्रापोतीति इष्टसिद्धिर्भवत्येव न्यायात्। न्यायशास्त्रद्वारा एव कस्यचित् पदार्थस्य यथार्थज्ञानं भवति। Page #38 -------------------------------------------------------------------------- ________________ प्रथम विभागः इयं भावज्ञप्तिरेव न्यायशास्त्रस्य प्रवृत्तेः साक्षात् निमित्तं भवति। अव्याप्त्यतिव्याप्त्यसंभवदोषरहितं वस्तुनः स्वरूपमन्तरा न्यायशास्त्रं वेत्तुं न शक्यत इति इदमपि साधीयः प्रयोजनं न्यायशास्त्रस्येति न कश्चन संशयः। अर्थसिद्धयै न्यायशास्त्रस्य प्रवृत्तिर्भवतीत्युक्तम्। सा चार्थसिद्धिः अर्थस्य ज्ञानं विना भवितुं नाहतीति अर्थज्ञानोपायं प्रदर्शयन् सूत्रयति साच लक्षणप्रमाणाभ्याम्। अर्थसिद्धि लक्षण और प्रमाण से होती है। न्या. प्र. - लक्षणेन प्रमाणेन च अर्थस्य स्वरूपं परिज्ञाय तत्सिद्धये प्रयतितव्यमिति भावः। तत्र किं नाम लक्षणमिति जिज्ञासायामाह - व्यवच्छेदकधर्मो लक्षणम्। वस्तुनो व्यवस्थापनहेतुभूतो धर्मो लक्ष्यं व्यवच्छिनत्तिसांकीर्ण्यमपनयतीति लक्षणम्। यथा-जीवस्य चैतन्यम्, अग्नेरौष्ण्यम्, गो: सास्नावत्वम् । क्वचित्कादाचित्कमपि, यथा- दण्डीपुरुषः। एक वस्तु को दूसरी वस्तुओं से पृथक् करने वाला धर्म लक्षण है। वस्तु के व्यवस्थापन में हेतुभूत धर्म, जो लक्ष्य को शेष से व्यवच्छिन्न करता है-दूसरों से उसे पृथक् करता है 5. Page #39 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका वह लक्षण है, जैसे चैतन्य जीव का लक्षण है। उष्णता अग्नि का लक्षण है। सास्ना (गलकम्बल) गौ का लक्षण है। कहीं पर कादाचित्क धर्म भी लक्षण बन जाता है, जैसेदण्डी पुरुष। न्या. प्र. - व्यवच्छेदकधर्मो लक्षणम् यः व्यवच्छिनत्ति समुदायात् एकं पदार्थं पृथक्करोति स व्यवच्छेदको धर्म एव तस्य वस्तुनो लक्षणम्। अनया रीत्या वक्तुं शक्यते यत् वस्तुनि वर्तमानस्तदीयोऽसाधारणधर्म एव तद् वस्तु अन्यस्मात् वस्तुनः पृथक्कृत्य तल्लक्षणं भवति। असाधारणधर्मः स एवोच्यते यः तद्वृत्तित्वे सति तदितरावृत्तिर्भवेत् । यथा जीवस्य लक्षणं चैतन्यमस्ति। इदं चैतन्यम् अजीवात् जीवं व्यवच्छिनत्ति । अजीवे चैतन्यं नैव भवतीति विभनक्ति इदं जीवम् अजीवेभ्य इति तल्लक्षणं साधु एव। एवम् आग्नेर्लक्षणमस्ति औष्ण्यम् । उष्णता अनिमात्रवृत्तिर्धर्मः। न चेयमग्निव्यतिरिक्ते जलादौ कदाचिदपि तिष्ठति। न च अग्निसंयोगात् तसे पयसि उष्णतायाः सत्वात् लक्षणमिदमतिव्यासमितिवाच्यम् ? तत्रोष्णताया औपाधिकत्वेनादोषात् । न च जले स्वाभाविकी उष्णता कदाचिदपि तिष्ठतीतिनास्त्यत्रातिव्याप्तिदोषलेशोऽपि। एवमेव गोर्लक्षणं सास्नावत्वं महिण्यादिभ्यः पशुभ्यो गां Page #40 -------------------------------------------------------------------------- ________________ प्रथम विभागः पृथक्कृत्य तल्लक्षणं भवति। सास्ना केवलं गवि एव लभ्यते न महिष्यादौ । क्वचित् कादाचित्कोऽपि धर्मो लक्षणतामुपैति । दण्डिना सह गच्छत्सु पुरुषेषु दण्ड एव तद्विशिष्टपुरुषस्य लक्षणं भवति। स एव पृथक् करोति दण्डयुक्तं पुरुषमन्यपुरुषेभ्यः । लक्षणं निरूप्येदानीं तदाभासान् परिचाययितुं सूत्रयतिअव्याप्त-अतिव्याप्त-असंभविनस्तदाभासाः । अतत् तदिव आभासते इति तदाभासः। अव्याप्त, अतिव्याप्त और असंभवी-ये तीन लक्षणाभास हैं। जो लक्षण नहीं हैं पर लक्षण जैसा प्रतीत होता है, उसे लक्षणाभास कहा जाता है। . न्या. प्र. - तद्भिन्नमपिवस्तु यदि तदिव आभासते तदा तत्र तदाभासत्वमिति कथ्यते। तदाभासे तद्वत्ता नैव तिष्ठति तथैव लक्षणाभासेऽपि लक्षणमिदमिति नैव शक्यते वक्तुम्। लक्षणाभासस्य त्रयो भेदा भवन्तिअव्याप्तातिव्याप्तासंभविभेदात् । तत्राव्याप्तं लक्षयति - 7. लक्ष्यैकदेशवृत्तिरव्याप्तः। यथा-पशोर्विषाणित्वम्। जो लक्षण लक्ष्य के एक देश में मिलता है, वह अव्याप्त लक्षणाभास है। Page #41 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका जैसे-पशु का लक्षण विषाण। (पशु के सींग होते हैं किन्तु सब पशुओं के सींग नहीं होते। गधा एक पशु है पर उसके सींग नहीं होते अत: उक्त लक्षण सम्पूर्ण लक्ष्य में व्याप्त नहीं है।) न्या. प्र. - तत्र लक्ष्यैकदेशवृत्तिरव्याप्त :- यल्लक्षणं लक्ष्यस्यैकदेशे अर्थात् एकस्मिन्नेवलक्ष्ये गच्छेत्, अपरस्मिन् लक्ष्ये च न गच्छेत् तल्लक्षणम् अव्याप्तलक्षणाभास इत्युच्यते। तदेवलक्षणं समीचीनं भवति, यत् प्रत्येकं लक्ष्ये गच्छेत् । यच्च प्रत्येकं लक्ष्ये न गत्वा यस्मिन् कस्मिन् एकस्मिन्नेव वा लक्ष्ये गच्छेत् तत्तु लक्षणाभास एव। यथा पशोर्लक्षणं यदि विषाणित्वमिति क्रियते चेत् लक्षणमिदं गर्दभे-अश्वे-हस्तिनि च नैव याति । तस्मात् लक्षणाभासोऽयम्। अतिव्याप्तं लक्षयितुं सूत्रयति - 8. लक्ष्यालक्ष्यवृत्तिरतिव्याप्तः। यथा-वायोर्गतिमत्त्वम्। जो लक्षण लक्ष्य और अलक्ष्य दोनों में मिलता है वह अतिव्याप्त लक्षणाभास है। जैसे-वायु का लक्षण गतिशीलता। (वायु गतिमान है पर उससे अतिरिक्त पदार्थ भी गतिमान हैं। अत: उक्त लक्षण अतिव्याप्त है।) न्या. प्र.- इदानीमतिव्याप्तलक्षणाभासं लक्षयति Page #42 -------------------------------------------------------------------------- ________________ प्रथम विभागः लक्ष्यालक्ष्यवृत्तिरतिव्याप्तः। यल्लक्षणं लक्ष्ये अलक्ष्ये चेत्युभयत्र गच्छति तदपि लक्षणाभास एव। लक्ष्ये लक्षणस्य गमनमभीष्टं किन्तु अलक्ष्ये तु लक्षणस्य गमनं कदापि नेष्टम् । यदि गच्छति तत्र लक्षणं तदा आभासत्वेन हेयमेव। यथा वायोर्लक्षणं यदि गतिमत्वं क्रियते तदा लक्षणमिदं अतिव्यासलक्षणाभासपदेन वक्तुं शक्यते। वायौ वर्तमानमिदं लक्षणं वायुभिन्ने मनुष्यादावपि गच्छत्येव। तस्मान्नयुक्तमिदम्। असंभविनं लक्षयति - लक्ष्यमात्रावृत्तिरसंभवी। यथा- पुद्गलस्य चेतनत्वम्। जो लक्षण अपने लक्ष्य में अंशतः भी नहीं मिलता वह असंभवी लक्षणाभास है। _जैसे-पुद्गल का लक्षण चैतन्य। (पुद्गल और चैतन्य में अत्यंताभाव है अत: यह असंभवी लक्षणाभास है।) न्या. प्र. – यल्लक्षणं लक्ष्यमात्रे न गच्छेत् तलक्षणमुच्यते असंभवि। नेष्ट मेतादृशं लक्षणं यल्लक्ष्येनैव गच्छेत् । यथापुद्गलस्य लक्षणं, चेतनत्वं क्रियते चेत् लक्षणमिदम् असंभवि, एव भविष्यति यतोहि चैतन्यं न खलु जडस्य पुद्गलस्यधर्मः। तस्मात् लक्ष्ये लक्षणस्यानागमनात् लक्षणमिदमसंभवी लक्षणाभास एव। Page #43 -------------------------------------------------------------------------- ________________ १० भिक्षन्यायकर्णिका पूर्वं लक्षणप्रमाणाभ्यामर्थसिद्धिरुक्ता। तत्र लक्षणं तदाभासाश्च व्याख्याताः। सम्प्रति प्रमाणं लक्षयन् तल्लक्षणमवतारयति - 10. यथार्थज्ञानं प्रमाणम्। प्रकर्षण-विपर्ययाद्यभावेन मीयतेऽर्थो येन तत् प्रमाणम्। ज्ञानम् अर्थप्रकाशकम्। तदयथार्थमपि भवतीति तद्व्यवच्छित्तये यथार्थमिति विशेषणम्। प्रमेयस्य नान्यथा ग्रहणं यथार्थत्वमस्य। यथार्थ ज्ञान को प्रमाण कहा जाता है। प्रकृष्ट रूप-विपर्यय, संशय आदि के अभाव से पदार्थ का जो मान-परिच्छेद किया जाता है, वह प्रमाण है। यह प्रमाण शब्द का व्युत्पत्तिलभ्य अर्थ है। ज्ञान अर्थ का प्रकाशक होता है। वह अयथार्थ भी हो सकता है। इस अयथार्थता को पृथक् करने के लिए ज्ञान के साथ 'यथार्थ' विशेषण जोड़ा गया है। प्रमेय का अन्यथा ग्रहण न होना ही प्रमाण की यथार्थता है। न्या. प्र. - यथार्थज्ञानं प्रमाणम्।। ज्ञानम् अर्थप्रकाशकं भवति। तच्च यथार्थम् अयथार्थञ्चेति द्विविधम् । तत्र तद्वति तत्प्रकारकं ज्ञानं यथार्थज्ञानं कथ्यते। घटत्ववति घटे घटत्वप्रकारकं ज्ञानम् अयं घट इति ज्ञानं यथार्थज्ञानम् । तद्धर्मरहिते यदि तत्प्रकारकं ज्ञानं भवति चेत् तद् अयथार्थज्ञानं कथ्यते। अनयोनियोर्मध्ये यत् यथार्थज्ञानं Page #44 -------------------------------------------------------------------------- ________________ प्रथम विभागः भवति तदेव प्रमाणम्। अनेन प्रकारेण संशयविपर्ययानध्यवसायाः प्रमाणकोटौ नायान्ति । एतेषाम् अयथार्थज्ञानानां व्यवच्छेदाय प्रमाणलक्षणे ज्ञानस्य विशेषणं यथार्थमितिपदं दत्तमस्ति। संशयादयस्त्रयो न भजन्ते याथार्थ्यमिति तेषां प्रामाण्यमपि नेति विज्ञेयम् । ज्ञानस्य यथार्थत्वं तु इदमेवास्ति यत् प्रमेयस्य अन्यथा ग्रहणं विपरीतग्रहणं तेन न भवति। अत्र प्रमाणं लक्ष्यमस्ति यथार्थज्ञानत्वं तु तल्लक्षणम् । प्रसिद्धमनूद्य अप्रसिद्ध विधीयते इति नियमात् प्रसिद्ध प्रमाणमुद्दिश्य यथार्थज्ञानत्वं तत्र विधीयते इति भवति तदेव प्रमाणस्य लक्षणम्। अयथार्थज्ञानस्य कति भेदा इति जिज्ञासायामाह - 11. अयथार्थञ्च विपर्ययसंशयाऽनध्यवसायाः। अयथार्थ. ज्ञान के तीन भेद हैं-विपर्यय, संशय और अनध्यवसाय। न्या. प्र. - विपर्ययः संशयः अनध्यवसायश्चेति अयथार्थज्ञानस्य त्रयो भेदा भवन्ति । तत्र विपर्ययं लक्षयन् आह - 12. अतत्त्वे तत्ताध्यवसायो विपर्ययः। यथा-वाष्पयानारुढस्य अगच्छत्स्वपि वृक्षेषु गच्छत्प्रत्ययः, पदार्थो नित्य एव वा अनित्य एव वा। अतत् में तत् का अध्यवसाय करना विपर्यय है। ___जैसे-वाष्पयान में बैठे व्यक्ति को स्थिर वृक्षों में भी गतिशीलता की प्रतीति होती है, यह विपरीतज्ञान है। पदार्थ Page #45 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका नित्य ही है, अनित्य ही है-ऐसी ऐकान्तिक बुद्धि भी विपरीत ज्ञान है। 13. न्या. प्र. – अतत्त्वे- तद्भिन्नेऽतस्मिन् वस्तुनि तदेवेति अध्यवसायो निश्चयो विपर्ययः। यथा वाष्पयानमारूढो जनः स्थिरेष्वपि वृक्षेषु गतिशीलतां प्रत्येति । इदं विपरीतज्ञानं विपर्यय इति नाम्ना ख्यातम्। अथवा पदार्थो नित्य एव अनित्य एव वा एतादृशी ऐकान्तिकी बुद्धिरपि विपर्ययपदेनोच्यते । एवमेव धातुवैषम्यात् मधुरोऽपि पदार्थो यदि तिक्तवत् प्रतीयेत, किंवा शीघ्रभ्रमणात् अलातचक्रेऽपि चक्रप्रतीतिर्जायेत तदा सर्वमिदं ज्ञानं विपर्ययात्मकमेवेति वेदितव्यम्। इदानीं संशयं लक्षयति - अनिर्णायी विकल्पः संशयः'। यथा-गौरयं गवयो वा। निर्णायी विकल्पस्तु प्रमाणमेव, यथा-पदार्थो नित्यश्च अनित्यश्च। निर्णयशून्य विकल्प का नाम संशय है। जैसे—यह गौ है अथवा गवय? जिस विकल्प में निर्णय होता है, वह प्रमाण है, जैसेपदार्थ नित्य भी है और अनित्य भी है। (जैनदर्शन के अनुसार प्रत्येक पदार्थ अपेक्षा भेद से नित्य भी होता है और अनित्य भी होता है। नित्य और 1. दूरान्धकारप्रमादाद्ययथार्थत्वहेतुसामान्येऽपि विपर्यये एकांशस्य अध्यवसाय:, अनध्यवसायसंशययोस्तु अनेकांशानामनिर्णय इत्यनयोर्विपर्ययाद् भेदः। Page #46 -------------------------------------------------------------------------- ________________ प्रथम विभागः अनित्य इन दो विकल्पों में निर्णायकता होने के कारण यह संशय नहीं है।) न्या. प्र. - अनिर्णायी विकल्पः संशयः निर्णयशून्यो विकल्पः संशयः कथ्यते । दूरात् दृष्टिपथमवतरति पशुविशेषे अयं गौः गवयो वेति अनिश्चयात्मकं ज्ञानमुत्पद्यते। अत्र ज्ञानस्य पर्यवसानं संशय एव तिष्ठति। न च तत्र निर्णयः । यः विकल्पो निर्णयात्मको भवति स तु प्रमाणमेव। यथा पदार्थो नित्यश्च अनित्यश्चेति । एतद्दर्शनानुसारं प्रत्येकं वस्तु विरोधिधर्माणाम् अविरोधि अधिकरणं भवतीति शक्यते वक्तुंपदार्थो नित्यश्च अनित्यश्चेति । अत्र एकस्मिन्नेव पदार्थे नित्यत्वमनित्यत्वञ्च अपेक्षाबुद्ध्या तिष्ठत्येव । वस्तुनः स्वरूपं द्रव्यपर्यायात्मकं भवति । तत्र द्रव्यापेक्षया वस्तु नित्यं भवति, पर्यायापेक्षया च वस्तु अनित्यं भवतीति युक्तमेव एकस्मिन्नेव वस्तुनि नित्यत्वंचानित्यत्वञ्चेति। अत्र नास्ति अनिर्णयात्मकतेति नात्र संशयावकाशः। इदमेव तथ्यं शब्दान्तरेण प्रत्यपादि हेमचन्द्रः। यथोक्तम् अनुभयत्रोभयकोटिस्पर्शी प्रत्ययः संशयः अनुभयस्वभावे अर्थात् एकस्वभावके वस्तुनि यदा उभय कोटिकं ज्ञानं जायते, तदा तत्र एककोटे: साधकं तथा अपर कोटे: बाधकं किमपि प्रमाणं न भवतीति निर्णयाभावात् संशयात्मकमेव ज्ञानं तत् । अन्धकारे दूरात् ऊर्ध्वाकारं वस्तु यदा दृश्यते तदा तत्र जायते प्रत्ययः स्थाणुर्वा पुरुषो वा। न च निर्णय इति संशयात्मकमेवेदं ज्ञानम्। Page #47 -------------------------------------------------------------------------- ________________ १४ भिक्षुन्यायकर्णिका यत्र वस्तुनः उभयरूपं प्रमाणप्रतिपन्नं भवति तत्रोभयकोटिकः संस्पर्शस्तु भवत्येव। न च तत्र संशयः। किन्तु तत्र संशय लक्षणमतिव्याप्तं न भवेदिति सूत्रे अनुभयत्रग्रहणं कृतं वर्तते। उभयस्वभावात्मके वस्तुनि नैव घटते संशयलक्षणम्। यथा अस्ति नास्ति च घटः। अत्रैकस्मिन्नेव घटे अस्तित्वं नास्तित्वञ्चापेक्षया वर्तत एवेति न संशयावकाशः। न्यायदर्शनेतु एतद्भावाभिव्यञ्जकं संशयलक्षणमेवमस्तिएकस्मिन् धर्मिणि विरुद्धनानाधर्मावगाहि ज्ञानं संशयः। एकस्मिन् धर्मिणि वस्तुनि स्थाणौ दूरादन्धकारवशात् तविरुद्धपुरुषत्वप्रकारकमपि ज्ञानं जायते। तत्र स्थाणुत्वप्रकारकबुद्धौ, पुरुषत्वप्रकारकबुद्धौ च एका कोटिः सत्या अपरा च असत्या तिष्ठति। न च तत्र निर्णय इति साधकबाधक प्रमाणाभावात् संशय एवात्र। इदानीमनध्यवसायं लक्षयन् सूत्रयति 14. आभासमात्रमनध्यवसायः। अत्र वस्तुनोऽग्रहणमेवाऽयथार्थत्वम् । वस्तु का आभास मात्र होना अनध्यवसाय है। यहाँ वस्तु के अग्रहण को ही अयथार्थ कहा गया है। 1. नान्यथा ग्रहणमिति नासौ विपर्ययः । नात्र विशेषस्पर्शोऽपीतिसंशयादप्यसौ भिन्नः। 2. किंसज्ञकोऽयं विहङ्गमः, कोऽयं स्पर्शः, इत्यादिषु यदालोचनामात्रमेव ज्ञानं जायते न तु निर्णयात्मकमिति न यथावस्तु अस्ति तथा तद्ग्रहणम् भवति। Page #48 -------------------------------------------------------------------------- ________________ प्रथम विभागः १५ न्या. प्र.-यत्र वस्तुन आभासमात्रं भवेत् तत्र अनध्यवसायः। यथा यत् किञ्चिदेतत् किमेतत् इति ज्ञानं वा अनध्यवसाय एव। अत्र वस्तुनोऽग्रहणमेव भवति नतु ग्रहणम्। यद्यपि दूरता, अन्धकारः प्रमादश्चेति हेतवः संशये विपर्यये च समानरूपेण भवन्ति, तथापि मिथ्याज्ञानात्मके विपर्यये शुक्तौ रजतज्ञाने एकांशे रजतांशे वैपरीत्यं भवति, किन्तु संशये गौरयं गवयो वेत्यत्र उभयांशेऽपि अनिर्णय एव भवति। एवमनध्यवसायेऽपि आभासमात्रत्वात् न कीदृशोऽपि निर्णय इति विपर्यतः उभयोः भेदो ज्ञातव्यः। अनध्यवसाये वस्तुनोऽन्यथा ग्रहणं न भवति तस्मात् नायं विपर्ययः तथा वस्तुनो विशेषस्पर्शाभावान्नायं संशयोऽपि। संशये तु शुक्तौ रजतत्वस्पर्शस्तु भवत्येवेति एषां पार्थक्यं बोध्यम्। बौद्धसिद्धान्ते प्रथमक्षणभावि निर्विकल्पकं प्रत्यक्षप्रमाणत्वेनाभिमतं तथापि विशेषोल्लेखस्त्वत्र नैवभवति, तस्मादिदमनध्यवसाय एवेति। अर्थसिद्धौ ज्ञप्तौ प्रमाणस्य कारणत्वं पूर्वमुक्तम् । तच्च प्रमाणं ज्ञानरूपमेव। तस्य प्रमाणस्य यथार्थता अयथार्थता वा कथं ज्ञातुं शक्यते इति शंकां मनसि निधाय सूत्रमवतारयति - 15. प्रामाण्यनिश्चयः स्वतः परतो वा।। अभ्यासदशादौ प्रामाण्यनिश्चयः स्वतो भवति। अनभ्यासदशादौ प्रमाणान्तरात्-संवादकाद्, बाधकाभावाद् वा। Page #49 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका प्रामाण्य-प्रमाण की यथार्थता का निश्चय स्वतः और परत: दोनों प्रकार से होता है। अभ्यास-परिचय आदि की स्थिति में प्रामाण्य का निश्चय स्वतः होता है और अनभ्यास-अपरिचय आदि की स्थिति में वह प्रमाणान्तर-संवादक-प्रमाण तथा बाधक-प्रमाण के अभाव से होता है। (किसी नए तथ्य के विषय में हमारा ज्ञान होता है तब उसकी यथार्थता की पुष्टि दो हेतुओं से होती है। प्राक् ज्ञान का संवादी या समर्थक ज्ञान मिलता है तो उसकी यथार्थता निश्चित हो जाती है। प्राक् ज्ञान का विरोधी प्रमाण नहीं मिलता उस स्थिति में भी उसकी यथार्थता असंदिग्ध हो जाती है।) न्या. प्र. .- प्रमाण्यनिश्चयः स्वतः परतो वा। प्रमाणं यथार्थज्ञानं भवति। तच्च प्रमाशब्देनाप्युच्यते। यदा यथार्थज्ञानं प्रमाणशब्देन गृह्यते तदा तस्यासाधरणो धर्मः प्रामाण्य-मिति कथ्यते । यदा च यथार्थज्ञानं प्रमा शब्देनोच्यते तदा तस्यासाधारणो धर्मः प्रमात्वमित्युच्यते।। एवमेवायथार्थज्ञानमप्रमाणम् - अप्रमा वोच्यते। अत्र असाधारणो धर्मः अप्रामाण्यम् अप्रमात्वं वा भवतीति वेदितव्यम् । विषयेऽस्मिन् न्यायदर्शनाभिमतमित्थम् - प्रामाण्यस्य अप्रामाण्यस्य च ज्ञानस्य आश्रयभूतं ज्ञानं व्यवसाय इत्युच्यते। तच्च व्यवसायात्मकं ज्ञानम् अनुव्यवसायेन गृह्यते। Page #50 -------------------------------------------------------------------------- ________________ प्रथम विभागः १७ किन्तु तदीयं प्रामाण्यम् अप्रामाण्यं वा अनुमानेन गृह्यते। तत्र सफलप्रवृत्तिजनकत्वहेतुकानुमानेन ज्ञानस्य प्रामाण्यं गृहीतं भवति। विफलप्रवृत्तिजनकत्वहेतुकानुमानेन तु ज्ञानस्याप्रामाण्यं गृह्यते । यथा जलार्थी जनः क्वचित् सर: गतो जलमुपलभ्य पिपासां शमयति तदासौ ब्रवीति-मदीयं जलज्ञानं प्रमाणम् सफलप्रवृत्तिजनकत्वात् । एवमेव निर्जलस्थाने पिपासया जलबुद्ध या गतस्तत्र जलमनुपलभ्य ब्रवीति मदीयं जलज्ञानमप्रमाणं विफल - प्रवृत्तिजनकत्वात्। एवं रीत्या ज्ञानस्य प्रामाण्यं स्यात् अप्रमाण्यं वा स्यात्उभयमप्येतत् उपर्युक्तरीत्या न्यायदर्शनानुसारं परतः एव भवति। परतः इत्यस्येदं तात्पर्य यत् यया सामग्र्या ज्ञानं गृहीतं भवति तद्भिन्नसामग्री यदि प्रामाण्यं ग्राहयति तदा ज्ञानस्य प्रामाण्यं परत इति वक्तुं शक्यते। अत्र नेदं विस्मर्तव्यं यत् न्यायदर्शनानुसारं ज्ञानमनुव्यवसायेन गृह्यते। तदीयं प्रामाण्यं तु अनुमानेन । यथोक्तमुपरि। आचार्यस्तुलसी तु अभ्यासदशादौ प्रामाण्यनिश्चयः स्वतो भवतीति मनुते । अनभ्यासदशादौ तु प्रमाणान्तरात् संवादकात् बाधकाभावाच्चेति परत एव। . अस्यायंभावः - अभ्यासदशादौ स्वकरतलज्ञाने नापेक्षते प्रमाणान्तरं किमपि इति तत्र ज्ञानस्य स्वतः प्रामाण्यम्। परिचितस्य वस्तुनो ज्ञानं स्वप्रामाण्यार्थं कस्यापि अपेक्षां न करोतीति तस्य स्वतः प्रामाण्यं सुस्थिरमेव। Page #51 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका अनभ्यासस्थले अपरिचयस्थितौ वा यद् ज्ञानं जायते तत्तु नव्यतत्त्वविषयकं ज्ञानं स्वपुष्ट्यर्थं प्रमाणान्तरमपेक्षत एव। तत्र तत् सत्यापकं समर्थकं वा प्रमाणान्तरं यधुपलब्धं भवति तदा तस्मिन् पूर्वज्ञाने प्रामाण्यमायाति। एवमेव पूर्वज्ञानस्य बाधकं यदि ज्ञानान्तरं तत्र उपस्थितं न भवति तदापि तद्ज्ञानस्य प्रामाण्यं सुरक्षितमेवतिष्ठति। यथा शुक्तौ रजतज्ञाने उत्तरकालिकं ज्ञानं यदि भवति नेदं रजतमिति तदा अनेन बाधक ज्ञानेन बाधितं पूर्वज्ञानमप्रमाणमेव। रजते रजतत्त्वप्रकारकं ज्ञानं न बाध्यते कदाचित् इति बाधकाभावात् अस्य ज्ञानस्य प्रामाण्यं भवतीति अस्यापि परत एव प्रमाण्यम्। आचार्यों हेमचन्द्रस्तु स्नानपानावगाहनपिपासाद्यर्थक्रियायाः प्रत्यक्षतः साफल्ये जाते तत्र जलज्ञानस्य स्वतः प्रमाण्यमेवेति मन्यते। तत्र स्नानपानादिक्रियाभिः कृती भवति प्रमाता। न पुनः परीक्ष्यते तत्र स्नानपानादिक्रियाः। क्वचिदनभ्यासदशापन्ने प्रत्यक्षेप्रामाण्यं परत एव गृह्यते । अस्य कारणं तु इदमस्ति यत् तत्र यदर्थविषयकं ज्ञानं भवति तस्य अव्यभिचरितत्वं यावन्न निश्चितं भवति तावत्तस्य प्रामाण्यं कथं स्यात् ? तच्चाव्यभिचरितत्त्वं तदा एव ज्ञायते यदा पूर्वज्ञानगृहीतविषयग्राहकं संवादिज्ञानान्तरं भवेत् । एवञ्च संवादकज्ञानान्तराद् पूर्वज्ञानस्य प्रामाण्यम् । अथवा अनभ्यासदशापन्ने प्रत्यक्षे गृहीतो विषयो यदि अर्थक्रियाकारी भवति तदा तस्य प्रामाण्यं वक्तुं शक्यं भवति। अथवा अनभ्यासदशापन्नेन ज्ञानेन गृहीतो विषयोऽर्थो वा यदि तेन Page #52 -------------------------------------------------------------------------- ________________ प्रथम विभागः ज्ञानेन सह नान्तरीयकतां भजेच्चेत् तद्द्द्वारा ज्ञानस्य प्रामाण्यं वक्तुं शक्यं स्यात् । १९ -- इमे च तदेकविषयसंवादकज्ञानान्तरादयश्च स्वतः प्रमाणभूताः । अत एभिः प्रमाण्यनिश्चये नानवस्था- दोषलेशोऽपीति । ज्ञानस्य स्वतः प्रामाण्यस्य परतः प्रामाण्यस्य मूलसूत्रमिदमास्ते यत् - यया सामग्र्या ज्ञानं भवति- उत्पद्यते वा सा एव सामग्री यदि प्रामाण्यमपि ग्राहयति तदा ज्ञानस्य स्वतः प्रामाण्यं वक्तुं शक्यते । ज्ञानग्राहकसामग्रीग्राह्यत्वमेव ज्ञानस्य स्वतः प्रामाण्यं भवति । यदि ज्ञानग्राहक सामग्री भिन्ना, प्रामाण्यग्राहकसामग्री च भिन्ना भवति तत्र ज्ञानस्य परतः प्रामाण्यमिति सुस्थिरः सिद्धान्तः । मीमांसादर्शने ज्ञानस्य स्वतः प्रामाण्यमेव स्वीकृतमास्ते । अस्मिन् दर्शने - प्रभाकरः कुमारिलभट्टः मुरारिमिश्रश्चेति त्रयः आचार्याः सन्ति । तत्र प्रभाकरमते ज्ञानं स्वप्रकाशि अर्थात् स्वयं प्रकाशितं भवति । अत्र ज्ञानस्योत्पादकसामग्री एव ज्ञापिकापि भवतीति स्वतः प्रामाण्यमत्र सुस्थिरं तिष्ठति । कुमारिलभट्टानुसारं तु ज्ञानेन वस्तुन उपरि ज्ञातता उत्पद्यते तत्र ज्ञाततालिंगकेनानुमानेन ज्ञानमनुमीयते प्रामाण्यं च तदीयमवगम्यते । मुरारिमिश्रानुसारं तु ज्ञानस्य ग्राहकोऽनुव्यवसायः । स एव च तदीयप्रामाण्यस्य च ज्ञापकः । रीत्यानया ज्ञानग्राहक सामग्रीग्राह्यत्वरूपं स्वतः प्रामाण्यं मीमांसकमते सुरक्षितं भवति । उक्तंच Page #53 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका स्वतः सर्वप्रमाणानां प्रामाण्यमिति गम्यताम्। न हि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते । श्लो.वा. नैयायिकाश्च-ज्ञानस्य प्रामाण्यम् अप्रामाण्यञ्चेत्युभयं परत एवेति ब्रुवते। प्रमात्वं न स्वतो ग्राह्यं संशयानुपपत्तितः॥ । ज्ञाने जाते तत्र समुत्पद्यते संशयः प्रमाणमिदमप्रमाणं वेति। यदि ज्ञानं स्वत: प्रमाणं भवति तदा तत्र संशयो नैव उदियात् । तस्मात् प्रामाण्यन्तु स्वतो नैव ग्राह्यमिति भावः। तथा चायमत्रसंग्रह:प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः नैयायिकास्ते परतः सौगताश्चरमं स्वतः॥ प्रथमं परतः प्राहुः प्रामाण्यं वेदवादिनः। प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम्॥ सर्वदर्शनसंग्रहः सांख्यमते ज्ञानस्य प्रामाण्यं तथा अप्रामाण्यं द्वयमप्येतत् स्वत एव भवति। न्यायनये तु द्वयमपि एतत् परत एव गृह्यते यथोक्तमुपरि। बौद्धनये तु ज्ञानस्याप्रामाण्यं स्वतः भवति । प्रामाण्यं तु परत एव । मीमांसकमते तु ज्ञानस्य प्रामाण्यं स्वतस्तथा अप्रामाण्यं परत इति वेदनीयम्। इति लक्षणप्रमाणस्वरूपनिर्णयात्मकः प्रथमो विभागः । Page #54 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः प्रथमविभागे प्रमाणस्य लक्षणम्, तस्य प्रामाण्यञ्च कथमित्येतत् सर्वं प्रतिपादितम् । इदानीं तस्य कति भेदा इति प्रतिपादयितुकामः सूत्रमवतारयति - तत् प्रत्यक्षं परोक्षञ्च। अक्षम्-इन्द्रियम्, अक्षो जीवो वा। अक्षं प्रति गतं प्रत्यक्षम्। अक्षेभ्योऽक्षाद् वा परतो वर्तते इति परोक्षम्। यथार्थत्वावच्छिन्ना यावन्तो ज्ञानप्रकारास्तावन्त एव प्रमाणस्य भेदाः। प्राधान्येन तद् द्विभेदम्। प्रमाण के दो प्रकार हैं- प्रत्यक्ष और परोक्ष। 1. बाह्यर्थग्रहणापेक्षया ज्ञानस्य प्रत्यक्षता परोक्षता च, स्वरूपापेक्षया तु सर्वमपि प्रत्यक्षमेव। 2. परशब्दसमानार्थकेन पर:शब्देन परोक्षमिति सेत्स्यति। 3. चार्वाकोऽध्यक्षमेकं सुगतकणभुजौ सानुमानं सशाब्द, तद्वैतं पारमर्षः सहितमुपमया तत्त्रयं चाक्षपादः ।। अर्थापत्त्या प्रभाकृत् वदति च निखिलं मन्यते भट्ट एतत्, साभावं द्वे प्रमाणे जिनपतिसमये स्पष्टतोऽस्पष्टतश्च ॥ Page #55 -------------------------------------------------------------------------- ________________ २२ भिक्षुन्यायकर्णिका अक्ष शब्द इन्द्रिय और जीव दोनों का वाचक है। अक्ष- प्रतिगत अर्थात् इन्द्रिय और आत्मा द्वारा होने वाला ज्ञान प्रत्यक्ष है। जो ज्ञान साक्षात् इन्द्रिय और आत्मा से नहीं होता, परोक्ष कहलाता है । वह यथार्थ संयुक्त ज्ञान के जितने प्रकार हैं, प्रमाण के भी उतने ही प्रकार हैं। पर प्रधान रूप से उसके दो भेद हैंप्रत्यक्ष और परोक्ष । न्या. प्र. - प्रमाणं द्विविधं भवति — प्रत्यक्षमेकं परोक्षञ्चापरम् । प्रत्यक्षशब्दघटकस्यअक्ष शब्दस्य द्वावर्थौ स्तः । अक्षम् इन्द्रियम्, अक्षः जीवो वा । तत्र यदा अक्षशब्द इन्द्रिय वाचकः तदा अक्षं प्रतिगतम् - प्रत्यक्षम् " अत्यादयः क्रान्ताद्यर्थे द्वितीययेति समासः ।" अक्षशब्दस्य जीवपरत्वेऽपि एवमेव समासः । अत्र गत इतिपदस्यार्थो जातः, उत्पन्नो वेति बोध्यम् । एवञ्च इन्द्रियेण आत्मना च यद् ज्ञानं जायतेउत्पद्यते वा तदेव प्रत्यक्षम् । यद् ज्ञानम् अक्षेभ्यः इन्द्रियेभ्यः अक्षात् आत्मनो वा परतो भवति अर्थात् साक्षात् इन्द्रियेभ्यः आत्मनो वा न भवति तद्ज्ञानं परोक्षमित्युच्यते । इदमत्रावधेयम् — ज्ञानसाधनमिन्द्रियमिति लोकप्रसिद्धम् । पञ्च ज्ञानेन्द्रियाणि शब्दस्पर्शरूपरसगन्धग्राहकाणि प्रथितानि । तत्रेन्द्रियाणां ज्ञानोत्पत्तौ तु आत्मनोऽपेक्षा भवति, यतो हि जडानि इन्द्रियाणि ज्ञानोत्पत्तौ कथं समर्थानि भवेयुः ? चेतनस्यात्मनः Page #56 -------------------------------------------------------------------------- ________________ २३ सम्पर्कात् ज्ञानं जनयन्ति इन्द्रियाणि । तत्र च मनसः साहचर्यमप्यपेक्षितं भवति । अतएवोच्यते इन्द्रियमनोनिमित्तं सांव्यवहारिकं प्रत्यक्षमिति । द्वितीयो विभाग: इन्द्रियमनोनिरपेक्षेणात्मना जायमानं सर्वज्ञानप्रधानं मुख्यं केवल ज्ञानात्मकं प्रत्यक्षमिति प्रसिद्धं जैनसमये । यद्ज्ञानमक्षेभ्यः इन्द्रियेभ्यः तथा अक्षात् आत्मनो वा परतो भवति तत् परोक्षमित्युच्यते । यथा— अनुमित्यात्मकं ज्ञानमविनाभाविना लिङ्गेन भवति । उपमित्यात्मकं ज्ञानं तु सादृश्येन जायते । शाब्दज्ञानं च शब्दद्वारा भवति । नात्रेन्द्रियाणामन्यस्य कस्यापि साधनस्य वा अपेक्षा भवतीति एषां परोक्षत्वं स्पष्टमेव । यथार्थज्ञानमेवप्रमाणमित्युक्तं प्राक् । तत्र यथार्थत्वावच्छिन्ना यावन्त: सन्ति ज्ञानप्रकारास्तावन्त एव प्रमाणस्य भेदा अपि भवन्ति, तथापि प्राधान्येन प्रमाणस्योपर्युक्तौ द्वा एव भेदौ प्रथितौ । यद्यपि स्वरूपावबोधकत्वेन सर्वमेवज्ञानं प्रत्यक्षमेवेति वक्तुं शक्यते तथापि बाह्यार्थपरिच्छेदापेक्षया ज्ञानस्य प्रत्यक्षता परोक्षता च भवतीति विज्ञेयम् । अत्र स्वरूपावबोधशब्देन ज्ञानस्य स्वप्रकाशकत्वं बोध्यम् । अत्रायं विशेष: - प्रत्यक्षशब्दस्य व्युत्पत्तौ अक्षशब्दस्यार्थः इन्द्रियमिति मन्यन्ते वैदिका बौद्धाश्च । अक्षशब्दार्थः आत्मा इति न स्वीकृतमत्र | अतः वैदिकपरम्परायां बौद्धपरम्परायाञ्च इन्द्रियाश्रितमेव ज्ञानं प्रत्यक्षमिति फलितं भवति । इदमिन्द्रियाश्रितं ज्ञानं प्रत्यक्षम् ईश्वरीयज्ञाने उपचरितमिति मन्तव्यम् । - Page #57 -------------------------------------------------------------------------- ________________ २४ 2. भिक्षुन्यायकर्णिका ईश्वरीयज्ञाने इन्द्रियाणामनावश्यकत्वेनारोपितमेव तत्र तदितिभावः । जैन सम्प्रदाये तु अक्षशब्दः आत्मवाचकोऽपि स्वीकृतः । अतः अत्र मते इन्द्रियनिरपेक्षं तथा केवलमात्माश्रितमेवज्ञानं प्रत्यक्षमित्युच्यते । इन्द्रियाश्रितं ज्ञानं तु वस्तुतः परोक्षमेव । अक्षपदस्येन्द्रियपरं व्याख्यानं तु अत्र अन्यदर्शनानुसारमेवेति ज्ञेयम् । इदानीं स्वाभिमतं प्रत्यक्षप्रमाणं लक्षयन् सूत्रयति साहाय्यनिरपेक्षं प्रत्यक्षम् यस्मिन् प्रमाणान्तराणां पौद्गलिकेन्द्रियाणाञ्च साहाय्यं नापेक्षणीयं तत् स्पष्टत्वात्, अव्यवहितात्ममात्रापेक्षत्वाच्च प्रत्यक्षम् । सहायता - निरपेक्ष ज्ञान को प्रत्यक्ष ज्ञान कहा जाता है। जिस ज्ञान में दूसरे प्रमाणों तथा पौद्गलिक इन्द्रियों के सहयोग की अपेक्षा नहीं रहती वह ज्ञान स्पष्ट, अव्यवहित और आत्ममात्रापेक्ष होने के कारण प्रत्यक्ष कहलाता है। न्या. प्र. - यस्मिन् ज्ञाने कस्यापि साहाय्यं नापेक्ष्यते तद् ज्ञानमेव प्रत्यक्षम् । प्रमाणान्तराणां तथा पौद्गलिकेन्द्रियाणाञ्च यत्र सहयोगोऽपेक्षितो न भवेत् तद् स्पष्टम् अव्यवहितञ्च आत्ममात्रापेक्षं ज्ञानं प्रत्यक्षम् । ज्ञानस्यात्ममात्रापेक्षत्वं हि ज्ञानस्य स्पष्टत्वे अव्यवहितत्वे च हेतुरितिबोध्यम् । यद्यपि दर्शनान्तरेषु Page #58 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः 3. इन्द्रियजन्यं ज्ञानमेव प्रत्यक्षं मन्यते । यथा न्यायदर्शनेइन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षमित्युक्तम् । किन्तु परिमितप्रदेशस्थमतिस्थूलपदार्थ मेव बोधयन्ति इन्द्रियाणि । इन्द्रियाणि भवन्ति परतन्त्राणि । जायतां नाम बोधस्तेभ्यः सम्यक् तथाप्यात्मनोऽपेक्षया तु व्यवहितमेवज्ञानं जायते तेभ्यः । एवञ्च परतन्त्रेन्द्रियजनितज्ञानापेक्षया स्वतन्त्रात्मनोजातं ज्ञानमेव प्रत्यक्षमिति वेदनीयम्। एवञ्च अवधिमन: पर्यायकेवलात्मकं ज्ञानत्रयमेव प्रत्यक्षपदेन ग्राह्यम् । मतिज्ञानं श्रुतज्ञानं च अत्र परोक्षप्रमाणान्तर्गतमेवेति बोध्यम् । अथ केवलज्ञानं लक्षयति २५ तच्च चेतनस्य निरावरणस्वरूपं केवलम् । निखिलद्रव्यपर्यायसाक्षात्कारित्वात् केवलज्ञानं पूर्णं प्रत्यक्षम् । निरावरणत्वञ्च ज्ञानावरणविलयेन । वह प्रत्यक्ष ज्ञान आत्मा का निरावरणस्वरूप केवलज्ञान है । सब द्रव्यों और सब पर्यायों का साक्षात्कारी होने के कारण केवलज्ञान पूर्ण प्रत्यक्ष है। उसकी निरावरणता ज्ञानावरण के विलय से होती है। न्या. प्र. - आत्मा च कर्मभिरावृत्तो भवति । कर्माणि च भवन्ति विविधानि । तत्र कानिचित् कर्माणि ज्ञानमावृण्वन्ति । एतादृशानि कर्माणि ज्ञानावरणीयकर्माणीति उच्यन्ते । सत्सु ज्ञानावरणीयकर्मसु आत्मनः स्वरूपं निरावरणं नैव भवति । यदा तप: साधनादिभिः समेषां कर्मणां ज्ञानावरणादीनां विलयो Page #59 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका भवति तदा विशुद्धेनात्मना निरावरणस्वरूपेण निखिलद्रव्याणां तत्पर्यायाणां च साक्षात्कारो जायते। इदं पूर्ण प्रत्यक्षमेव केवलज्ञानमित्युच्यते। ज्ञानावरणानां समेषां विलयो जायतेऽत्रेति समस्तद्रव्यपर्यायाणामवबोधो जायतेऽत्र। समस्तद्रव्यपर्यायविषयत्वात् ज्ञानमिदं पूर्ण प्रत्यक्षमिति प्रोच्यते तत्त्वविद्भिः। प्रत्यक्षप्रमाणस्य(ज्ञानस्य) अपरावपि द्वौ भेदौ स्त: अवधिमन:पर्यायौ च। तावनुलक्षयन् सूत्रे निबध्नाति अपूर्णमवधिमनःपर्यायौ। आवरणसद्भावाद् एतौ अपूर्णप्रत्यक्षं भवतः । अवधिज्ञान और मनःपर्यायज्ञान अपूर्ण प्रत्यक्ष हैं। इनकी अपूर्ण प्रत्यक्षता का कारण है- आवरण का सद्भाव। न्या. प्र.- अवधिज्ञानं मन:पर्यायज्ञानञ्च अपूर्णमेव भवति। अनयोरपूर्णप्रत्यक्षतायाः कारणमस्ति आवरणसद्भावः। आत्मनः उपरि यत् कर्मण आवरणं भवति तस्य सर्वथा विलये केवलज्ञानं भवति। तस्यावरणविलयस्य तारतम्येआवरणक्षयोपशमविशेषे च तन्निमित्तकमवधिज्ञानं मनःपर्याय ज्ञानं च भवति । इदमपि ज्ञानद्वयमिन्द्रियानपेक्षमेवभवतीति मुख्यमेव ज्ञानद्वयमिदम् । तत्रावधिज्ञानस्य विषयोभवति रूपि द्रव्यम्। मनसो द्रव्यरूपस्य चिन्तनानुगुणाः ये परिणामभेदा भवन्ति तद्विषयं ज्ञानं मनःपर्यायः। अनयोर्मध्येऽवधिज्ञानं प्रस्तौति साम्प्रतम् - Page #60 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः 5. रूपिद्रव्यसाक्षात्करणमवधिः । द्रव्य-क्षेत्र - काल- भावादिविविधमर्यादाबद्धत्वात् अवधिः । अनुगामि- अननुगामि-वर्धमान हीयमान- प्रतिपातिअप्रतिपाति भेदात् षोढा । रूपी द्रव्य का साक्षात् करने वाला अवधिज्ञान है । द्रव्य क्षेत्र, काल, भाव आदि की विविध मर्यादाओं से बंधा होने के कारण इस ज्ञान को अवधि कहा जाता है। इसके छह प्रकार हैं : 1. अनुगमी - जो साथ - साथ चलता है । 2. अननुगामी - जो साथ-साथ नहीं चलता । 3. वर्धमान - जो क्रमशः बढ़ता है । 4. हीयमान - जो क्रमशः हीन होता है । 5. प्रतिपाति- जो प्राप्त होने के बाद वापस चला जाता है । २७ 6. अप्रतिपाति — जो प्राप्त होने के बाद वापस नहीं जाता है । न्या. प्र. - येन ज्ञानेन रूपिद्रव्यस्य साक्षात्कारो भवति तत् अवधिज्ञामेव । इदं ज्ञानं द्रव्यक्षेत्रकालभावादीनां विविधमर्यादाभिर्बद्धं परिच्छिन्नं भवति । अत एवेदं ज्ञानमवधिज्ञानं कथ्यते । अस्य ज्ञानस्य विविधमर्यादाबद्धता च मन: पर्यायज्ञानविवेचनावसरे स्फुटा भविष्यति । इदमवधिज्ञानं षट्प्रकारकं भवति । ते च प्रकारा इत्थम् - Page #61 -------------------------------------------------------------------------- ________________ २८ भिक्षुन्यायकर्णिका १. अनुगामी २. अननुगामी ३. वर्धमानः ४. हीयमानः ५. प्रतिपाती ६. अप्रतिपाती एषां षण्णां प्रकाराणां विस्तृतं विवेचनम्१. एषु अनुगामिनोऽवधिज्ञानस्य अन्तगतं मध्यगतञ्चेति द्वौ भेदौ। तत्रान्तगतस्य-पुरतः अन्तगतम्, पृष्ठत: अन्तगतम्, पार्श्वतः अन्तगतमिति त्रयो भेदाः। यथा कश्चनपुरुषः प्रदीपं पुरः कृत्वा प्रचलति चेत् तत्र दीपः पुरोभागं प्रकाशयति। तथैव यद् ज्ञानं पुरोवर्तिनः पदार्थान् प्रकाशयति तत् पुरतः अन्तगतमित्युच्यते। पृष्ठतः अन्तगतन्तु तत्र भवति- यथा कश्चन पुरुषः प्रदीपं पृष्ठभागे कृत्वा चलति, तत्र यथा प्रदीपादयः पृष्ठभागं प्रकाशयन्ति तथैव यद् ज्ञानं पृष्ठवर्तिनः पदार्थान् प्रकाशयति तत् पृष्ठतोऽन्तगतमिति कथ्यते। पावतः अन्तगतं तु तथा भवति यथा कश्चन पुरुषः प्रदीपं वामभागे दक्षिणभागे वा कृत्वा चलति, तदा तत्र प्रदीपादिभिः पार्श्वभाग एव प्रकाशितो भवति । एवमेव यद्ज्ञानं पार्श्ववर्तिनः पदार्थान् प्रकाशयति तद् ज्ञानं पार्श्वतः अन्तगतमित्युच्यते। मध्यगतं तु तत्र भवति- यथा कश्चन पुरुषः प्रदीपादिकं Page #62 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः मस्तके धृत्वा प्रचलति चेत् तत्र प्रदीपादिभिः चतुर्दिग्वर्तिनः पदार्थाः प्रकाश्यन्ते तथैव यद् ज्ञानं चतुर्दिक्वर्तिनः पदार्थान् प्रकाशयेत् तत् मध्यगतमवधिज्ञानमितिवेदनीयम्। एभिमा॑नः स्वकीयनाम्नोऽनुसारं पुरोवर्तिनः पृष्ठतोवर्तिनः पार्वतोवर्तिनो मध्यवर्तिनश्च संख्येया असंख्येयाश्च पदार्थाः प्रकाश्यन्ते। २. अननुगामिनोऽवधिज्ञानस्य किं स्वरूपमिति जिज्ञासाया मुमुच्यते यत्- यथा कश्चन पुरुषः एकं महत् ज्योतिः कुण्डं निर्माय तत् पार्श्वत: परिक्रमते पश्यति च तदेव ज्योतिः स्थानम्। अन्यत्र गतश्च नावलोकते तत्। अनेनैव प्रकारेण अननुगामि अवधिज्ञानं यस्मिन् क्षेत्रे उत्पद्यते तेनैव क्षेत्रेण सम्बद्धमसम्बद्धं वा संख्येयमसंख्येयं वा योजनपर्यन्तं जानाति पश्यति च । परिवर्तिते क्षेत्रे न पश्यति। ३. वर्धमानमवधिज्ञानम्- इदमवधिज्ञानं तस्यैव पुरुषस्य भवति यः प्रशस्ते अध्यवसाये चरित्रे च वर्तमानः स्यात् । तदीयं चरित्रञ्चापि विशुद्धतरं भवेत्। तस्यैवावधिज्ञानं परितो वर्धमानं भवति। ४. हीयमानमवधिज्ञानम्- यः पुरुषः अप्रशस्तेऽध्यवसाये चरित्रे च वर्तते । यश्च स्वयं संक्लिश्यमानः संक्लिश्यमानचरित्रे च वर्तते तदीयमवधिज्ञानं सर्वतः क्षीयते । इदं क्षीयमाणमवधिज्ञानमेवोच्यते हीयमानमवधिज्ञानमिति । ५. प्रतिपाति अवधिज्ञानम् इदमवधिज्ञानं जघन्यांगुलस्य Page #63 -------------------------------------------------------------------------- ________________ ३० भिक्षुन्यायकर्णिका संख्येयासंख्येयभागादारभ्य उत्कृष्टं सर्वलोकं समवलोक्य प्रतिपतितं भवति अर्थात् विगतं भवति। ६. अप्रतिपाति अवधिज्ञानम् इदमवधिज्ञानमलोकाकाशस्य एकमाकाशप्रदेशं द्रष्टुं अथवा ततोऽप्यधिकं द्रष्टं क्षमते। इदम् अवधिज्ञानं समासत: चतुर्विधं समाख्यातं वर्तते । तच्च द्रव्यतः क्षेत्रतः कालतः भावतश्च। द्रव्यदृष्ट्या अवधिज्ञानं क्षोदीयांसि अनन्तरूपिद्रव्याणि आनाति पश्यति। उत्कृष्टतश्च सर्वाणि उत्कृष्टद्रव्याणि जानाति पश्यति वा। क्षेत्रदृष्टया अवधिज्ञानी पुरुषः जघन्यस्यातिक्षुद्रपदार्थस्य असंख्यातं भागं जानाति पश्यति वा। उत्कृष्टतस्तु लोकप्रमाणमसंख्यातखण्डं जानाति पश्यति वा। कालदृष्ट्या-अवधिज्ञानी आवलिकायाः (अतिसूक्ष्मका -लस्य) असंख्याततमं भागं जानाति पश्यति वा। उत्कृष्टतस्तु-असंख्येयम् अवसर्पिण्युत्सर्पिणीप्रमाणम् अतीतम् भविष्यञ्च कालं जानाति पश्यति वा। भावदृष्टया तु अवधिज्ञानी जघन्यतः अनन्तपर्यायान् तथा उत्कृष्टतोऽपि असौ अनन्तपर्यायान् तथा तेषामनन्तभागान् जानाति पश्यति च। अनया रीत्येदं ज्ञानमुत्कृष्टमिति वक्तुं शक्यते। मनःपर्यावज्ञानं लक्षयन् सूत्रमवतारयति Page #64 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः 32 6. मनोद्रव्यपर्यायसाक्षात्कारि मनःपर्यायः। मनोद्रव्य के पर्यायों का साक्षात् करने वाला ज्ञान मनः पर्याय ज्ञान है। न्या. प्र.- द्रव्यरूपस्य मनसो ये पर्यायाः चिन्तनानुगुणाः परिणामभेदाः अर्थात् मनसः विभिन्नाः परिणतयः तद्विषयकं ज्ञानं मनःपर्यायज्ञानम्। अर्थात् येन ज्ञानेन कस्यचित् पुरुषस्य मनसो विभिन्नाः पर्याया ज्ञायन्ते तत् ज्ञानं मनःपर्यायज्ञानमित्युच्यते। अस्मिन् विषये मतद्वयमस्ति । प्रथमन्तु-मनःपर्यायज्ञानं परकीयमनसा चिन्त्यमानान् अर्थान् जानाति। द्वितीयमतानुसारम्-मन:पर्यायज्ञानं चिन्तने व्याप्तस्य मनसो द्रव्यस्य पर्यायान् साक्षात् जानाति। तैश्चिन्तिता: पदार्थाश्च (क)अनेन पौद्गलिकमनसः पर्यायाणां साक्षात्कारो भवति, न तु भावमनसः, अमूर्तत्वात् तेषाम्। (ख) विशुद्धिक्षेत्रस्वामिविषयभेदादवधिमन: पर्याययोर्भेदः विशुद्धिकृतो भेद :- यानि हि मनोद्रव्याणि अवधिज्ञानी जानीते, तानि मन:पर्यायज्ञानी विशुद्धतराणि जानीते। क्षेत्रकृतो भेद :- अवधिज्ञानमंगुलस्याऽसंख्येयभागादिषु भवति आसर्वलोकात्, मन:पर्यायो मनुष्यक्षेत्र एव। स्वामिकृतो भेद :- अवधि: संयतस्याऽसंयतस्य संयतासंयतस्य च भवति मन:पर्यायस्तु संयतमनुष्यस्यैव। विषयकृतो भेद :- रूपवद्रव्येष्वसर्वपर्यायेष्ववधेविषयः, तदनन्तभागे मन:पर्यायस्य। Page #65 -------------------------------------------------------------------------- ________________ ३२ भिक्षुन्यायकर्णिका पश्चात् अनुमानेन ज्ञायन्ते। यथा कश्चन जलार्थी मनसा जलं चिन्तयति, मन:पर्यायज्ञानी च तच्चिन्तनं स्वकीयमनः पर्यायज्ञानेन ज्ञातवान्। पश्चाच्च जलानयनप्रवृत्तं तं दृष्ट्वा अनुमिनोति-अयं पुरुषो जलं चिन्तयामास इदानीं तदानयनात्। स्यात् कथञ्चित् मतद्वयं परन्तु मन:पर्यायज्ञानस्थले पुरुषद्वयेन अवश्यमेव भाव्यम्। एकस्य मनसि पदार्थाःचिन्त्यमाना भवेयुः पदार्थविषयकाः पर्याया वा समुत्पद्येरन् । अपरस्तु पुरुषः परपुरुषस्य मनसि उत्पन्नान् पदार्थान्-तत् पर्यायान् वा जानीयात्। अत्र आचार्यस्तुलसी तु मनःपर्यायज्ञानेन पौद्गलिकमनसः पर्यायाणां साक्षात्कारो भवतीत्येव मनुते। अमूर्तस्य भावमनसः पर्यायाणां साक्षात्कारो नात्राभिमतः। आचार्यो हेमचन्द्रोऽपि चिन्तनानुगुणान् पर्यायानेव मनःपर्यायज्ञानविषयान् मनुते। अत्र एवमाशंक्यते- यथा क्षायो पशमिकत्वं भवति मन:पर्यायज्ञाने तथैव अवधिज्ञानेऽपि भवति । एवञ्चानयोर्ज्ञानयोः किं पार्थक्यमित्युच्यते-विशुद्धिक्षेत्रस्वामि विषयभेदादनयोर्भेदः। तद्यथा१. अवधिज्ञानी यानि मनोद्रव्याणि जानीते तान्येव मनोद्रव्याणि मनःपर्यायज्ञानी विशुद्धतराणि जानीते। २. अवधिज्ञानमंगुलस्यासंख्येयभागादिषु भवति आसर्व लोकात्। मनःपर्यायज्ञानं तु मनुष्यक्षेत्र एव भवति। ३. अवधिज्ञानं संयतस्य असंयतस्य संयतासंयतस्य च भवति, किन्तु मनःपर्यायज्ञानं तु संयतमनुष्यस्यैव भवति प्रकृष्टचरित्रस्य च। Page #66 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः ४. अवधिज्ञानस्य विषयः रूपिद्रव्यं तस्य अपूर्णाः पर्यायाश्च भवन्ति । मनःपर्यायज्ञानस्य विषयस्तु अवधिज्ञानविषयस्यानन्ततमो भागः भवति। अनेन प्रकारेण द्वयोनियो |दो ज्ञातव्यः। प्रत्यक्षप्रमाणं द्विविधं भवति मुख्यं सांव्यावहारिकञ्च । तत्र मुख्यस्य त्रयोभेदा भवन्ति- केवलज्ञानम्, अवधिज्ञानम्, मनःपर्यायज्ञानञ्च । इदं ज्ञानत्रयं व्याख्याय सम्प्रति सांव्यावहारिकं प्रत्यक्षं विभजन् सूत्रयति अवग्रहहावायधारणात्मकं सांव्यवहारिकम्। एतद् इन्द्रियमनः सापेक्षत्वेन आत्मनो व्यवहितत्वात् परमार्थतः परोक्षमपि' स्पष्टत्वात् व्यवहारे प्रत्यक्षं भवति । अवग्रह, ईहा, अवाय और धारण को सांव्यवहारिक प्रत्यक्ष कहा जाता है। अवग्रह, ईहा, अवाय और धारणात्मक ज्ञान में इन्द्रिय और मन की अपेक्षा रहती है तथा आत्मा से व्यवहित होने के कारण निश्चय दृष्टि से वह परोक्ष ही है। किन्तु स्पष्ट होने के कारण व्यवहार में वह प्रत्यक्ष कहलाता है। न्या. प्र.- व्यवहारजगति प्रामुख्येनोपयुज्यमानं प्रत्यक्ष सांव्यावहारिकं प्रत्यक्षमुच्यते । अवग्रहादयश्चत्वारोऽस्य भेदा 1. इन्द्रियमन:साहाय्येन जायमानं ज्ञानमात्मनो व्यवहितं भवतीति आत्मपरोक्षं कथ्यते। इन्द्रियमानसेभ्योऽव्यवहितमिति संज्ञायत इन्द्रिय-प्रत्यक्षं मानस-प्रत्यक्षञ्च ॥ 2. एतत् सांव्यवहारिकं प्रत्यक्षं अस्मदादिप्रत्यक्षमिन्द्रियमनः प्रत्यक्षमपि कथ्यते। Page #67 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका भवन्ति। एषु चतुर्षु ज्ञानेषु इन्द्रियस्य मनसश्चापेक्षा भवति। किञ्च ज्ञानमिदम् आत्मनो व्यवहितं भवति। प्रकारेणानेन निश्चयदृष्टया ज्ञानमेतत् परोक्षमेवेति वक्तुं शक्यते तथापि स्पष्टत्वात् व्यवहारे प्रत्यक्षमेव कथ्यते तत्। इन्द्रियमनसोः सहयोगेन जायमानमिदं ज्ञानम् आत्मनो व्यवहितमिति आत्मपरोक्षपदेनापि अभिलप्यते इदं तथापि इन्द्रियमनोभ्यामव्यवहितत्वेन हेतुना अस्य ज्ञानस्य इन्द्रियप्रत्यक्षं मानसप्रत्यक्षं वेति संज्ञापि क्रियते। अनेन प्रकारेण इदं प्रत्यक्षं सांव्यवहारिकप्रत्यक्षम्, अस्मदादिप्रत्यक्षं तथा इन्द्रियमनः प्रत्यक्षज्ञानपदेनापि कथ्यते। एतत् सांव्यवहारिकं प्रत्यक्षम् अवग्रहेहावायधारणात्मक भेदभिन्नं चतुष्प्रकारकं भवति । तत्रावग्रहं लक्षयन् सूत्रयति 8. इन्द्रियार्थयोगे दर्शनानन्तरं सामान्यग्रहणमवग्रहः । इन्द्रियार्थयोरुचितदेशाद्यवस्थानरूपे योगे सति दर्शनम्अनुल्लिखितविशेषस्य सन्मात्रस्य प्रतिपत्तिः, तदनन्तरम् अनिर्देश्य सामान्यस्य (वस्तुनः) ग्रहणमवग्रहः । दर्शनानन्तरम् इति क्रमप्रतिपादनार्थम्। एतेन दर्शनस्यावग्रहं प्रति परिणामिता ज्ञेया। इन्द्रिय और पदार्थ का योग होने पर दर्शन के पश्चात् जो सामान्य का ग्रहण होता है, उसे अवग्रह कहते हैं। . __इन्द्रिय और अर्थ का उचित देश आदि में अवस्थानात्मक योग होने पर दर्शन अर्थात् विशेष के उल्लेख से रहित सत्तामात्र का ग्रहण होता है। उसके पश्चात् जिसका Page #68 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः निर्देशन किया जा सके वैसा वस्तु का सामान्य अवबोध होता है, वही अवग्रह है। दर्शन के पश्चात् अवग्रह का निरूपण क्रम-प्रतिपादन के लिए है। इससे जाना जाता है कि दर्शन ही अवग्रह रूप में परिणत होता है। न्या. प्र.- इदमत्रावधेयं यत् प्रत्येकं वस्तु सामान्य विशेषात्मकं भवति । यथा 'घटः' इत्युक्ते सति सर्वेषां घटानां रक्तपीतादीनां बोधो जायत इति इदं सामान्यरूपेण वस्तुनो ग्रहणम्। समेषां घटानां सहैव बोधे तत्र वर्तमानं घटत्वरूपं सामान्यं (जातिर्वा) कारणं भवति। तत्रैव यदि उच्यते पीतो घट: रक्तो घट: तदा विशेषस्य घटस्य बोधो जायते। अयं सामान्यविशेषभाव: एकस्मिन्नपि घटे वक्तुं शक्यते। घटो भवति घटत्वविशिष्टः । इदञ्च घटत्वं प्रत्येकं घटे वर्तत इति प्रत्येकं वस्तु सामान्यात्मकम्। जात्या युक्ता व्यक्तिर्विशेषात्मिका भवत्येवेति प्रत्येकं वस्तु सामान्यविशेषात्मकमिति कथनं साधु एव। इदं तथ्यं मनसि निधायैव प्रस्तुतसूत्रं व्याख्यायते- इन्द्रियं द्रव्यभावात्मकं चक्षुरादि, अर्थ: द्रव्यपर्यायात्मकं वस्तु तयो योगः संबंधः उचितदेशाधवस्थानरूपः तस्मिन् योगे सति यद् दर्शनम्-अनुल्लिखितविशेषस्य वस्तुनः प्रतिपत्तिः, सत्तामात्रविषयकं ज्ञानम् अर्थात् निराकारज्ञानं यत् जायते तद् दर्शनमित्युच्यते। अस्मिन् ज्ञाने विशेषस्योल्लेखो नैव भवति । एतादृशज्ञानादनन्तरमेकं तादृशं ज्ञानं समुत्पद्यते यत्र वस्तुनः सामान्यावबोधो भवति यस्यनिर्देश:कर्तुं न शक्यते तत् ज्ञानमवग्रह इति कथ्यते। सूत्रे यद् दर्शनानन्तरमित्युक्तं तस्येदं तात्पर्य यत् अत्र क्रमप्रति Page #69 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका पादनमभीष्टमस्तिमर्थात् पूर्वं दर्शनं ततः सामान्यग्रहणात्मकमवग्रहः। एतेन प्रतीयते यत् दर्शनमेव अवग्रहरूपे परिणतं भवति। इदानीमवग्रहस्य भेदद्वयं सूत्रद्वारा प्रस्तौतिव्यञ्जनार्थयोः। व्यञ्जनेन-इन्द्रियार्थसंबन्धरूपेण व्यञ्जनस्य- शब्दादेरर्थस्य ग्रहणम्-अव्यक्तः परिच्छेदः व्यञ्जनावग्रहः । ततो मनाग व्यक्तं जातिद्रव्यगुणकल्पनारहितमर्थग्रहणमर्थावग्रहः', यथा एतत् किञ्चिद् अस्ति। अवग्रह के दो भेद हैं- व्यञ्जनावग्रह और अर्थावग्रह। इन्द्रिय और अर्थ का सम्बन्ध अभिव्यक्ति का हेतु है, इसलिए उसे व्यञ्जन कहा जाता है। शब्द आदि अर्थ जो अभिव्यक्त होते हैं, वे भी व्यञ्जन कहलाते हैं। व्यञ्जन के द्वारा व्यञ्जन के ग्रहण-अव्यक्त ज्ञान को व्यञ्जनावग्रह कहा जाता है। व्यञ्जनावग्रह की अपेक्षा कुछ व्यक्त, किन्तु जाति, द्रव्य, गुण आदि की कल्पना से रहित जो अर्थ का ग्रहण होता है वह अर्थावग्रह है, जैसे- यह कुछ है। 1. व्यञ्जनेन व्यञ्जनस्य अवग्रह:-व्यञ्जनावग्रहः। अत्र मध्यमपदलोपी समासः । अयमान्तमौहूर्तिकः। 2. एकसामयिकः। 3. अनध्यवसायो न निर्णयोन्मुख इति न प्रमाणम्। अवग्रहस्तु निर्णयोन्मुख इति प्रामाण्यमस्य। Page #70 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः ३७ न्या. प्र.- अवग्रहस्य द्वौ भेदौ भवतः व्यञ्जनावग्रहोऽर्थावग्रहश्च। इदमत्रावधेयं यत् इन्द्रियार्थयोः संबन्ध: अभिव्यक्तिहेतुर्भवति। अत एवासौ व्यञ्जनमित्युच्यते। शब्दादयोऽर्था येऽभिव्यक्ता भवन्ति तेऽपि व्यञ्जनपदेनाभिधीयन्ते । तथा चायं सूत्रार्थव्यञ्जनेन- इन्द्रियार्थसंबन्धरूपेण व्यञ्जनस्य शब्दादेरर्थस्य यद् ग्रहणम्-अव्यक्तः परिच्छेदः अव्यक्तज्ञानं भवति तदुच्यते व्यञ्जनावग्रहः। तदनन्तरं किञ्चिद् व्यक्तं व्यञ्जनावग्रहापेक्षयेतिभावः जायते एकं ज्ञानं यत्र जाते: द्रव्यस्य गुणस्य वा कल्पना न भवति तादृशज्ञानेन यदर्थग्रहणं तदेव अर्थावग्रहः। यथा एतत् किञ्चिद् अस्तीति। अस्य तात्पर्यमिदं यत् व्यञ्जनावग्रहे यद् वस्तु सर्वथा अव्यक्तं भवति तदेव वस्तु अर्थावग्रहे किञ्चिद् व्यक्तं भवति । किन्तु वस्तुनो जाते: द्रव्यस्य गुणस्य वा कल्पना नैव भवति। न्यायदर्शने एतदेव ज्ञानं निष्प्रकारकं ज्ञानमित्युच्यते। अस्मिन् न कश्चन प्रकार:विशेषणं न वा कश्चन विशेष्य इति प्रकारताविशेषताशून्यमिद्रं ज्ञानं निर्विकल्पकज्ञानमित्युच्यते। अवग्रहेण वस्तुनो निर्णयो न भवति अत: अनिर्णायि इदं ज्ञानमिति वक्तुं शक्यते, तथापि अनिर्णायित्वेऽपि ज्ञानमिदं निर्णयोन्मुखमस्त्येव ईहा अवायधरणाद्वारेणेति अस्य प्रामाण्यं सुस्थिरमेव। अनध्यवसायस्तु-न निर्णायी न वा निर्णयोन्मुख इति तस्य प्रामाण्यं नैवेति विज्ञेयम्। इदानी व्यञ्जनावग्रहरहितस्थलं दर्शयति Page #71 -------------------------------------------------------------------------- ________________ 3/ भिक्षुन्यायकर्णिका 10. न नयनमनसोर्व्यञ्जनम्॥ नयनमनसोरर्थेन साक्षात् संबन्धो न भवति। व्यवधिमत्प्रकाशकत्वात् नैते प्राप्यकारिणी॥ दृश्यवस्तुनश्चक्षुषि प्रतिबिम्बेऽपि साक्षात् संबन्धाभावात् नात्र दोषः। चक्षु और मन के व्यञ्जनावग्रह नहीं होता। ___चक्षु और मन का अर्थ के साथ साक्षात् सम्बन्ध नहीं होता। वे व्यवहित अर्थ को जानते हैं इसलिए प्राप्यकारी नहीं हैं। चार इन्द्रिय प्राप्यकारी (प्राप्त अर्थ के प्रकाशक) हैं, चक्षु और मन अप्राप्यकारी हैं। इन दोनों का एक साथ प्रतिपादन करने के लिए उचित देश आदि में अवस्थानात्मक योग का प्रयोग किया गया है। दृश्य वस्तु का आंख में प्रतिबिम्ब पड़ता है, किन्तु उस वस्तु के साथ साक्षात् सम्बन्ध नहीं होता, अत: पूर्वोक्त स्थापना में कोई आपत्ति नहीं है। न्या. प्र.- नयनमनसो र्व्यञ्जनावग्रहो न भवति। एतस्य कारणमिदं यत् अनयोरर्थेन सह साक्षात् संबन्धो न भवति । अर्थेन सहानयोः साक्षात् संबन्धाभावोऽत एव भवति यत् नयनं मनश्च व्यवहितमेवार्थ प्रकाशयतः। न चेमे प्राप्यकारिणी । वस्तु प्राप्य प्रकाशकत्वं नोपलभ्यतेऽत्र। इन्द्रियाणां मध्ये रसनस्पर्शनघ्राणश्रोत्राणि चेति चत्वारि एवेन्द्रियाणि Page #72 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः प्राप्यकारीणि सन्ति । न च मनश्चक्षुर्वा वस्तु प्राप्य प्रकाशकं भवति। अत एव नयनमनसो व्यञ्जनावग्रहो नैव भवति । यद्यपि दृश्यवस्तुनः प्रतिबिम्बं पतति चक्षुषि तथापि तेन वस्तुना चक्षुषः साक्षात् संबंधो नैव भवतीति नात्र कश्चन दोषः। ननु-अनध्यवसायो निर्णायको न भवति। तत्र वस्तुन आभासमात्रं भवति। सैव स्थितिरवग्रहस्यापि वर्तते। अत्रापिवस्तुनो निर्णयो नैव भवतीति को भेदोऽनयोरिति चेच्छ्रयताम्-अवग्रहस्तु ईहावायधारणाक्रमेण निर्णायी भवत्येव । न चैषा स्थितिरनध्यवसाये भवति। अनध्यवसायो निर्णयोन्मुखो नैव भवतीति न प्रमाणत्वमस्य कथञ्चन। अवग्रहेण गृहीतेऽर्थे संशयो जायते । संशयश्चैकस्मिन् धर्मिणि विरुद्धनानाधर्मावगाहि ज्ञानं भवति। यथा कस्मिंश्चित् शब्देश्रुतिपथमुपगते सति संदेहो भवति यत् अयं शब्दः शाङ्क: शाङ्गो वा। तत्रामुकेनभाव्यमिति वितर्कः क्रियते। एवं प्रकारिकामीहां लक्षयन् सूत्रं करोति 11. अमुकेन भाव्यमिति प्रत्यय ईहा। अमुकस्तदितरो वा इति संशयादूर्ध्वः अन्वयव्यतिरेकपूर्वकम् 'अमुकेन भाव्यम्' इति प्रत्यय ईहा, यथा-शब्देन भाव्यम्। 'अमुक होना चाहिए' इस प्रकार के प्रत्यय को ईहा कहते हैं। __ यह पदार्थ अमुक है या दूसरा? यह संशय है। इसके पश्चात् अन्वय-व्यतिरेक (विधि-निषेध) पूर्वक 'अमुक Page #73 -------------------------------------------------------------------------- ________________ ४० भिक्षुन्यायकर्णिका होना चाहिए, इस प्रकार के प्रत्यय को 'ईहा' कहते हैं, जैसे- यह शब्द होना चाहिए। न्या. प्र. - शब्दविशेषं श्रुत्वा सादृश्यवशात्, शब्दोऽयं शाङ्खः शार्ङ्गं वेति जायते संशय: । तत्पश्चात् शाङ्खधर्मा एवात्रोंपलभ्यन्ते न कार्कश्ययुक्ताः शार्ङ्गधर्मा इत्येवं प्रकारेणान्वयव्यतिरेकद्वारा उभयोर्मध्ये विशेषस्य एकतरस्य यद् पर्यालोचनं क्रियते यत् शाङ्गेन शब्देन भाव्यम् इति । एवं पर्यालोचनरूपैव ईहा भवति । अत्र यः संशयो भवति स तु अवग्रहेहयोर्मध्ये भवति । अत्रायं क्रमः पूर्वमवग्रहः ततः संशयः, ततः विशेषपर्यालोचनरूपा ईहा भवति । अत्र मूले यल्लिखितं शब्देन भाव्यमिति ततः पूर्वं शाङ्खेन- शार्ङ्गण वेति योजनीयम् । केवलं शब्देन भाव्यम् इति कथनेन नैव संशयो न वा विशेषस्य पर्यालोचनमपि संभवति । इदानीमवायं लक्षयति सूत्रद्वारा 12. अमुक एवेत्यवायः ॥ यथाऽयं शब्द एव । 'अमुक ही है' ऐसे निर्णयात्मक ज्ञान को अवाय कहते हैं । जैसे- यह शब्द ही है । न्या. प्र. - अमुक एवायमिति निर्णयात्मकं ज्ञानमेव अवायः । यथा— शाङ्ख एवायं शब्दो न तु शार्ङ्ग: । अथ धारणां लक्षयन् सूत्रं करोति Page #74 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः 13. तस्यावस्थितिर्धारणा॥ वासना, संस्कार इत्यस्याः पर्यायः । इयमेव स्मृतेः परिणामिकारणम्॥ निर्णयात्मक ज्ञान की अवस्थिति का नाम धारणा है। वासना और संस्कार ये धारणा के पर्यायवाची शब्द हैं। धारणा ही आगे जाकर स्मृति के रूप में परिणत होती है। न्या. प्र.- तस्य निर्णयात्मकज्ञानस्य या अवस्थितिर्दृढ़ता भवति सा एव धारणा कथ्यते। अवाय एव दृढतमावस्थापन्नो धारणोति स्पष्टम् । वासना संस्कारश्च धारणायाः पर्यायौ स्तः। इयं धारणैव स्मृते: कारणं भवति। इयं तदीया कारणता परिणामिकारणता रूपा वर्तते अर्थात् धारणैव स्मृतिरूपे परिणमते। वस्तुतस्तु यद्ज्ञानं दृढतरं भवति तदीयविषया एव सत्यवसरे स्मर्यन्ते न तु विस्मृतविषयकज्ञानस्य विषयाः कदापि स्मृतिपथारूढ़ा भवन्ति । न्यायदर्शने तु इयं धारणैव संस्कारपदेनाभिधीयते । अत एव तत्रोक्तम्-संस्कारमात्रजन्यं ज्ञानं स्मृतिः। ___ इदमत्र बोध्यम्- इन्द्रियविषयसम्प्रयोगानन्तरं प्रथमम् अस्तिकिञ्चिदेतत् इत्याकारकं विकल्परहितं निराकारं ज्ञानमुत्पद्यते। तत् दर्शनमित्यभिधीयते। तादृशदर्शनानन्तरं शब्दत्वाद्यवान्तरसामान्याकारविशिष्टम् 'अयम् शब्दः' इत्याकारकं यद् ज्ञानम् उत्पद्यते सोऽवग्रहइत्युच्यते। तदनन्तरम् अयं शाङ्खः शब्दः, शा? वा शब्द इति संशयः समुत्पद्यते। Page #75 -------------------------------------------------------------------------- ________________ y भिक्षुन्यायकर्णिका ततः शब्दस्य माधुर्यमनुभूय अनेन शङ्खशब्देनभाव्यमिति ईहा जायते। ईहानन्तरं माधुर्येण सहान्वयव्यतिरेकात् शाङ्कः एवायं शब्द इत्यवायो जायते। स एवावायो दृढीभावमापद्य धारणापदेन व्यवह्रियते। ज्ञानस्य सूक्ष्मविवेचनमिदमत्रैवोपलभ्यते। न्यायदर्शने तु अवग्रहतः समारभ्य धारणापर्यन्तं ज्ञानस्य चतसृणां स्थितीनां कृते निर्विकल्पकं सविकल्पकञ्चेति स्थितिद्वयमेवपरिकल्पितं वर्तते। तत्र निष्प्रकारकं ज्ञानमर्थात् प्रकारताविशेष्यताशून्यं किञ्चिदेतत् अस्तीति ज्ञानं निर्विकल्पकपदेन उच्यते । वस्तुनो यथार्थावबोधे सति घटोऽयमित्येवं रूपेण विशेष्यताविशेषणताशालि यद् ज्ञानं जायते तत्तु घटत्वादिना विकल्पेन सहितत्वात् सविकल्पकपदेन अभिलप्यते। अवग्रहेहयोर्मध्ये संशय इव नात्र संशयोऽभिमत इति पार्थक्यमत्र बोध्यम्। इदानीम् अवग्रहादीनां पारस्परिकं भेदमवबोधयितुकाम: सूत्रमवतारयति 14. असामस्त्येनापि उत्पद्यमानत्वात्, अपूर्वापूर्ववस्तुपर्याय प्रकाशकत्वात् क्रमभावित्वात् च एते व्यतिरिच्यन्ते। अवग्रह आदि चारों असमस्तरूप से भी उत्पन्न होते हैं, नए-नए पर्यायों का बोध कराते हैं और क्रम से उत्पन्न होते हैं- इन तीन कारणों से उनमें परस्पर भिन्नता है। न्या. प्र.- एते अवग्रहादयः परस्परं व्यतिरिच्यन्ते परस्परं पृथक्त्वेन वर्तन्ते । तत्र हे तु माह- असामस्त्ये नापि Page #76 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः ४३ उत्पद्यमानत्वादिति। समष्टिरूपेण सहैव एषामुत्पत्ति व भवति, किन्तु कदाचित् केवलं दर्शनमेवोत्पद्यते, कदाचिच्च दर्शनावग्रहा उत्पद्येते, कदाचित् दर्शनावग्रहसंशयेहाः समुत्पद्यन्ते। एवं प्रकारेण असामस्त्येनासम्पूर्णरूपतया उत्पद्यमानत्वात् इमे परस्परं भिन्ना एव। किञ्च एभिरवग्रहादिभिः अपूर्वापूर्ववस्तुप्रकाशनं भवति । अर्थात् वस्तुनो भिन्नभित्रधर्मस्य प्रकाशनं भवति एभिरिति अस्मादपि कारणात् इमे परस्परं भिन्ना एव। किञ्च क्रमभाविनश्चेमे अर्थात् इमे क्रमश एव भवन्ति । तस्मात् एषां पारस्परिको भेदोऽनिवार्योऽस्ति । नहि क्रमभाविषु पदार्थेषु अभिन्नत्वम् एकत्वं वा वक्तुं शक्यते। तस्मादेषां पारस्परिको भेद एवावगन्तव्यः। यद्यपि ईहातः पूर्व संशयो भवति- यथा शाङ्कः शाङ्गो वा शब्द इति तथापि ईहा न संशयरूपा। संशयो यद्यपि अवग्रहादीनां मध्यपाती भवति तथापि अवग्रहादीनां मध्ये तदीया गणना न क्रियते। कारणञ्चास्येदमेव यत् संशयो न प्रमाणस्वरूपो न वा प्रमाणोपकारक इति। अवग्रहादीनां वैशिष्ट्यं सूत्रान्तरेण सूचयति 15. आशूत्पादात् क्वचित् क्रमानुपलक्षणमेषाम्। यथा दविष्ठात् विद्युद्गृहादागतविद्युत्प्रकाशक्रमो नोपलक्ष्यते। अवग्रह आदि परिचित अवस्था में इतने शीघ्र हो जाते हैं कि Page #77 -------------------------------------------------------------------------- ________________ ४४ उनका क्रम जाना ही नहीं जाता। जैसे- दूरस्थ बिजलीघर से समागत बिजली के प्रकाश का क्रम लक्षित नहीं होता, वैसे ही शीघ्र उत्पत्ति के कारण अवग्रह आदि का क्रम परिलक्षित नहीं होता । न्या. प्र. - अस्यायंभाव - यद्यपि दर्शनावग्रहादीनां क्रमो नियतः यथा पूर्वं दर्शनम् - तदनन्तरमवग्रहः ततः संशयः तत्पश्चात् ईहा, ततोऽवायः ततो धारणेति क्रमोऽनुभूयमानोऽस्ति, तथापि क्वचित् परिचितावस्थायाम् इमे अवग्रहादय इयता शैत्र्येणोपद्यन्ते उत्पलशतपत्रभेदवत् यद्वशात् तत्र जायमानोऽपि क्रमों नैवोपलक्ष्यते । भिक्षुन्यायकर्णिका यथा वा विद्युद्गृहात् समागतो विद्युत्प्रकाशोऽतिशीघ्रतया जायमानत्वात् सक्रमो नैवोपयाति अनुभवपथं तथैवेमेऽवग्रहादयो ऽपि क्रमवन्तोऽपि असंलक्ष्यक्रमवन्त इव प्रतीयन्ते । अवग्रहलक्षणेऽष्टमे सूत्रे इन्द्रियेत्युक्तमिति इन्द्रियं लक्षयति 16. प्रतिनियतार्थग्रहणमिन्द्रियम् ॥ जिसके द्वारा प्रतिनियत- अपने-अपने निश्चित विषय का ग्रहण होता है, उसे इन्द्रिय कहते हैं । न्या. प्र. - यद्द्द्वारा प्रतिनियतस्य- स्वस्वनिश्चितविषयस्य ग्रहणं-ज्ञानं भवति तदेवेन्द्रियम् । यथा स्पर्शनेन्द्रियेण (त्वचा) स्पर्शस्य ज्ञानं भवति । न चेदं ज्ञानं केनाप्यन्येनेन्द्रियेण भवितुं शक्नोतीति स्पर्श एव स्पर्शनेन्द्रियस्य प्रतिनियतविषयः । Page #78 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः एवमेव रसग्रहणं रसनेन्द्रियस्य विषयः। गन्धस्तु घ्राणस्य विषयः। रूपं च चक्षुषो विषयः। शब्दश्च श्रोत्रस्य विषयः। अनया रीत्या प्रत्येकमिन्द्रियस्य विषयो नियतोऽस्ति। अनेन प्रकारेण प्रतिनियतार्थप्रकाशकत्वमिन्द्रियत्वमिति इन्द्रियलक्षण मुपपन्नं भवति । इदमेव तथ्यं सूत्रद्वारा स्पष्टयति 17. स्पर्शरसगन्धरूपशब्दग्रहणलक्षणानि स्पर्शनरसनघ्राण चक्षुःश्रोत्राणि। स्पर्श, रस, गन्ध, रूप और शब्द को ग्रहण करने वाली इन्द्रियां पाँच हैं-- स्पर्शन, रसन, प्राण, चक्षु और श्रोत्र । न्या. प्र.- तानि चेन्द्रियाणि अन्वर्थनामानि स्पर्शनेन्द्रियम्, रसनेन्द्रियम्, घ्राणेन्द्रियम्, चक्षुरिन्द्रियम् तथा श्रोत्रेन्द्रियमिति यथार्थनामानि सन्ति पञ्च । स्वनाम्नोऽनुसारमिमानि गृह्णन्ति विषयान्। विषयाश्चैषां स्पर्शादयः स्पष्टीकृता उपर्युक्तसूत्रे। विषयाणाम् ( अर्थानाम्) प्रकाशकत्वात् इमानि पञ्चेन्द्रियाणि ज्ञानेन्द्रियाण्यप्युच्यन्ते। एषु चक्षुरतिरिच्य चत्वारि इन्द्रियाणि वस्तु प्राप्य प्रकाशकराणि भवन्ति। चक्षुस्तु न प्राप्यकारि इन्द्रियम्। दर्शनान्तरेषु एभ्य इन्द्रियेभ्यः पृथक् वाक् पाणिपादपायूपस्थाख्यानि पञ्च कर्मेन्द्रियाण्यपि सन्त्यभिमतानि। तत्र वागिन्द्रियस्य कार्यम् वचनम् । पाणे: कार्यम्-कस्यापि वस्तुनः आदानं ग्रहणम् । पादेन्द्रियस्य कार्यम्-विहरणं गमनं भ्रमणं वा सम्पद्यते । पायुनाम्ना इन्द्रियेण मलत्यागः तथा उपस्थेति Page #79 -------------------------------------------------------------------------- ________________ ४६ भिक्षुन्यायकर्णिका नाम्ना इन्द्रियेण मूत्रोत्सर्गः क्रियते। इमानि दशेन्द्रियाणि बाह्यनि सन्ति। एभिर्दशेन्द्रियैर्बाह्यविषया ज्ञायन्ते तथा बाह्यकार्याणि च क्रियन्ते। तदुक्तम्बुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि। वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः ॥ 26 रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः। वचनादानविहरणोत्सर्गानन्दाश्च पञ्चानाम् ।। 88. सांख्यकारिका श्लोकद्वयस्यार्थः स्फुटीकृत उपरि। आचार्यों हेमचन्द्रस्तु पञ्चैवेन्द्रियाणि मनुते ज्ञानजनकानि। ज्ञानविशेषहेतूनामेवेन्द्रियत्वमिति इन्द्रियलक्षणं तन्मते। यदि चेष्टाविशेषनिमित्तानामपि इन्द्रियत्वं स्वीकरणीयं स्यात् तदा चेष्टानामनन्तत्वात् इन्द्रियाणामपि आनत्यं प्रसज्येत। तस्मात् पञ्चैवेन्द्रियाणि। वस्तुतस्तु ज्ञानेन्द्रियाणीव कर्मेन्द्रयाण्यपि नियतान्येव कार्याणि कुर्वन्ति। एतेषामपि कार्याणि सन्ति प्रसिद्धानि। अत एव दर्शनान्तरेषु इन्द्रियाणां मध्ये कर्मेन्द्रियाणामपि गणना कृता वर्तते। इदानीमिन्द्रियभेदं वर्णयितुमुपक्रमते 18. प्रत्येकं चतुर्धा॥ प्रत्येक इन्द्रिय के चार-चार भेद हैं- निर्वृत्ति, उपकरण, लब्धि और उपयोग। Page #80 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः न्या. प्र.- उपर्युक्तानां पञ्चज्ञानेन्द्रियाणां प्रत्येकं चत्वारश्चत्वारो भेदा भवन्ति । तद्यथा— निर्वृत्तीन्द्रियम्, उपकरणेन्द्रियम्, लब्धीन्द्रियम्, उपयोगेन्द्रियञ्च । इदानीं द्रव्येन्द्रियभावेन्द्रियेति नाम्ना इन्द्रियभेदं चिकीर्षन् प्रत्येकमिन्द्रियं परिचाययितुमवतारयति सूत्रम् 19. निर्वृत्त्युपकरणे पौदगलिके । ४७ आकाररचना निर्वृत्तिः । तत्र विषयग्रहणोपकारिणी शक्तिः उपकरणम् । एते द्वे अपि पुद्गलरूपत्वात् पौद्गलिके । निर्वृत्ति और उपकरण ये दो इन्द्रियां पौद्गलिक (द्रव्येन्द्रिय) हैं । इन्द्रियों के आकार - रचना का नाम है निर्वृत्ति । उसमें विषय को ग्रहण करने की जो उपकारक शक्ति है वह उपकरण है। ये दोनों इन्द्रियां पुद्गलरूप होने के कारण पौद्गलिक कहलाती है। न्या. प्र. - इन्द्रियाणां या आकाररचना सा एंव उच्यते निर्वृत्तीन्द्रियम् । तत्र निर्वृत्तीन्द्रिये विषयग्रहणस्य या उपकारिका शक्तिरस्ति सा एव उपकरणेन्द्रियेति नाम्ना कथ्यते । इदमिन्द्रियद्वयं पुद्गलरूपं भवतीति पौद्गलिकं द्रव्येन्द्रियं वापि कथ्यते । Page #81 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका 20. आत्मिके लब्ध्युयोगौ। कर्मविलयविशेषोद्भव आत्मप्रकाशः लब्धिः, तस्यार्थग्रहणव्यापार: उपयोगः। सत्यां लब्धौ निर्वृत्त्युपकरणोपयोगाः। सत्याञ्च निर्वृत्तौ उपकरणोपयोगौ। सत्युपकरणे उपयोगः । लब्धि और उपयोग ये दो आत्मिक इन्द्रियां (भावेन्द्रिय) हैं। ज्ञानावरण और दर्शनावरण कर्म के विलय विशेष से उत्पन्न आत्म-प्रकाश को लब्धि-इन्द्रिय कहा जाता है। उसकी अर्थ-ग्रहण की प्रवृत्ति को उपयोग-इन्द्रिय कहा जाता है। इनके होने का क्रम इस प्रकार है- लब्धि इन्द्रिय होने पर निर्वृत्ति, उपकरण और उपयोग इन्द्रियां होती हैं। निर्वृत्ति इन्द्रिय के होने पर उपकरण और उपयोग इन्द्रियां होती हैं। उपकरण इन्द्रिय होने पर उपयोग इन्द्रिय होती है। न्या. प्र.- लब्धिः उपयोगश्चेतीन्द्रियद्वयम् आत्मिके इन्द्रिये स्तः । इमे एव भावेन्द्रियपदेनापि कथ्यते। ज्ञानावरणीयकर्मणो दर्शनावरणीयकर्मणश्च विलयविशेषेणोत्पन्नः आत्मप्रकाशो लब्धिः इन्द्रियं कथ्यते । लब्धीन्द्रियस्य या अर्थग्रहणप्रवृत्तिः सा एव उपयोगेन्द्रियमितिबोध्यम्। एषामिन्द्रियाणां भवनम्-अस्तित्वं कथं सम्पद्यते? इत्यस्मिन् विषये वर्ततेऽयं क्रमः-सत्यां लब्धौ अर्थात् लब्धीन्द्रियस्य अस्तित्वं यदा सिद्धं भवति तदैव निर्वृत्तीन्द्रियम् उपकरणेन्द्रियमुपयोगेन्द्रियञ्चेति इन्द्रियाणि सम्पद्यन्ते। Page #82 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः ज्ञानावरणदर्शनावरणयोर्विलये जाते आत्मप्रकाशे स्फुरिते सत्येव निर्वृत्तीन्द्रियं लब्धसत्ताकं भवितुमर्हति। जाते लब्धसत्ताके निर्वृत्तीन्द्रिये तत्र विषयग्रहणोपकारिका या एका शक्तिरवतिष्ठते सा एव उपकरणेन्द्रियमितिप्रोच्यते। उपकरणेन्द्रिये संपन्ने एव उपयोगेन्द्रिय कार्यकारि भवति। यावत् कालपर्यन्तं विषयप्रकाशकशक्तिसम्पन्न उपकरणेन्द्रियं स्वकीयं रूपं नासादयिष्यति तावत् कथं प्रभवेत् उपयोगेन्द्रियम्। अनया रीत्या एषामिन्द्रियाणां कार्यकारित्वं सम्पद्यते इति न कश्चन विसंवादः। अत्रेदं रहस्यं वेदनीयं यत् ज्ञानावरणदर्शनावरणकर्मक्षयोपशम एव लब्धिरिति कथ्यते। लब्धेः सान्निध्यमुपेत्यैव आत्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति यत्नवान् भवति। एतेनेदं स्पष्टं भवति यत् लब्धीन्द्रियं कारणमस्ति इन्द्रियाणाम्। इन्द्रियाणि च कार्याणि । पूर्वजन्मनः कर्मवशात् यस्य यादृशं लब्धीन्द्रियं समुपलब्धं भवति, तस्य तादृशान्येव निर्वृत्त्यादीनि इन्द्रियाणि सम्पद्यन्ते इतिभावः। सम्प्रति व्यापकविषयस्य मनसो लक्षणं कर्तृकामो ग्रन्थकारः सूत्रमवतारयति 21. सर्वार्थग्राहि त्रैकालिकं मनः॥ सर्वे, न तु इन्द्रियवत् प्रतिनियता अर्था गृह्यन्ते येन तत् सर्वार्थग्राहि त्रिकालविषयत्वात् त्रैकालिकं मनः । 1. त्रिकालविषयत्वाद् आलोचनात्मकत्वमस्य स्वभावापतितम्। Page #83 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका मननालम्बनभूताः पुद्गलाः पौद्गलिकं मनः । आत्मिकं मनः लब्ध्युपयोगरूपम्। जिसके द्वारा सब विषयों का ग्रहण किया जाता है और जो त्रैकालिक संज्ञान है, उसे मन कहा जाता है। मन इन्द्रियों की भांति प्रतिनियत अर्थ का ग्रहण नहीं करता, किन्तु सब विषयों (शब्द, रूप आदि) का ग्रहण करता है इसलिए वह सर्वार्थग्राही है। इन्द्रिय वर्तमानग्राही होते हैं, किन्तु मन त्रिकालग्राही होता है। मनन में आलम्बनभूत पुद्गलों को पौद्गलिक मनद्रव्य-मन कहा जाता है। लब्धि और उपयोग को आत्मिक मन-भावमन कहा जाता है। न्या. प्र.- सर्वे अर्था विषया गृह्यन्ते येन तत् सर्वार्थग्राहि मनः। इन्द्रियाणि तु प्रतिनियतं निश्चितमेव अर्थं गृह्णन्ति, किन्तु मनस्तु सर्वान् विषयान् गृह्णाति। विषयाश्च सन्ति स्पर्शरसगन्धरूपशब्दाख्याः। एषां सर्वेषां विषयाणां ज्ञानं मनसैव भवति। अत एव मनसः एकं लक्षणमस्ति सर्वार्थग्राहकत्वम्। इन्द्रियाणि वर्तमानग्राहीणि भवन्ति, अर्थात् यस्मिन् समये इन्द्रियाणां विषयैः सह सम्पर्को जायते तस्मिन् समये एव ते विषया गृह्यन्ते इन्द्रियैः। किन्तु मनस्तु त्रिकालग्राहि एव भवति। तस्मात् त्रिकालग्राहकत्वं मनसो द्वितीयं लक्षणम् । इयं खलु मनसो द्वितीया विशेषता। मनने आलम्बनभूतान् पुद्गलान् पौद्गलिकं मन इत्युच्यते। Page #84 -------------------------------------------------------------------------- ________________ द्वितीयो विभाग: पौद्गलिकं मन एव द्रव्यं मन इत्यप्युच्यते । लब्धि: उपयोगश्च आत्मिकं मनो भावमनो वेत्युच्यते । आचार्यो हेमचन्द्रस्तु पञ्चेन्द्रियवत् मनसोऽपि द्रव्यं मनो भावमनश्चेति द्वैविध्यं मनुते तथा मनस्त्वेन परिणतानि पुद्गल द्रव्याणि द्रव्यं मनः । भावमनस्तु आवरणीयकर्मक्षयोपशमः आत्मनश्च अर्थग्रहणोन्मुखो व्यापारविशेष इति स्वीकुरुते । मनसो लक्षणं प्रत्येकं दर्शने कृतं वर्तते । आचार्यस्तुलसी स्वकीये मनोनुशासनम् नामके पुस्तके मनसो लक्षणमेवं करोति "इन्द्रियसापेक्षं सर्वार्थग्राहि त्रैकालिकं संज्ञानं मनः अस्मिन् लक्षणे भिक्षुन्यायकर्णिकायां कृतात् लक्षणात् केवलमिदमेव पार्थक्यं यत् अत्र इन्द्रियसापेक्षम् इति एकं पदं तथा संज्ञानमिति पदं च लक्षणे निवेशितं वर्तते । अनेन लक्षणेन तथ्यत्रयं स्फुटितं भवति 27 ५१ १. इन्द्रियद्वारागृहीते विषये मनः प्रवर्तते । तस्मात् मनः इन्द्रियसापेक्षमस्ति । २. मनः शब्दस्पर्शादीन् सर्वान् विषयान् जानाति अत: मनः सर्वार्थग्राहि अस्ति । ३. मनः भूतभविष्यवर्तमानेतिकालत्रयस्य विषयान् जानाति अत: त्रैकालिकं मनः इत्यप्युच्यते । अत्र मनसः इन्द्रियत्वं न स्वीकृतम् । न्यायदर्शने तु मनः इन्द्रियमस्तीति स्पष्टमुल्लिरिवतम् । यथा "सुखाद्युपलब्धिसाधनमिन्द्रियं मनः " । Page #85 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका येनेन्द्रियेण सुखदुःखादीनामनुभूतिर्भवति तदेवेन्द्रियं मन इत्युच्यते। मनसा जायमानस्य ज्ञानस्यायं क्रमः - आत्मा मनसा युज्यते, मनः इन्द्रियेण युज्यते, इन्द्रियमर्थेन युज्यते ततो ज्ञानम् । इदमत्रावधेयं यत् यावत् आत्मना संयुक्तस्य मनसो योगः इन्द्रियेण न भवति तावत् किमपि ज्ञानं भवितुं नाहतीति। आत्मसंयुक्तं मनो यदा तत्तदिन्द्रियैः सह युज्यते तदा इन्द्रियाणि स्वकीयं स्वकीयं नियतं विषयं गृह्णन्ति।। मनः अणुपरिमाणं वर्तते । अणुपरिमाणं मनः एकस्मिन् काले अनेकैरिन्द्रियैः सह न युज्यते । अत एकस्मिन् काले नोत्पद्यन्तेऽनेकानि ज्ञानानि । अत एव न्यायसूत्रे उक्तम्"युगपत् ज्ञानानुत्पत्तिर्मनसो लिङ्गम् ॥ प्राणादीनामिन्द्रियाणां गन्धादीनां विषयाणाञ्च युगपत् संयोगे सत्यपि नोत्पद्यन्ते युगपत् अनेकानि ज्ञानानि तेनानुमीयते यत् अस्ति तत्तदीन्द्रियसंयोगि किमपि अन्यत् निमित्तं यस्यासन्निधिवशात् नोत्पद्यते युगपदनेकं ज्ञानम्। परिणामत इदमेव वक्तुं शक्यते यत् येनेन्द्रियेण सह आत्मसंयुक्तमनसः संयोगो भवति तस्मिन् काले तदिन्द्रियनियतविषया एव गृह्यन्ते । अतो युगपत् ज्ञानानुत्पत्तिर्यत् मनसो लक्षणं व्यलेखि तत् साधु एव। सांख्यदर्शनेतु मनस उभयात्मकत्वं स्वीकृतमस्ति । उभयात्मकत्वमित्यस्यार्थः ज्ञानेन्द्रियत्वं कर्मेन्द्रियत्वञ्च। 1. न्याय दर्शने 16 सूत्रम् 2. उभयात्मकमत्र मनः संकल्पकमिन्द्रियं च साधम्यत् ि। सांस्थकारिका 26 Page #86 -------------------------------------------------------------------------- ________________ द्वितीयो विभागः चक्षुरादीनां ज्ञानेन्द्रियाणां प्रर्वतकत्वात् मनः ज्ञानेन्द्रियम्, तथा वागादीनां कर्मेन्द्रियाणां प्रवर्तकत्वात् मनः कर्मेन्द्रियमपीति तत्तात्पर्यम्। मनसः कार्यमस्ति संकल्पो विकल्पश्च। किमपि वस्तु अवलम्ब्य इदमेवम् नैवं वेति यो विकल्पः समुत्पद्यते स एव मनसः कार्यम्। मनस इन्द्रियत्वञ्च साधर्म्यात् सिद्धयति। साधर्म्यञ्चास्येन्द्रियैः सह गृह्यते। यथा ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि च सात्विकात् अहंकारात् उत्पद्यन्ते तथैव मनोऽपि सात्विकादेवाहंकारदुत्पद्यते, इति मनस इन्द्रियत्वमपि सिद्ध्यति । अत्र साधर्म्यञ्च मनसः इन्द्रियैः सह समानकारणजन्यत्वरूपमिति वेदनीयम्। सांख्यदर्शने अन्त:करणस्य त्रयो भेदाः स्वीकृता- मनो बुद्धिः अहंकारश्च। एषां लक्षणान्येव एषां व्यापारः। यथा- संकल्पविकल्पात्मकं मनः। किञ्चिद् वस्तु दृष्ट्वा- इदमेवं नैवं वेति तर्कणैव मनसः कार्यम्। मनसा विकल्पितेऽर्थे बुद्धिः निश्चयात्मकं ज्ञानं कारयति। इदन्तु इदमेव नान्यदिति निश्चयात्मकं ज्ञानं बुद्धिरित्युच्यते । प्रत्येकं कर्मणि अहमहमिति बुद्धिः अहमेवं करोमि करिष्यामि वेत्याकाराबुद्धिरेवाहङ्कारः। मनसः स्वरूपे कारणे कार्ये स्थानादिविषये दार्शनिकानां मतभेदोऽस्ति । न्यायवैशेषिकदर्शने मनः परमाणुरूपं कारणरहितमत एव नित्यमिति स्वीकृतमास्ते। सांख्ययोगदर्शने वेदान्ते च मनोऽणुरूपं सात्विकादहंकारात् उत्पनं स्वीकृतमस्ति। Page #87 -------------------------------------------------------------------------- ________________ ५४ भिक्षुन्यायकर्णिका जैनपरम्परायां मनः मध्यमपरिमाणमस्ति। द्रव्यमनो भावमनश्चेति तस्य द्वौ भेदौ। तत्र द्रव्यं मनः सूक्ष्मतमेन मनोवर्गणानामकेन जडद्रव्येण समुत्पन्न प्रतिक्षणं शरीरवत् परिवर्तनशीलं भवति। भावमनश्च ज्ञानशक्तिसम्पन्नं किं वा ज्ञानरूपमत एव चेतनद्रव्यजन्यमित्यभिमतम्। मनसः कार्यं सुखदुःखेच्छाद्वेषादीनामनुभूतिरेवास्ति। सुखदुःखादयोगुणा आत्मगता अन्तः करणगता वेत्यन्यदेतत् । बहिरिन्द्रियजन्यज्ञानोत्पत्तौ मनो निमित्तं भवति । यथोक्तं प्राक्पूर्वम् आत्ममनः संयोगः ततो मनसः इन्द्रियेण संयोगः मनः संयुक्तेन्द्रियस्यार्थेन (विषयेण) सह संयोगस्ततस्तदीयं ज्ञानमिति। इति प्रत्यक्षस्वरूपनिर्णयात्मको द्वितीयो विभागः । Page #88 -------------------------------------------------------------------------- ________________ तृतीयो विभागः अस्य पुस्तकस्य द्वितीयविभागे प्रथमसूत्रे प्रमाणस्य द्वैविध्यमुक्तं — प्रत्यक्षं परोक्षञ्च । तत्र प्रथमं प्रत्यक्षं व्याख्याय परोक्षं व्याख्यातुकामः सूत्रयति 1. साहाय्यापेक्षं परोक्षम् । परसाहाय्यापेक्षं प्रमाणमस्पष्टत्वात् परोक्षम् । जिसमें दूसरे हेतुओं की सहायता अपेक्षित हो उसे परोक्ष प्रमाण कहा जाता है । पर साहाय्यापेक्ष प्रमाण अस्पष्ट होने के कारण परोक्ष कहलाता है । न्या. प्र. - यस्मिन् प्रमाणे परस्य सहायता अपेक्षिता भवति तत् परोक्षं प्रमाणम् । परसहायतापेक्षं प्रमाणं तथा न स्पष्टं भवति यथा प्रत्यक्षप्रमाणं स्पष्टं निरपेक्षञ्च भवति । परोक्षप्रमाणस्य यावन्तो भेदाः सन्ति ते सर्वे आत्मनः कार्यकारित्वे परस्य सहायतामपेक्षन्त एव । यथा मतिज्ञानमिन्द्रियमनोनिमित्तं भवति । साक्षादात्मना जायमानप्रत्यक्षापेक्षयाऽस्मिन् ज्ञाने इन्द्रियस्य मनसश्चापेक्षा अनिवार्यरूपेण Page #89 -------------------------------------------------------------------------- ________________ ५६ 3. 2. मतिश्रुते । 4. भिक्षुन्यायकर्णिका भवतीति परोक्षस्य परसाहाय्यापेक्षत्वमनिवार्यरूपेण भवत्येव । एषैव स्थिति: श्रुतज्ञानेऽपि भवतीति उभयोरनयो: ज्ञानयोः परोक्षत्वमसंदिग्धमेव । 1. आचार्य हेमचन्द्रस्तु वैशद्यमवैशद्यञ्चावलम्ब्य ज्ञानस्य (प्रमाणस्य) द्वैविध्यं स्वीचकार । तत्र वैशद्यं स्पष्टरूपमवैशद्यञ्च अनतिस्पष्टमितितदीयोऽभिप्रायः । स्फुटमेतत् । इदानीं परोक्षप्रमाणस्य भेदमाचष्टे परोक्ष प्रमाण के दो भेद हैं :- 1. मति, 2. श्रुत | परोक्षप्रमाणस्य मतिः श्रुतञ्चेति द्वौ भेदौ भवतः । इन्द्रियमनोनिबधनं मतिः' । इन्द्रिय और मन के निमित्त से जो ज्ञान होता है वह मति है । तत्र मतिज्ञानम् इन्द्रियमनोनिमित्तं भवति । मनसा युक्तेन इन्द्रियेण प्रतिनियतार्थग्रहणमेव मतिज्ञानमित्युच्यते । स्मृति - प्रत्यभिज्ञा- तर्क-अनुमानानि तत्प्रकाराः । स्मृति, प्रत्यभिज्ञा, तर्क और अनुमान -ये मति के प्रकार हैं। अस्य मतिज्ञानस्य स्मृतिः, प्रत्यभिज्ञा, तर्क:, अनुमानञ्चेति चत्वारो भेदा भवन्ति । आभिनिबोधिकमप्यस्य पर्यायः । Page #90 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ५७ तत्र का नाम स्मृतिरिति जिज्ञासायामुच्यते5. संस्कारोबोधसंभवा तदित्याकारा स्मृतिः। संस्कारः धारणारूपः, तस्य उद्बोधात्-जागरणाद् उत्पन्ना, 'तत्' इति उल्लेखवती मतिः स्मृतिर्गीयते, यथा-स नीलगिरिः, तद् राजगृहम्। संस्कारों के उद्बुद्ध होने पर वह' इस शब्द के द्वारा जो ज्ञान उत्पन्न होता है वह स्मृति है। __धारणात्मक ज्ञान का नाम संस्कार है। उसके उद्बोध अर्थात् जागरण से उत्पन्न 'वह' शब्दवाच्य मति ज्ञान को स्मृति कहा जाता है, जैसे- वह नीलगिरि, वह राजगृह । न्या प्र.- संस्कारः धारणारूपोऽस्ति । अवग्रहेहावायधारणेति क्रमे अवग्रहे गृहीतविषयकं ज्ञानं क्रमशो वृद्धिमत् धारणायां परिपुष्टं सत् वासना संस्कारो वेतिशब्देनोच्यते। अस्मात् संस्कारात् यद् ज्ञानमुत्पद्यते तदेव स्मृतिरितिकथ्यते । अस्यां स्मृतौ तत् शब्दस्योल्लेखो भवति। स्मृतिः वासनोद्बोधहेतुका भवति- अर्थात् वासनाया उद्बोध एव स्मृतौ कारणं भवति। यदि काचित् वासना चिरकालात् स्थायिनी स्यात् किन्तु तस्या उद्बोधो न जायते तदा नासौ वासना स्मृति जनयितुं क्षमा। वासनाया उद्बोधस्तु सदृशंवस्तुदर्शनादेव। यद्विषयिणी वासना चित्ते सुस्थिराऽस्ति तद्वस्तु सदृशं वस्तु दृष्टैव काचिद् वासना जागरिता भवति । वासानाया जागरणस्य Page #91 -------------------------------------------------------------------------- ________________ ५८ भिक्षुन्यायकर्णिका इदमेव चिह्नं यत् तत्र तत् शब्दस्य प्रयोग: स्वभावतो भवत्येव। यथा-केनचित् पुरुषेण पूर्वं दृष्टो नीलगिरिः, दृष्टं वा किमपि राजभवनम्। कालान्तरे नीलगिरिसदृशं पर्वतान्तरं राजभवनसदृशमन्यद् वा राजभवनं पश्यति तदासौ वक्ति सः नीलगिरिः इतितद्राजभवनमिति वा । अत्र सदृशं वस्तु दृष्ट्वा प्रतियोगिनो यद् स्मरणं तदेव स्मृतिरिति स्पष्टम्। एतदेव तथ्यं वादिदेवसूरिणा-प्रमाणनयतत्त्वालोके एवं व्यलेखि-संस्कारप्रबोधसंभूतमनुभूतार्थविषयं तदित्याकारं वेदनं स्मरणम्। स्मरणमेव स्मृतिः। तच्च संस्कारप्रबोधात् जायते । संस्कारश्च वासनापरपर्यायः कस्यचिद्ज्ञानस्य दृढ़ीभावरूपः। सदृश पदार्थदर्शनमहिम्ना संस्कारः प्रत्युद्बुद्धः सन् स्मृति (स्मरणं) जनयति। अनया रीत्या अनुभूतार्थ एव स्मृतिविषयो भवति। तच्छब्दोल्लेखस्तु स्मृतेः परिचायकोऽस्ति। स्मृतौ कश्चन नवीनो विषयो न भासते, किन्तु अनुभूतविषय एवात्र भासते। अत एव न्यायदर्शने ज्ञातविषयं ज्ञानं स्मृतिरिति तल्लक्षणमुपलभ्यते। एतेन स्पष्टं भवति यद् स्मृतेः विषयः पूर्वत एव ज्ञातो भवति। स्मृति: कमपि नवीनं विषयं नोत्थापयति किन्तु पूर्वतो ज्ञातो विषयो यः खलु अस्माकं संस्कारे तिरोहितस्तिष्ठति स एव संस्कारोबोधे सति अस्माकं ज्ञाने प्रकाशितो भवति । संस्कारात् स्मृतेरुत्पत्तिरिति सिद्धान्तमुररीकृत्य स्मृतेरपरं 1. तर्कभाषा Page #92 -------------------------------------------------------------------------- ________________ तृतीयो विभाग: ५९ लक्षणमपि' दृश्यते न्यायदर्शने। तच्चेत्थम्- संस्कारमात्रजन्यं ज्ञानं स्मृतिः। अस्मिन् लक्षणे यदि मात्रपदं न स्यात् तदा इदं लक्षणं प्रत्यभिज्ञामपि व्याप्नुयात् । प्रत्यभिज्ञाऽपि संस्कारजन्या भवति। मात्रपदनिवेशे तु न दोषः प्रत्यभिज्ञाया संस्कारमात्रजन्यत्वाभावत्। संस्कारजन्यप्रत्यभिज्ञायां, सोऽयं घट: इत्यत्र अयमिति पदेन तस्या इन्द्रियजन्यत्वमपि विदितं भवति । प्रत्यभिज्ञायामतीतं वर्तमानं चेत्युभयमपि भासते। स्मृतौ तु केवलमतीतमेवेति तयोर्भेदः। सा च स्मृतिः प्रमाणमस्ति न वेति विषये मतवैभिन्न्यं वर्तते। जैनदर्शने तु स्मृतेः प्रामाण्यं स्वीकृतमेवास्ते । यथा अविसंवादि प्रत्यक्षादि ज्ञानं प्रमाणं भवति तथैव अविसंवादि ज्ञानरूपा स्मृतिरपि प्रमाणमस्त्येवेति तदीयं तात्पर्यम्। मीमांसादर्शने तु स्मृतेः प्रामाण्यं नैव स्वीकृतम्। अस्येदं कारणं यत् स्मृत्या न कश्चन नवीनो विषयो ज्ञायते अपितु गृहीतविषय एव ग्राह्यते । अतो गृहीतग्राहितया स्मृतेः प्रामाण्यं नैव शक्यते वक्तुम् । तदुक्तम्- स्मृतेरप्रमाणत्वं गृहीतग्राहितया मतम्। कुमारिलभट्टादयो विद्वांसः कथयन्ति यत् स्मृतिद्वारा स एव विषयः समुपस्थाप्यते यो विषयोऽनुभवद्वारा ज्ञातोऽस्ति । न खलु कश्चन अज्ञातो विषयो ज्ञाप्यते स्मृत्या। तस्मादप्रमाणमेवेयम्। 1. तर्क संग्रह Page #93 -------------------------------------------------------------------------- ________________ Eo भिक्षुन्यायकर्णिका न्यायदर्शने तु गृहीतग्राहितया नाप्रामाण्यं स्मृतेः किन्तु स्मृतिः कञ्चिदर्थमवलम्ब नोत्पद्यतेऽतोऽनर्थजन्यत्वमेव स्मृतेरप्रमाणत्वस्य कारणम् । तदुक्तम्न स्मृतेरप्रमाणत्वं गृहीतग्राहिताकृतम्। अपि त्वनर्थजन्यत्वं तदप्रमाण्यकारणम् ॥ न्यायमञ्जरी एवं रीत्या विभिन्नदर्शने स्मृतेः प्रामाण्ये निराकृतेऽपि जैनदर्शने तस्याः प्रामाण्यं स्वीकृतमेव। स्वयं निहितं (स्थापितं) वस्तु कुत्र निहितमिति स्मृत्या विचिन्त्य उपलभ्यत एवेति वस्तुज्ञापकत्वात् तस्याः प्रामाण्यं सुरक्षितमेव। न च स्मृतिः निरालम्बनेति शंकनीयम् । अनुभूयमानविषयद्वारा तस्याः सालम्बनत्वस्यैव सत्वात् । यदि अनुभूतेनार्थेन स्मृते: सालम्बनत्वेऽपि अप्रामाण्यमित्युच्यते तदा प्रत्यक्षस्यापि अनुभूतार्थविषयत्वात् अप्रामाण्यं स्यात्। सम्प्रति मतिज्ञानस्य द्वितीयभेदं प्रत्यभिज्ञानं लक्षयतिअनुभवस्मृतिसंभवं तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगी' त्यादि संकलनं प्रत्यभिज्ञा। यथा-सैवेयं वलभी यत्र देवर्धिगणिना आगमवाचना कृता, गोसदृशो गवयः, गोविलक्षणो महिषः। इदमस्माद् दूरम्, इदमस्मान्नेदीयः । क्वचिद् व्यस्ताभ्यामपि। 1. यन्निरूपणाधीनं निरूपणं यस्य तत् तत्प्रतियोगी। 2. एकत्वसादृश्यवैसादृश्यादिनाऽर्थद्वयघटनम् संकलनम्। 3. केवलेनाऽनुभवेन केवलेन स्मरणेनाऽपि प्रत्यभिज्ञा जायते। Page #94 -------------------------------------------------------------------------- ________________ तृतीयो विभाग: अनुभव और स्मृति के योग से उत्पन्न, यह वही है, वह उसके समान है, यह उससे विलक्षण है, यह उसका प्रतियोगी है, ऐसे संकलात्मक ज्ञान को प्रत्यभिज्ञा कहा जाता है। जैसे- यह वही वलभी है जहाँ देवर्धिगणी ने आगम वाचना की थी, गवय गौ के समान है, महिष गौ से विलक्षण है, यह वस्तु इससे दूर है, यह इससे निकट है। कहीं-कहीं केवल दो स्मृतियों और दो अनुभवों के संकलन से भी प्रत्यभिज्ञान हो जाता है। न्या. प्र.- अनुभवस्य स्मृतेश्च योगेन एकमेतादृशं ज्ञानमुत्पद्यते यत्र एतादृशी प्रतीतिर्भवति यत् इदं तदेव, तत्सदृशमिदम्, तद्विलक्षणमिदम् तत्प्रतियोगि 'इदम्' इत्येवं रूपेण यत् संकलनात्मकं ज्ञानं भवति तत् प्रत्यभिज्ञा इत्युच्यते। प्रत्यभिज्ञायां ज्ञानद्वयं भवति- एकं स्मरणात्मकम्, अपरञ्च प्रत्यक्षात्मकम्। स्मरणात्मकज्ञानस्य प्रतीति: 'तत् शब्देन' भवति । प्रत्यक्षात्मकज्ञानस्य प्रतीतिश्च 'इदं शब्देन' भवति। तत् शब्दस्य इदं शब्दस्य च सहैव प्रयोगात् इदं ज्ञानं तत्ता इदन्तावगाहि ज्ञानमित्युच्यते। यथा- सा एव इयं वलभी यत्र देवर्धिगणिना आगमवाचना कृता। अत्र 'सा' इति तत् शब्देन पूर्वदृष्टा वलभी स्मर्यते तथा इयमिति इदं शब्देन तस्याः प्रत्यक्षता प्रतिपाद्यते । प्रत्यक्षस्मरणयोरेकत्र समावेशादिदं ज्ञानं संकलनाज्ञानमिति कथ्यते । एकत्वं सादृश्यं वैसादृश्यञ्चादाय अर्थद्वयस्य संघटनमेव संकलनम्। अथवा यत्रानेकं ज्ञानं संमिल्य एकतामाधत्ते तदपि संकलनमेव। उपर्युक्ते उदाहरणे तत् शब्देन इदं शब्देन च यद्यपि ज्ञानद्वयं प्रतीयते तथापि Page #95 -------------------------------------------------------------------------- ________________ ६२ भिक्षुन्यायकर्णिका तयोरेकात्मिकैवानुभूतिरिति संकलनात्मकं ज्ञानमिति वक्तुं शक्यत एव। यत्र च "गोसदृशो गवयः" इत्युच्यते तत्रापि गवयस्य प्रत्यक्षं तथा सादृश्यप्रतियोगितया गोः स्मरणञ्च भवति। इदमपि ज्ञानं प्रत्यक्षात्मकं स्मरणात्मकञ्चेति ज्ञानद्वयघटितमेव। 'गोविलक्षणो महिषः' इत्युक्ते सति गोप्रतियोगिकविलक्षणताया अनुयोगी महिषो भवतीति अत्रापि महिषस्य प्रत्यक्षात्मकं ज्ञानं तथा तन्निष्ठं वैलक्षण्यज्ञानन्तु पूर्वतो निर्धारितं स्मरणात्मकं चेति ज्ञानद्वयस्य संकलनमत्रापि वर्तत एव। इदमत्र बोध्यं यत् उपमानं द्विधा भवति साधर्म्यतो वैधयंतश्च। साधर्म्यतः चन्द्रवन्मुखमित्यादौ प्रसिद्धम्। वैधर्म्यतस्तु प्रत्यभिज्ञायाः प्रस्तुते उदाहरणे दृश्यत एव। इदमस्मात् दूरं नेदीयो वेति यत्रोच्यते तत्र इदमः प्रयोगद्वयमस्तिएकन्तु प्रथमैकवचनान्तम्, द्वितीयञ्च तदीयं पञ्चम्यन्तम्। द्वाभ्यां पदाभ्यां स्थानद्वयस्य भेदप्रयुक्तं ज्ञानमपि द्वैविध्यमासादयतीति ज्ञानद्वयस्य संकलनात्मकमेवेदमपि ज्ञानमिति न संशयः। प्रत्यभिज्ञाविषये प्रश्नोऽयं समुदेति यत् प्रत्यभिज्ञायाः उदयः इन्द्रियसंस्काराभ्यां भवति चेत् शुद्धानुभवरूपमिदं ज्ञानमिति कथं वक्तुं शक्येत? अस्योत्तरमिदं वेदितव्यं यत् प्रत्यभिज्ञा अनुभवरूपेणैव गृह्यते न तु स्मरणरूपेणापि । अतः सा शुद्धानुभवरूपैव। यदि तत्र स्मरणरूपतापि स्यात् तदा Page #96 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ६३ कदाचित् स्मरणरूपेऽपि तस्याः स्मरणं स्यात् । न च भवतीत्थमिति प्रत्यभिज्ञानमेकमेवानुभवात्मकं ज्ञानम् अथवा यथा किञ्चित् वस्तु उष्णं भवति, किञ्चित् शीतं भवति किञ्चिच्च अनुष्णाशीतं भवति । उष्णशीताभ्यां विलक्षणो विजातीयोऽयं स्पर्शः । अनेनैव प्रकारेण प्रत्यभिज्ञा न स्मृतिरूपा, न वा अनुभवरूपा, अपितु स्मृत्यनुभवाभ्यां भिन्नो ज्ञानस्य तृतीयोऽयं प्रकारः । न्यायदर्शने यत्र स्मृतिरनुभवश्चेति ज्ञानद्वयं स्वीकृतमास्ते तत्रानेन प्रकारेण ज्ञानस्य त्रैविध्यमिति वक्तुं शक्यते । तत्र संस्काराजन्यं ज्ञानमनुभवः । संस्कारमात्रजन्यं ज्ञानं स्मृति: संस्कारेन्द्रियो भयजन्यं ज्ञानं प्रत्यभिज्ञेतिवक्तुं शक्यमेव । आचार्यो हेमचन्द्रस्तु प्रत्यभिज्ञाविषये एवं कथयति यत् प्रत्यभिज्ञायां ज्ञानद्वयं भवतीति कथनं न समीचीनं यतोहि अत्र तु पूर्वापराकारसम्मिलितमेकमेव द्रव्यं भासते । न चेदं द्रव्यं स्मरणस्य विषय इति वक्तुं शक्यते स्मरणस्य अनुभूत विषयत्वात् । न चेदमेकं द्रव्यं केवलं स्मृतेर्विषयः । एवमेवेदं द्रव्यं न प्रत्यक्षस्य विषयः प्रत्यक्षस्य वर्तमानविवर्तमात्र (पर्यायमात्र) ग्राहित्वात् । प्रत्यभिज्ञाविषये तु न केवलं वर्तमानकालविषयत्वमपितु अंत्र भूतकालविषयत्वमप्यस्ति । दर्शनस्मरणाभ्याम् अन्यत् अत्र ज्ञानं नास्तीति कथनमप्ययुक्तमेव यतो हि अत्र दर्शनस्मरणोत्तरं ज्ञानान्तरस्यानुभूतिर्भवत्येव । न चानुभूतेरपलापो युक्तः । तस्मात् अत्र एवं सिद्धयति यत् दर्शनस्मरणाभ्यां भिन्नमुभयज्ञानविलक्षणमेकमेवानुभवात्मकं ज्ञानं प्रत्यभिज्ञेति । Page #97 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका इदं प्रत्यभिज्ञानं व्यस्ताभ्यामपि दर्शनस्मरणाभ्यां भवति क्वचित् । यथा- इदम् अस्मात् भिन्नम् इतिज्ञानम् स्मरणरहितात् केवलं दर्शनद्वयादेव जायते। तस्मात् भिन्नं तदिति ज्ञानं दर्शनरहितात् केवलं स्मरणद्वयात् जायते। अत्र वाक्ये वारद्वयं तत् शब्दस्योल्लेखः स्मरणद्वयं प्रत्याययत्येव। इदं प्रत्यभिज्ञाज्ञानं परोक्षज्ञानान्तर्गतं ज्ञानम् । इन्द्रियजन्यज्ञानात् स्मरणाच्च पश्चात्वर्ति संकलनात्मकमेकं विजातीयं मानसं ज्ञानमस्ति। प्रतिपादनमिदं जैनदर्शनस्य न्यायदर्शनेन समान मेवेति वदन्ति विज्ञाः। इदानीं परोक्षप्रमाणे मतिज्ञानभेदं तर्क निरूपयन् सूत्रयतिअन्वयव्यतिरेकनिर्णयस्तर्कः। साधने सति साध्यस्य, साध्ये एव वा साधनस्य भावः अन्वयः यथा-यत्र धूमस्तत्राग्निः अग्नावेव वा धूमः । साध्याभावे साधनाभावः व्यतिरेकः, यथा-अग्न्यभावे न धूमः। अन्वय और व्यतिरेक के निर्णय को तर्क कहा जाता है। ___ साधन के होने पर साध्य का होना अथवा साध्य में ही साधन का होना 'अन्वय' है, जैसे- जहाँ धूम होता है वहाँ अग्नि होती है अथवा धूम अग्नि में ही होता है। साध्य के अभाव में साधन का अभाव होना व्यतिरेक है, जैसे- अग्नि के अभाव में धूम का न होना। 7. Page #98 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ६५ न्या. प्र.- अन्वयस्य व्यतिरेकस्य च निर्णय एव तर्कः। कोऽयमन्वयः, कश्च व्यतिरेक इति जिज्ञासायामिदं बोध्यं यत्... तत्सत्वे तत्सत्वम् अन्वयः; तदभावे तदभावो व्यतिरेकः। यथा— धूमसत्वे अग्निसत्वमन्वयः। अग्न्यभावे धूमाभावो व्यतिरेकः॥ इदमत्र बोध्यं यत् व्याप्येन व्यापकं साध्यते (अनुमीयते)। येन किमपि वस्तु साध्यते तत् साधनमित्युच्यते । यच्च वस्तु साध्यते तत् साध्यं भवति । साधनं व्याप्यमल्पदेशवृत्ति भवति । साध्यञ्च व्यापकमधिकदेशवृत्ति भवति। प्रस्तुतप्रकरणे धूमो व्याप्य: अग्निश्च व्यापक इति स्थितिः । अत एवाल्पदेशवृत्तिना साधनेन धूमेन अधिकदेशवृत्तिरग्निः साध्यते। पर्वतादौ दृष्टि पथमायातेन धूमेन अदृश्योऽग्निः साध्यत एवेति एतादृशस्थलेऽन्वयव्यतिरेकनिर्णय कर्तव्य एव । एतादृशनिर्णय एव तर्कः। तर्कोऽयं भवत्युपयोगी अनुमाने। साधने धूमे सति साध्यस्य भाव एव। धूमे सति अग्निर्भवत्येव अन्यथा साध्यस्याग्नेापकता एव भज्येत । एवं साध्ये अग्नौ सत्येव धूमो भवति। अग्न्यभावे तु धूमस्यास्तित्वं नैव भवितुमर्हति । सारल्येनेदमेवतथ्यमेवं शक्यते वक्तुम् - यत्र यत्र धूमस्तत्र तत्राग्निः। यत्र अग्न्यभावस्तत्र धूमाभावः। इदमत्रावधेयं यत् - यत्र यत्र धूमस्तत्र तत्र अग्निरिति अन्वयव्याप्तिः। यत्र २ आन्यभावस्तत्र २ धूमाभाव इति Page #99 -------------------------------------------------------------------------- ________________ ६६ 1. भिक्षुन्यायकर्णिका व्यतिरेकव्याप्तिः । अन्वयव्याप्तौ साधनं धूमो व्याप्यो भवति, साध्यो वह्निश्च व्यापको भवति किन्तु व्यतिरेकव्याप्तौ तु साध्याभावो व्याप्यो भवति, साधनाभावश्च व्यापको भवति । अयंभाव :- उपर्युक्तयोरुभयोर्व्याप्तयोरिदमन्तरमस्ति यत् अन्वयव्याप्तौ हेतुर्व्याप्यो भवति साध्यञ्च व्यापकं भवति, किन्तु अन्वयव्याप्तौ यद्व्याप्यं भवति तदभावो व्यतिरेकव्याप्तौ व्यापको भवति । तथा अन्वयव्याप्तौ यद् व्यापकं भवति तदभावो व्यतिरेक व्याप्तौ व्याप्यो भवति । दृश्यते चापि अन्वयव्यासौ व्याप्यस्य धूमस्याभावः, व्यतिरेकव्याप्तौ व्यापकतामु पैति । यथा यत्र २ अग्न्यभावस्तत्र २ धूमाभाव इति । एवमेवान्वयव्याप्तौ व्यापकस्याग्नेर भावो व्यतिरेकव्याप्तौ व्याप्यतामुपैति । अत उच्यते यत्र २ अग्न्यभावस्तत्र तत्र धूमाभाव इति । अग्न्यभावे धूमस्यास्तित्वं भवितुमर्हत्येव नेति व्यतिरेकव्याप्त्या व्यक्तीकृतम् । अयमत्रसारः अग्नौ सत्येव धूमो भवति, अग्न्यभावे न भवति इत्याकारकं ज्ञानं तर्क इत्युच्यते । अस्य तर्कस्य विषयः अग्निधूमयोरविनाभावोऽस्ति । अविनाभावी हेतुरेव साध्यसाधने क्षम इति न्यायशस्त्रीयसरणिः । अयं तर्क एव व्याप्तिपदेनाप्यभिधीयत इति ज्ञेयम् । परोक्षप्रमाणे क्रमशः प्राप्तं मतिज्ञानान्यतममनुमानं व्याख्यातुकामः सूत्रमवतारयति अन्वये साधनं व्याप्यं साध्यं व्यापकमिष्यते तदभावोऽन्यथा व्याप्यो व्यापकः साधनात्यः । श्लोक वार्तिक 122 Page #100 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ६७ 8. साधनात् साध्यज्ञानमनुमानम्। साधन के द्वारा साध्य का ज्ञान करने को अनुमान कहते हैं। न्या. प्र.- येन किमपि वस्तु साध्यते तत् साधनम् । यत् किमपि साध्यते तत् साध्यमिति कथ्यते। साधनं साध्यं गमयति-बोधयति। साधनस्य नामान्तरं हेतुः लिङ्गं चास्ति। साधनं व्याप्यं भवति साध्यञ्च व्यापकं भवति। व्याप्यस्य स्थलमल्पं भवति, व्यापकस्य स्थलञ्चाधिकं भवति । धूमाग्न्योः स्थले इदं द्रष्टं शक्यते। धूमोऽल्पदेशवृत्तिः, अग्निश्चाधिकदेशवृत्तिरस्ति इति विदितमेव। धूमाभावस्थले तप्तायोगोलके अग्नेः सत्वमेव तथ्यमिदं सत्यापयति। प्रत्यक्षवत् अनुमानमप्येकं प्रमाणमस्ति। प्रमाणं प्रमाकरणं भवति । प्रमा च यथार्थज्ञानस्वरूपाऽस्ति। यस्य वस्तुनो ज्ञानं प्रत्यक्षप्रमाणतो न भवति तदीयं ज्ञानमनुमानेन क्रियते। अनुमानात् यद् ज्ञानं भवति तदनुमितिरित्युच्यते। अतएवोक्तम् अनुमितिकरणमनुमानम्। इदमनुमानं साध्यसाधनयोरन्वयव्यतिरेकनिर्णयोपरि आधृतं भवति । अन्वयव्यतिरेकनिर्णय एव व्याप्त्यपरपर्यायस्तर्कः। साध्येन सह साधनस्यान्वयव्यतिरेकनिर्णये जाते एव साधनम्, अविनाभावी हेतुः सद्हेतुः वेति वक्तुं शक्यते । सद्हेतुरेव व्याप्तिबलेन तर्कबलेन वा स्वसाध्यस्य गमकं भवति। यथा साध्ये अग्नौ सत्येव धूमस्य भावोऽस्तित्वं भवति। अग्न्यभावे तु धूमस्य सत्त्वं भवितुं कदापि नाहतीति अन्वयव्यतिरेकबलात् धूमो भवति Page #101 -------------------------------------------------------------------------- ________________ ६८ भिक्षुन्यायकर्णिका अग्नेरविनाभावी हेतुरिति धूमेन वह्निरनुमीयत एव। साधनेन साध्यस्य सिद्धिप्ति भवतीति कथिते सति जिज्ञासा भवति यत् किमिदं साध्यं नाम? अस्यां जिज्ञासायामुच्यते सिसाधयिषितं साध्यम्। व्याप्तौ धर्म एव, यथा-यत्र यत्र धूमस्तत्र तत्र वह्निः । अनुमितौ तु साध्यधर्मविशिष्टो धर्मी', यथा-अग्निमान् पर्वतः। धर्मी एव पक्षः । पक्षवचनं प्रतिज्ञा। जिसे सिद्ध करना इष्ट होता है, उसे साध्य कहते हैं। व्याप्तिकाल में धर्म ही साध्य होता है, जैसे- जहाँजहाँ धूम है वहाँ-वहाँ अग्नि है, यहाँ अग्नि साध्य है। अनुमान में साध्यधर्मविशिष्ट धर्मी साध्य होता है, जैसेअग्निमान् पर्वत। धर्मी को ही पक्ष कहा जाता है। पक्ष के प्रस्तुतीकरण का नाम प्रतिज्ञा है। 1.. अयं क्वचिद् बुद्धिसिद्धः (विकल्पसिद्धः) यथा-अस्ति सर्वज्ञः । अत्र सर्वज्ञस्याऽस्तित्वे साध्ये सर्वज्ञो बुद्धिसिद्धः, नासौ ह्यस्तित्वसिद्धेः प्राक् प्रत्यक्षादिप्रमाणसिद्धः । क्वचित् प्रमाणसिद्धः, यथा--अग्निमानयं प्रदेशः । अत्र धूमवत्त्वाद् अग्निमत्त्वे साध्ये तस्य प्रदेश: पर्वतः खलु प्रत्यक्षेणाऽनुभूयते। क्वचिदुभयसिद्धः, यथा-अनित्यः शब्दः । अत्र वर्तमानः शब्दः प्रत्यक्षगम्यो भूतभविष्यश्च बुद्धिगम्यः। Page #102 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ६९ न्या. प्र.- साधयितुमिष्टं सिषाधयिषितम् । यं साधयितुमिच्छा भवति स एव सिषाधयिषितं साध्यं वा कथ्यते। अयमत्र क्रमः- प्रथमं महानसादौ भूयो भूयो धूमं पश्यन् अग्निं पश्यति। तेन भूयो दर्शनेन धूमाग्न्योः स्वाभाविकं सम्बन्धमवधारयतियत्र २ धूमस्तत्र तत्र वह्निरिति। धूमाग्न्योरयं स्वाभाविक: संबंध एव व्याप्तिपदेनापि कथ्यते। अनेन इदं व्यक्तं भवति यत् अग्ने व्याप्तिः धूमे तिष्ठति। अत एव व्याप्त्याश्रयत्वात् धूमो व्याप्यो भवति अग्निश्च व्यापको भवति । व्यासिबलेनैव धूमो वह्निम् अनुमापयति । तत्रानुमितौ क्वचित् धर्मो वह्निः साध्योभवति । यथा यत्र तत्र धूमस्तत्र तत्र वह्निरिति व्याप्तिकाले वह्निरेव साध्यः। अनुमितौ साध्यधर्मविशिष्टो धर्मी अर्थात् साध्यधर्मवह्निविशिष्टो वह्निमान् पर्वत एव साध्यो भवति । वह्निमानयं पर्वत इत्युदाहरणम् । धर्मी एव पक्षो भवति। प्रस्तुत स्थले धर्मी पर्वत एव पक्षः। न्यायदर्शने तु संदिग्धसाध्यवान् पक्षो भवति । यत्र साध्यस्य संदेहः स्यात् स एव पक्षः। यथा पर्वते अविच्छिन्नमूलां धूमरेखां पश्यन् जनः संदिह्यति यत् पर्वतोऽयमग्निमान् न वेति । एतादृशसंदेहस्यास्पदं पर्वत एवेति संदिग्धसाध्यवान् पर्वतः पक्षः। पक्षस्य वचनं कथनमेव प्रतिज्ञा इत्युच्यते। यथा पर्वतो वह्निमान् इति प्रतिज्ञा। अत्र पर्वत रूपस्य पक्षस्य कथनं कृतमस्तीति प्रतिज्ञावाक्यमिदम्। पक्षे यद् विषययिणी प्रतिज्ञा क्रियते तदेव साध्यं भवति । उपरि पर्वतो वह्निमान् इति प्रतिज्ञावाक्ये वह्निरेव साध्यमस्ति। साध्यस्य सिद्धिः ज्ञप्तिर्ज्ञानं वा साधनमन्तरा न भवितुमर्हतीति साधनं लक्षयति Page #103 -------------------------------------------------------------------------- ________________ ७० 10. निश्चितसाध्यविनाभावि साधनम् । निश्चितं साध्येन विना अभवनं यस्य तत्साधनम् । साधनवचनं हेतुः । जो निश्चित रूप से साध्य का अविनाभावी (साध्य के विना नहीं होने वाला) होता है। उसे साधन कहते हैं । भिक्षुन्यायकर्णिका वह साध्य के विना जिसका न होना निश्चित है, साधन है । साधन के प्रस्तुतीकरण का नाम हेतु है । न्या. प्र.- यः खलु निश्चितरूपेण साध्यस्य अविनाभावी भवति अर्थात् साध्यं विना यस्यास्तित्वं न संभवेत् स साध्याविनाभावी एव साधनमित्युच्यते । यथा धूमस्यास्तित्वं वह्निं विना भवितुं नार्हतीति वह्नौ साध्ये धूमः साधनं भवति । साधनस्य वचनं कथनं - प्रस्तुतीकरणमेव हेतो: प्रस्तुतीकरणं भवति । हेतोः कथनं प्राय: पञ्चम्यन्तत्वेन भवति । यथा पर्वतो वह्निमान् धूमात् । पर्वतस्य वह्निमत्वे विधेये धूम एव हेतुर्भवतीति धूमस्यात्रोपादानं पञ्चम्यन्तत्वेन कृतमस्ति । दशमे सूत्रे साधनस्य अविनाभावित्वमुक्तम्। स चाविनाभावः कीदृश इति वक्तुमुपक्रमते — 11. सहक्रमभावनियमो ऽविनाभावः । व्याप्ति - सम्बन्ध-प्रतिबन्धादयः अस्य पर्यायाः । सहभाव और क्रमभाव के नियम को अविनाभाव कहते हैं । Page #104 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ७१ व्याप्ति, सम्बन्ध, प्रतिबन्ध आदि अविनाभाव के पर्यायवाची नाम हैं। न्या. प्र.- सहभावस्य क्रमभावस्य च यो नियमः स एव अविनाभावः । व्याप्ति: सम्बन्ध: प्रतिबन्धादयः अविनाभावस्य पर्यायाः सन्ति । अयं सहभावः क्रमभावश्च कुत्र कुत्र भवतीति जिज्ञासायां सूत्रद्वयमवतारयति 12. सहचरयोर्व्याप्यव्यापकयोश्च सहभावः। सहचरयोः यथा- फलादिगतरूपरसयोः । व्याप्यव्यापकयोः, यथा- चन्दनत्ववृक्षत्वयोः । दो सहचरों और व्याप्य-व्यापक का सहभाव होता है। __सहचरों का सहभाव, जैसे- फल में रूप और रस सहचारी हैं। व्याप्य-व्यापक, जैसे- वृक्षत्व व्यापक है और चन्दनत्व व्याप्य है। न्या. प्र.- सह चरतः इति सहचरौ तयोः सहचरयोः सहभावो भवति । यथा एकस्मिन्नेव फले रूपं रसश्च सहैव तिष्ठत इति अनयोः सहभावोऽस्ति । एवमेव व्याप्यव्यापकयोरपि सहभावो भवति । यथा वृक्षत्वं व्यापकम् तथा चन्दनत्वं व्याप्यमस्ति। वृक्षत्वचन्दनत्वञ्चेत्युभे चन्दनवृक्षे सहैव तिष्ठत इति व्याप्यव्यापकयोः सहभावः स्पष्ट एव। इदानीं क्रमभावं सोदाहरणं प्रस्तौति Page #105 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका 13. पूर्वोत्तरचरयो: कारणकार्ययोश्च क्रमभावः । पूर्वोत्तरचरयोः, यथा-रविवारसोमवारयोः । कारणकार्ययोः, यथा-अग्निधूमयोः। पूर्वचर और उत्तरचर तथा कारण और कार्य में क्रमभाव होता है। पूर्वचर और उत्तरचर का क्रमभाव, जैसे- रविवार के पश्चात् सोमवार आता है। कारण और कार्य का क्रमभाव, जैसे- अग्नि कारण है, धूम उसका कार्य है। न्या. प्र.- चरति वर्तत इति चरः पूर्वं चरति इति पूर्वचर:, उत्तरं चरति इति उत्तर चरः। अत्र चरतिर्गमनार्थको विद्यमानार्थको वेति बोध्यम् । अत्र पूर्वोत्तरचर यो: रविवारसोमवारयोः क्रमभावोऽस्ति । पूर्वं रविवासरः उत्तरञ्च सोमवासरः। अत: पूर्वभाविना रविवासरेणाद्य सोमवासर इति ज्ञायते । एवमेव यथा पूर्वचरः उत्तरचरं बोधयति तथैव उत्तरचरोऽपि पूर्वचरं बोधयति । यथा ह्यः रविवासरः अद्य सोमवासरात् । अत्रोत्तरचरेण सोमवासरेण ह्यः रविवासरो बोधितः। एवमेव कारणकार्ययोरपि क्रमभावो भवति। अग्निधूमस्थले अग्निः कारणमस्ति, धूमश्च कार्यमस्ति । कारणं पूर्वं भवति, कार्यनियतपूर्ववृत्तित्वात् कारणस्य । कार्यञ्च पश्चात् भवति । Page #106 -------------------------------------------------------------------------- ________________ तृतीयो विभाग: ७३ एवञ्च पूर्वपश्चाद्भावित्वरूपः क्रमभावोऽत्रापि स्पष्ट एवास्ति। अविनाभाविनो हेतून् प्रस्तुत्य केन हेतुना कीदृशं कार्यं भवतीति प्रतिपादयितुकामः सूत्रमवतारयति 14. स्वभावः सहभावः क्रमभावश्च भावाभावाभ्यां विधिप्रतिषेधयोः। स्वभावादयः स्वस्य भावेन अभावेन वा अपरस्य भावं साधयन्तो विधेः, अभावं साधयन्तश्च प्रतिषेधस्य हेतवो भवन्ति। स्वभाव, सहभाव और क्रमभाव अपने भाव (अस्तित्व) या अभाव (नास्तित्व) से विधि तथा प्रतिषेध के हेतु बनते हैं। स्वभाव आदि अपने भाव या अभाव से वस्तु के भाव (अस्तित्व) को साधते हुए विधि हेतु और अभाव (नास्तित्व) को साधते हुए प्रतिषेध हेतु कहलाते हैं। उनके चार वर्ग होते हैं :1. भावात्मक विधिसाधक 2. अभावात्मक विधिसाधक 3. भावात्मक __ प्रतिषेधसाधक 4. अभावात्मक प्रतिषेधसाधक Page #107 -------------------------------------------------------------------------- ________________ ७४ भिक्षुन्यायकर्णिका न्या. प्र.- स्वभावसहभावक्रमभावा हेतवः स्वस्य भावेन अस्तित्वेन, अभावेन नास्तित्वेन च विधिप्रतिषेधहेतवो भवन्ति। अस्यायं भाव:- स्वभावादयो हेतवः स्वस्य भावेन स्वकीयेन अस्तित्वेन अभावेन– नास्तित्वेन वा अपरस्य–साध्यस्य भावं साधयन्तः विधिहेतवस्तथा अपरस्य-साध्यस्य अभावं - साधयन्तश्च प्रतिषेधहेतवो भवन्ति। एक एव हेतुः स्वकीयेन भावेन साध्यस्य भावम् अभावञ्चेत्युभयमपि साधयति। एवमेव अभावेनाप्यसौ साध्यस्य भावम् अभावञ्चेत्युभयमपि साधयति। यदाऽसौ भावं साधयति तदाऽसौ भावहेतुः यदा चाभावं साधयति तदा पुनरसौ प्रतिषेधहेतुरिति विवेकः। अनेन प्रकारेण हेतोश्चत्वारः प्रकाराः (वर्गाः) भवन्ति। तद्यथा१. भावात्मक: -. विधिसाधक: २. अभावात्मकः - विधिसाधक: ३. भावात्मक:- प्रतिषेधसाधकः ४. अभावात्मकः - प्रतिषेधसाधक: स्वकीयेन भावेन साध्यस्यास्तित्वं साधयन्तो ये विधिहेतवः सन्ति तेषां सप्तभेदाः सन्ति । तद्यथा Page #108 -------------------------------------------------------------------------- ________________ ७५ तृतीयो विभागः 1. भावेन विधिहेतवः (क) स्वभाव :- अनित्यं गृहम्, कृतकत्वात्। (ख) सहचर :- आने रूपम्, रसात्। (ग) व्याप्य :- अस्त्यत्र वृक्षत्वम्, निम्बात् । (घ) पूर्वचर :- अद्य सोमवारः, ह्यो रविवार श्रुतेः । (ङ) उत्तरचरः- अद्य रविवारः, श्वः सोमवारश्रुतेः । (च) कार्यम् :- सादित्यं नभः आतपात्। (छ) कारणम् :- भाविनी वृष्टिः, विशिष्टमेघोन्नतेः । भावात्मक विधिसाधक हेतु के सात प्रकार हैं : (क) स्वभाव-विधिहेतु- घर अनित्य है, क्योंकि वह कृतक है। यहाँ कृतकता अनित्यता का स्वभाव हेतु है। (ख) सहचर-विधिहेतु- आम में रूप हैं, क्योंकि उसमें रस है। यहाँ 'रस' रूप का सहचर हेतु है। (ग) व्याप्य-विधिहेतु- यहाँ वृक्षत्व है, क्योंकि नीम उपलब्ध हो रहा है। यहाँ नीम व्यापक वृक्षत्व का व्याप्य-हेतु है। (घ) पूर्वचर-विधिहेतु- आज सोमवार है, क्योंकि कल रविवार था। यहाँ रविवार सोमवार का पूर्वचर हेतु है। Page #109 -------------------------------------------------------------------------- ________________ ७६ भिक्षुन्यायकर्णिका (ङ) उत्तरचर-विधिहेतु- आज रविवार है, क्योंकि कल सोमवार होगा। यहाँ सोमवार रविवार का उत्तरचर हेतु है। (च) कार्य-विधिहेतु- आकाश में सूर्य है, क्योंकि धूप दिखाई दे रही है। यहाँ आतप सूर्य का कार्य हेतु है। (छ) कारण-विधिहेतु- वर्षा होने वाली है, क्योंकि विशिष्ट मेघ मंडरा रहा है। यहाँ मेघ वर्षा का कारण हेतु है। भावेन विधिहेतवः(क) स्वभावो विधिहेतु:- अनित्यं गृहं कृतकत्वात्। अत्र कृतकत्वम् अनित्यत्वस्य स्वभावहेतुरस्ति। अनित्यं वस्तु कृतकमेव भवतीति कृतकत्वस्य स्वभावहेतुत्वे न कश्चन विसंवादः। (ख) सहचरो विधिहेतु:- आमे रूपं रसात् । आने यदा मधुरो रसो भवति तदा तदीयं परिवर्तते रूपम् । तस्य च रजन्यामास्वाद्यमानस्य आम्रस्य रसमास्वाद्य तत्र रूपानुमानं भवति । वस्तुतस्तु अत्र रूपरसयोर्जनिका एकैव सामग्री। Page #110 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ७७ रसमासाद्यसामाग्र्यनुमानम्। यया सामग्र्या रसस्तयैव रूपमपीति सहचरहेतुना रसेन रूपानुमानम्। (ग) व्याप्यो विधिहेतु:- अस्त्यत्र वृक्षत्वम् निम्बात्। अत्र निम्बो व्यापकस्य वृक्षस्य व्याप्योऽस्ति । अयं व्याप्यो हेतुः वृक्षस्यास्तित्वं बोधयतीति विधिहेतुरयम्। (घ) पूर्वचरो विधिहेतु:- अद्य सोमवासरः ह्यो रविवारश्रुतेः । अत्र ह्यः अतीतेन रविवासरेण अद्य सोमवासरः इति ज्ञानं जायते। अत्र रविवारः पूर्वचरो विधिहेतुरस्ति। (ङ) उत्तरचरो विधिहेतु:- उत्तरचर: पूर्वचरमनुमापयति । अद्य रविवारः श्वः सोमवारश्रुतेः। सोमवारः रविवारात् उत्तरचरोऽस्ति। अयमुत्तरचरः सोमवारः अद्य वर्तमानस्य रविवारस्य अस्तित्वानुमापक इति विधिहेतुरेव। (च) कार्य विधिहेतुः- सादित्यं नभः आतपात् । आतपं Page #111 -------------------------------------------------------------------------- ________________ ७८ 1. (छ) कारणं विधिहेतुः भाविनी वृष्टिः विशिष्टमेघोन्नतेः । मेघात् जायते वृष्टिरिति मेघो वृष्टेः कारणम् । विशिष्ट मेघस्तु वृष्टिं कदापि न व्यभिचरति । अनेन प्रकारेण अस्तित्ववान् मेघो वृष्टेरस्तित्वं साधयन् विधिहेतुरयम् । अभावेन विधिहेतव : 2. भिक्षुन्यायकर्णिका सूर्यस्य कार्यमस्ति । अयं कार्यहेतुः स्वकीयेनास्तित्वेन सूर्यस्यास्तित्वं बोधयतीति विधिहेतुरयम् । विशिष्ट मेघ स्वरूपं तु इत्थम् - गम्भीरगर्जितारम्भनिर्भिन्नगिरिगह्वराः । त्वङ्गत्तडिल्लतासङ्गपिशङ्गोत्तुंग विग्रहाः ॥ अनेकान्तात्मकं वस्तु, एकान्तस्वभावानुपलब्धेः । अभावात्मक - विधिसाधक हेतुस्वयं के नास्तित्व से वस्तु के अस्तित्व को सिद्ध करने वाले हेतु अभावात्मक -विधिसाधकहेतु कहलाते हैं। जैसेवस्तु अनेकान्तात्मक है । क्योंकि एकान्तस्वभाव की अनुपलब्धि है । रोलम्बगवलव्यालतमालमलिर्नात्त्रषः । वृष्टिं व्यभिचरन्तीह नैवं प्रायाः पयोमुचः ॥ न्यायमञ्जरी पृ. 129 Page #112 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ७९ यहाँ एकान्तस्वभाव की अनुपलब्धि से वस्तु की अनेकान्तता सिद्ध की गई है। अभावेन विधिहेतवः-यो हेतुः स्वकीयनास्तित्वेन कस्यचिद्वस्तुनः अस्तित्वं साधयति स हि अभावात्मको विधिसाधको हेतुरित्युच्यते। वस्तु अनेकान्तात्मकं भवति यतो हि तस्य एकान्तस्वभावो नोपलभ्यते। अत्र एकान्त स्वभावस्यानुपलब्ध्या वस्तुनोऽनेकान्तता साध्यते। 3.. भावेन प्रतिषेधहे तव :- नास्त्येव सर्वथैकान्तः अनेकान्तस्योपलम्भात्। भावात्मक प्रतिषेधसाधकहेतु- जो हेतु अपने अस्तित्व से वस्तु के नास्तित्व को सिद्ध करते हैं वे भावात्मक प्रतिषेधसाधकहेतु कहलाते हैं, जैसे सर्वथा एकान्त नहीं है। क्योंकि वस्तु में अनेकान्त स्वभाव उपलब्ध है। यहाँ अनेकान्त की उपलब्धि से एकान्त के नास्तित्व की सिद्धि की गई है। न्या. प्र.-भावेन प्रतिषेधहेतवः- यो हेतुः स्वकीयेन Page #113 -------------------------------------------------------------------------- ________________ ८० ___4. भिक्षुन्यायकर्णिका अस्तित्वेन कस्यचिद् वस्तुनो नास्तित्वं साधयति स खलु भावात्मको हेतुः प्रतिषेधस्य साधको हेतुः। यथा- नास्ति सर्वथा एकान्तः अनेकान्तस्य उपलंभात्। अत्रानेकान्तस्योपलब्ध्या एकान्तस्य नास्तित्वं साधितमिति भावात्मको हेतुः अभावस्य साधकोऽत्र बोध्यः । अभावेन प्रतिषेधहेतव :- नात्र पुस्तकम्, दृश्यानुपलब्धेः। अन्यानि उदाहरणनि स्वयं बोध्यानि'। अभावात्मक प्रतिषेधसाधकहेतु- अपने नास्तित्व से वस्तु के नास्तित्व को सिद्ध करने वाले हेतु अभावात्मक प्रतिषेधसाधक हेतु कहलाते हैं। यहाँ पुस्तक नहीं है क्योंकि यहाँ कोई भी दृश्य वस्तु उपलब्ध नहीं है। यहाँ दृश्य वस्तु के अभाव से पुस्तक के अभाव की सिद्धि की गई है। विधि, प्रतिषेध के अन्य उदाहरण स्वयं ज्ञातव्य है : 1. देखें परिशिष्ट 1/1 Page #114 -------------------------------------------------------------------------- ________________ तृतीयो विभागः न्या. प्र.- अभावेन प्रतिषेधहेतवः स्वकीयेन नास्तित्वेन वस्तुनो नास्तित्वं साधयन् हेतुः अभावात्मकः प्रतिषेधसाधकः कथ्यते। यथा- नास्ति पुस्तकं दृश्यानुपलब्धेः अत्र पुस्तकं नास्ति यतो हि अत्र दृश्यं किमपि वस्तु नास्ति। अत्र दृश्यानुपलब्धिरिति अभावात्मको हेतुः अत्र पुस्तकाभावं साधयतीति अभावेन प्रतिषेधहेतुरयम्। साधनात् साध्यज्ञानमनुमानमिति अष्टमसूत्रोक्त्या साधनस्य लिङ्गस्य अनुमितौ महत्त्वपूर्ण स्थानम्। तृतीयविभागस्याष्टमसूत्रस्य विवेचनावसरे व्याख्यातमेतत् विस्तरेण । तस्य हेतोः प्रयोगः कथं भवतीति प्रतिपादयितुकामः सूत्रयति 15. तथोपपत्त्यन्यथानुपपत्तिभ्यां तत्प्रयोगः। तथोपपत्तिः अन्वयः। अन्यथानुपपत्ति: व्यतिरेकः । यथाअग्निमानयं पर्वतः, तथैव धूमोपपत्तेः । अग्निमानयं पर्वतः, अन्यथा धूमानुपपत्तेः । तात्पर्यैक्याद् एकत्रैकस्यैव प्रयोगः । हेतु का प्रयोग तथोपपत्ति और अन्यथानुपपत्ति दोनों से होता है। तथोपपत्ति का अर्थ है अन्वय और अन्यथानुपपत्ति का Page #115 -------------------------------------------------------------------------- ________________ ८२ भिक्षुन्यायकर्णिका अर्थ है व्यतिरेक, जैसे- यह पर्वत अग्निमान् है, क्योंकि यहाँ धूम की उपपत्ति है। (यह अन्वयहेतु है) यह पर्वत अग्निमान है, क्योंकि अग्नि के बिना धूम की अनुपपत्ति है। (यह व्यतिरेकहेतु है) अन्वयी और व्यतिरेकी दोनों हेतुओं से एक ही तात्पर्य निकलता है, इसलिए एक समय में एक ही हेतु का प्रयोग किया जाता है। न्या. प्र.- हेतोः प्रयोगः, तथोपपत्त्या अन्यथानुपपत्त्या च भवति । तथोपपत्तिः अन्वयः अन्यथानुपपत्तिश्च व्यतिरेकः। तत्सत्वे तत्सत्वम् अन्वयः तदभावे तदभावो व्यतिरेकः । अग्निसत्वे एव धूमसत्वम् इत्येवं साध्यसद्भावप्रकारेण हेतो रुपत्तिस्तथोपपत्तिः । व्यतिरेकस्तु एवं भवति अग्निमानयं पर्वतः अन्यथा-अग्न्यभावे धूमानुपपत्तेः । अग्न्यभावे धूमोभवत्येवनेति साध्याभावप्रकारेण हेतोरनुपपत्तिः अन्यथानुपपत्तिः। साध्याभावे साधनाभाव इति व्यतिरेकस्तु स्पष्ट एव। अनयोरन्वयव्यतिरेकयोस्तात्पर्यन्तु एकमेवास्ते। अग्निसत्वे एव धूमो भवति। अग्न्यभावे च न भवति धूमः। क्वचिल्लोहपिण्डादौ सत्यपि अग्नौ नावतिष्ठते धूम इति अल्पदेशवृत्तितया धूमस्य व्याप्यत्वम् । अग्नेश्च व्यापकत्वं निर्विवादम् । अतएव व्याप्येन धूमेन व्यापकोऽग्निरनुमीयत एव । अनयोरन्वयव्यतिरेकयोरेकमेव तात्पर्यम्। अन्वयेन व्यतिरेकेण च यो हेतुः साध्यस्याविनाभावी भवति। स एव स्वसाध्यं साधयितुं क्षमो भवति । यथा धूमः। अस्याञ्च स्थितौ एकस्मिन् समये एकं Page #116 -------------------------------------------------------------------------- ________________ ८३ तृतीयो विभागः साध्यं साधयितुम्, अन्वय व्यतिरेकयोर्मध्येऽन्यतरस्यैव प्रयोगः कर्तव्य इति अत्रत्यं तात्पर्यम्। हेतुं निरूप्य सम्प्रति हेत्वाभासान् निरूपयितुमुपक्रमते 16. असिद्ध-विरुद्ध-अनैकान्तिकास्तदाभासा:'। असिद्ध, विरुद्ध और अनैकान्तिक ये तीन हेत्वाभास हैं। न्या. प्र.- तदाभासाः हेत्वाभासाः । हेत्वाभासशब्दस्यार्थद्वयं भवति अहेतुत्वेऽपि ये हेतुवत् आभासन्ते प्रतीयन्ते ते हेत्वाभासाः। अथवा- हेतोराभासा:-दोषाः हेत्वाभासाः। दुष्टहेतवो दोषयुक्ता वा हेतवो हेत्वाभासपदेनोच्यन्ते। ते च हेत्वाभासा असिद्धविरुद्धानैकान्तिका: इति त्रय एव सन्ति। न्यायदर्शने तु बाधितः सत्प्रतिपक्षश्चेत्यपरावपि द्वौ हेत्वाभासौ स्वीकृतौ स्तः। आचार्यो हेमचन्द्रस्तु त्रयाणां हेत्वाभासानां कथनं संख्यान्तर व्यवच्छेदाय मनुते । स खलु बाधित नामकं हेत्वाभासं पक्षदोषेषु अन्तर्भावयति। अग्निरनुष्णः द्रव्यत्वात् घटवत् । इत्यत्र अग्नावनुष्णत्वं प्रत्यक्षागमाभ्यां बाधितमिति पक्ष दोष एवायम्। सत्प्रतिपक्षस्यापरं नाम वर्तते प्रकरणसमः। एतद् विषये हेमचन्द्रस्येदमभिमतं यत् अविनाभाविना हेतुना सिषाधयिषितस्थले नास्ति संभवोऽनुमानान्तरस्य। तस्मात्रय एव हेत्वाभासा इति निश्चितम्। 1. देखें परिशिष्ट 1/2 Page #117 -------------------------------------------------------------------------- ________________ ८४ भिक्षुन्यायकर्णिका सम्प्रति हेत्वाभासानां लक्षणानि प्रस्तोतुकामः सूत्रमवतारयति 17. अप्रतीयमानस्वरूपोऽसिद्धः। यस्य हेतोरज्ञानात्, सन्देहाद्, विपर्ययाद् वा स्वरूपं न प्रतीयते स असिद्धः', यथा-अनित्यः शब्दः, चाक्षुषत्वात् । -- जिस हेतु का स्वरूप प्रतीत नहीं होता, उसे असिद्ध हेत्वाभाव कहा जाता है। अज्ञान, संदेह या विपर्यय के कारण जिस हेतु के स्वरूप की प्रतीति नहीं होती, वह असिद्ध हेत्वाभास होता है, जैसे- शब्द अनित्य है, क्योंकि वह चाक्षुष है।। न्या.प्र.- प्रतीयते ज्ञायते इति प्रतीयमानम् । तद्भिन्नमप्रतीयमानं स्वरूपं यस्य स अप्रतीयमानस्वरूपो हेतुरसिद्ध इति कथ्यते। कथं तदीयं स्वरूपमप्रतीयमानमिति जिज्ञासायामुच्यते- अज्ञानात्, सन्देहात्, विपर्ययज्ञानाद् वा हेतोः स्वरूपं न प्रतीयते । वस्तुतस्तु यस्मिन् हेतौ व्याप्ति: पक्षवृत्तित्वं वा निश्चितं न भवति स एवासिद्धः। प्रस्तुते उदाहरणे चाक्षुषत्वरूपस्य हेतोः पक्षे शब्दे वृत्तित्वं नैवास्ते इति हेतुरयमसिद्ध इति वेदनीयम्। किं वा न हि चाक्षुषत्वम् अनित्यत्वस्याविनाभावी हेतु:, रूपत्वमनुष्यत्वादीनां चाक्षुषत्वेऽपि तत्र अनित्यत्वस्य वक्तु मशक्यत्वमेव। 1. देखें परिशिष्ट 1/3 Page #118 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ८५ येन इन्द्रियेण या व्यक्तिगृह्यते तन्निष्ठा जातिस्तदभावश्च तेनैवेन्द्रियेणेति नियमात् रूपत्वादीनां चाक्षुषत्वे न कोऽपि संशयः। न्यायदर्शने तु असिद्धस्य त्रयो भेदाः स्वीकृताः सन्ति। १. आश्रयासिद्धो यत्र हेतोराश्रय एवासिद्धः। यथा गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र गगनारविन्दमाश्रयः, स च नास्त्येव। स्वरूपासिद्ध:- शब्दोऽनित्यः चाक्षुषत्वात् घटवत् । अत्र चाक्षुषत्वं हेतुः स च शब्दे नास्तीति स्वरूपासिद्धोऽयम्। व्याप्यत्वासिद्धश्च- व्याप्तिग्राहकप्रमाणाभावात् भवति । यथा शब्दः क्षणिक: सत्वात् अत्र सत्वक्षणिकत्वयोः व्याप्तिग्राहकं प्रमाणं नास्ति। विरुद्धनामानं हेत्वाभासं साम्प्रतं लक्षयतिसाध्यविपरीतव्याप्तो विरुद्धः। विवक्षितसाध्याद् विपरीते एव व्याप्तो हेतुः विरुद्धः, यथानित्य:शब्दः, कार्यत्वात्। साध्य से विपरीत पक्ष में व्याप्त हेतु विरुद्ध हेत्वाभास कहलाता है। विवक्षित साध्य से विपरीत पक्ष में ही व्याप्त हेतु विरुद्ध हेत्वाभास होता है, जैसे- शब्द नित्य है, क्योंकि वह कृतक है। 18. Page #119 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका न्या. प्र.- अत्रोदाहरणे शब्दः पक्षः नित्यत्वं तत्र साध्यमस्ति हेतुश्च कार्यत्वम्। इदं कार्यत्वं नाम हेतुः विवक्षितसाध्यं यन्नित्यत्वं तद् विपरीतं यद् अनित्यत्वं तस्य व्याप्यमस्ति। स्फुटमेतत् यत् कार्यं भवति तद् अनित्यं भवति। कार्यत्वस्य व्याप्तिः अनित्येन सहैव न तु नित्येन सह इति प्रस्तुतोदाहरणे --- साध्यविपरीतानित्यत्वस्य व्याप्यत्वेन हेतुरयं विरुद्धः। अथानैकान्तिकं लक्षयति 19. अन्यथाऽप्युपपद्यमानोऽनैकान्तिकः'। यथा-असर्वज्ञोऽयम्, वक्तृत्वात् । अनित्यः शब्दः, प्रमेयत्वात् । जो हेतु अन्यथा भी उपपद्यमान होता है-साध्य के अतिरिक्त दूसरे साध्य में भी घटित होता है, वह अनैकान्तिक हेत्वाभास है। जैसे -- यह असर्वज्ञ है, क्योंकि बोलता है। शब्द अनित्य है, क्योंकि प्रमेय है। न्या. प्र. - यो हेतुः अन्यथाऽपि-साध्याद् भिन्नेऽपरस्मिन् साध्येऽपि संघटते स खलु अनैकान्तिको हेत्वाभासः। यथा असर्वज्ञः अयम् वक्तृत्वात् । अत्र अयमिति पक्षः, तत्र असर्वज्ञत्वं साध्यम् हेतुश्चात्र वक्तृत्वमिति। अयम् हेतु: साध्यात् असर्वज्ञात् भिन्ने सर्वज्ञेऽपि वर्तत एव। एवमेव अनित्यः शब्दः प्रमेयत्वादित्यत्र प्रमेयत्वं यथा पक्षे शब्दे 1. देखें परिशिष्ट 1/4 Page #120 -------------------------------------------------------------------------- ________________ तृतीयो विभागः वर्तते तथैव सपक्षे घटादौ विपक्षे नित्ये आकाशादौ च वर्तते एवेति हेतुरयं वर्तते अनैकान्तिकः। अयश्चानैकान्तिकस्य साधारणो भेदः। अपरश्चानैकान्तिक: असाधारणो यः सपक्षात् विपक्षाच्च व्यावृत्तः पक्षमात्रवृत्तिरेव स्यात् केवलम् यथा भूर्नित्या गन्धवत्वात् । अत्र गन्धवत्वं सपक्षान्नित्यात्, विपक्षाच्चानित्यात् व्यावृत्तं भूमात्रवृत्ति अस्ति। इदानीमनुमानस्य स्वार्थं परार्थञ्चेति भेदद्वयस्य व्याख्याप्रसंगे पूर्वं तत्पृष्ठभूमिः प्रस्तूयते । इदमनुमानस्य भेदद्वयं वैदिकन्याये जैनन्याये य समानरूपेण स्वीकृतमस्ति। तत्र स्वार्थानुमानं स्वानुमितिहेतुर्भवति । स्वस्मै इदं स्वार्थम् । इदञ्च ज्ञानात्मकम् अत्र केवलं पक्षस्य साधनस्य च प्रयोगो भवति। पक्षश्च स एव भवति यत्र किञ्चिद् वस्तु सिषाधयिषितं स्यात् । शब्दोऽ नित्यः कार्यत्वात् इति वाक्ये शब्दे अनित्यत्वं साध्यमस्ति इति शब्द एव पक्षः। एवमन्यत्रापि बोध्यम्। साधनं लिङ्गं हेतुश्चेति पर्यायवाचिन: शब्दाः । एषु अन्यतमस्य प्रयोग: साधनवचनं हेतुवचनं वा कथ्यते। येन पुरुषेण महानसादौ धूमे अग्नेप्सिहीता यत्र यत्र धूमस्तत्र अग्निरिति । स एव पुरुषः कदाचित् वनं गतः प्रथमं पर्वते धूमलेखां पश्यति, ततः पूर्वगृहीतां यत्र यत्र धूमस्तत्राग्निरिति व्याप्ति स्मरति तत: अग्निमान् अयं पर्वत इति यद् ज्ञानं तस्य पुरुषस्य भवति तदेतत् स्वार्थानुमानम्। परार्थनुमानं परार्थं भवति। परस्मै इदं परार्थम्। येन परः Page #121 -------------------------------------------------------------------------- ________________ ८८ भिक्षुन्यायकर्णिका प्रतिपद्यते । यथा कश्चित् धूमादग्निमनुमाय परं जनं बोधयितुं पञ्चावयववाक्यानि प्रयुङ्क्ते तत् परार्थानुमानम् । ते च पञ्चावयवाः सन्ति, प्रतिज्ञा हेतुः उदाहरणम् उपनयः निगमनञ्च। पर्वतो वह्निमान् इति प्रतिज्ञा, धूमवत्वात् इति हेतुः । यो यो धूमवान् स सोऽग्निमान्, यथा महानसम् इति उदाहरणम् तथा चायम् अर्थात् पर्वतोऽपि धूमवानस्ति इति उपनयः, तस्मात् पर्वतोऽयम्-अग्निमान् इति निगमनम् । अनेन पञ्चावयववाक्येन परोऽपि पर्वते अग्निं प्रतिपद्यते । अनया रीत्या परार्थानुमानं वचनात्मकमिति सिद्ध्यति । सर्वमेतत् मनसि निधाय ग्रंथकारः परार्थानुमानं प्रस्तुवन् सूत्रयति 20. वचनात्मकेऽनुमाने दृष्टान्तोपनयनिगमनान्यपि । यत्राऽनुमानेन परो बोध्यः स्यात्, तत्र तद् वचनात्मकं भवति । तत्परार्थं, ज्ञानात्मकञ्च स्वार्थम् । स्वार्थं पक्षसाधनात्मकं द्वयङ् गमेव, परार्थं तु पञ्चावयवम् । वचनात्मक अनुमान में दृष्टान्त, उपनय और निगमन का भी प्रयोग होता है । जहाँ अनुमान का प्रयोग दूसरे के लिए किया जाता है। वहाँ वह वचनात्मक होता है । वचनात्मक अनुमान परार्थ होता है और ज्ञानात्मक अनुमान स्वार्थ । Page #122 -------------------------------------------------------------------------- ________________ तृतीयो विभाग: स्वार्थानुमान के दो ही अंग होते. हैं- पक्ष और साधन । परार्थानुमान पंचावयव होता है- पक्ष, साधन, दृष्टान्त, उपनय और निगमन। न्या. प्र.- वचनात्मके परार्थानुमाने न केवलं पक्षस्य हेतोश्चैव प्रयोगोऽपेक्षितः अपि तु अत्र दृष्टान्तोपनयनिगमनान्यपि प्रयुज्यन्ते। अनया रीत्या अत्र पञ्चावयववाक्यस्य प्रयोगो भवति। यत्रानुमानेन परोऽपि बोधनीयो भवति तदनुमानं वचनात्मकं भवति । तदेव परार्थानुमानमित्युच्यते । स्वार्थानुमानं तु ज्ञानात्मकं भवति। अत्र तु पक्ष: साधनञ्चेति द्वे एव अङ्गे। परार्थानुमाने तु पञ्चावयवमिति स्पष्टीकृतमुपरि विस्तरेण । सम्प्रति परार्थानुमानाङ्गभूतं दृष्टान्तं लक्षयति 21. व्याप्तिप्रतीतिप्रदेशो दृष्टान्तः । दृष्टान्तवचनमुदाहरणम्। व्याप्ति के प्रतीतिस्थल को दृष्टान्त कहा जाता है। दृष्टान्तवचन का नाम उदाहरण है। न्या. प्र.- व्याप्तेः प्रतीतिर्यस्मिन् स्थले भवति तत् स्थलं दृष्टान्त इति कथ्यते। यथा यो यो धूमवान् स सोऽग्निमान् इति व्याप्तेः प्रतीतिर्महानसे भवति अत: महानसं दृष्टान्तोऽस्ति। दृष्टान्तस्य वचनं कथनमुदाहरणं भवति । यथोक्तं महानसमिति उदाहरणं दृष्टान्तो वा। Page #123 -------------------------------------------------------------------------- ________________ ९० दृष्टान्तो द्विविध इति प्रतिपादयन्नाह 22. अन्वयी व्यतिरेकी च । दृष्टान्त के दो प्रकार है : अन्वयी दृष्टान्त । 1. 2. व्यतिरेकी दृष्टान्त I न्या. प्र. व्यतिरेकी दृष्टान्तश्च । स्फुटमेतत् । कोऽन्वयी दृष्टान्तः इति लक्षयति ― दृष्टान्तो द्विविधो भवति — अन्वयी दृष्टान्तो 23. साध्यव्याप्तसाधननिरूपणमन्वयी । भिक्षुन्यायकर्णिका ( अनित्यः शब्दः कृतकत्वाद् इति हेतौ ) यद्यत्कृतकं तत्तदनित्यम्, यथा- घटः । साध्य में व्याप्त साधन का निरूपण करने वाला दृष्टान्त 'अन्वयी दृष्टान्त' कहलाता है। ( शब्द अनित्य है, क्योंकि वह कृतक है। ऐसा हेतु उपस्थित किए जाने पर) जो-जो कृतक है, वह वह अनित्य है, जैसे-घड़ा। न्या. प्र. - साध्यस्य व्याप्तिर्यत्र गच्छति तस्य साधनस्य निरूपणमन्वयी दृष्टान्तः । यथा शब्दः अनित्यः कार्यत्वात् ( कृतकत्वात्) अत्र साध्यमनित्यत्वं, तस्य व्याप्तिर्गृह्यते Page #124 -------------------------------------------------------------------------- ________________ तृतीयो विभागः कृतकत्वे। यत्र २ कृतकत्वं तत्र २ अनित्यत्वम्। एवञ्च कृतकत्वमनित्यत्वस्य व्याप्यो हेतुः। इमं हेतुं पुरस्कृत्य घटस्यापि अनित्यत्वं साध्यत एव। अनया रीत्या घट इत्यन्वयी दृष्टान्तः। अन्वयीदृष्टान्तस्थले साधनस्य सद्भावे साध्यस्य स्थितिरनिवार्या भवति । सति कृतकत्वेऽनित्यत्वमवश्यं भवत्येव। अथ व्यतिरेकी दृष्टान्तः -- मा 24. साध्याभावे साधनाभावनिरूपणं व्यतिरेकी। यन्नानित्यं तन्न कृतकम्, यथा-आकाशम्। साध्य के अभाव में साधन के अभाव का निरूपण करने वाला दृष्टान्त 'व्यतिरेकी दृष्टान्त' कहलाता है। ___ जो अनित्य नहीं होता है, वह कृतक नहीं होता, जैसे आकाश। न्या. प्र.- साध्यस्याभावे साधनस्याभावं प्रस्तुवन् दृष्टान्तो व्यतिरेकी दृष्टान्तः कथ्यते। साध्यं व्यापकं भवति साधनञ्च व्याप्यमिति स्थितिः । अतः साध्याभावे साधनाभावोऽनिवार्यः। प्रस्तुतोदाहरणे आकाशे नित्यत्वमस्ति, अनित्यत्वं नास्ति अर्थात् आकाशेऽनित्यत्वाभावो वर्तते अतस्तत्र कृतकत्वाभावोऽपि सुतरामेवसिद्धः। इदानीमन्वयिदृष्टान्ताभसान् निरूपयति Page #125 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका 25. साध्यसाधनोभयविकला: संदिग्धसाध्यसाधनोभया विपरीतान्वयश्च अन्वयिदृष्टान्ताभासा:॥ अन्वयी दृष्टान्ताभास के सात प्रकार हैं1. साध्यविकल 2. साधनविकल 3. उभयविकल 4. संदिग्धसाध्य 5. संदिग्धसाधन 6. संदिग्धोभय 7. विपरीतान्वय। न्या. प्र.- अन्वयिदृष्टान्ताभासः सतविधः। तद्यथा१. साध्यविकलः २. साधन विकल: ३. उभय विकलः ४. संदिग्धसाध्यः ५. संदिग्धसाधनः ६. संदिग्धोभयः ७. विपरीतान्वयः __ व्यतिरेकी दृष्टान्ताभासानुपस्थापयति26. असिद्धसाध्यसाधनोभयाः संदिग्धसाध्यसाधनोभया विपरीतव्यतिरेकश्च व्यतिरेकिदृष्टान्ताभासाः। एषां प्रयोगाः स्वयमभ्यूह्याः। व्यतिरेकी दृष्टान्ताभास के सात प्रकार हैं : 1. असिद्धसाध्य 2. असिद्धसाधन 3. असिद्धोभय 4. संदिग्धसाध्य 5. संदिग्धसाधन 6. संदिग्धोभय 7. विपरीतव्यतिरेक। इनके प्रयोग स्वयं ज्ञातव्य हैं। 1. देखें परिशिष्ट 1/5 2. देखें परिशिष्ट 1/6 Page #126 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ९३ न्या. प्र. – व्यतिरेकी दृष्टान्ताभासोऽपि सप्त विधः । - तद्यथा— 27. १. असिद्धसाध्यः २. असिद्धसाधनः ३. असिद्धोभयः ४. संदिग्धसाध्यः ५. संदिग्धसाधनः ६. संदिग्धोभयः ७. विपरीतव्यतिरेक: एषाम् प्रयोगाः स्वयमूहनीयाः । परार्थानुमाने उपयोगिनमुपनयं लक्षयति साम्प्रतम् धर्मिणि साधनस्योपसंहार उपनयः । दृष्टान्तधर्मिणि विस्तृतस्य साधनधर्मस्य साध्यधर्मिणि उपसंहार उपनयः, यथा कृतकश्चायम् । धर्मी में साधन का उपसंहार करना उपनय कहलाता है। दृष्टान्तधर्मी में विस्तृत साधन धर्म का साध्यधर्मी में उपसंहार करने का नाम उपनय है, जैसे- यह कृतक है । यहाँ दृष्टान्तभूत घट के कृतक धर्म का साध्यभूत शब्द धर्मी में उपसंहार किया गया है। न्या. प्र. - दृष्टान्तधर्मिणि- दृष्टान्तस्थले महानसादौ विस्तृतस्य प्रस्तृतस्य स्थितस्येति भाव: साधनधर्मस्य= साधनमेवधर्म : धूमादिः तस्य साध्यधर्मिणि पर्वतादौ यः उपसंहार: उपसंह्रियते इति उपसंहारः निश्चय: स एव उपनयः । दृष्टान्तस्थले महानसादौ निश्चितस्य धूमस्य साध्यधर्मिणि पर्वतादौ निश्चय एव उपनयः । यथा महानसं Page #127 -------------------------------------------------------------------------- ________________ ९४ भिक्षुन्यायकर्णिका धूमवत् तथा पर्वतोऽपि। तथा चायमिति वाक्यप्रयोग एव उपनयः । उपनयेन पक्षे साध्यव्याप्यस्य हेतोः सम्बन्धः अर्थात् पक्षधर्मताया बोधो भवति । यथा- शब्दोऽनित्यः कृतकत्वात् घटवत् अत्र घटे वर्तमानस्य कृतकत्वस्य पक्षे शब्दे निश्चयं विधाय तत्रानित्यत्वं साध्यते। परार्थानुमानस्य फलीभूतं निगमनं प्रस्तौति साम्प्रतम् 28. साध्यस्य निगमनम्। साध्यधर्मस्य धर्मिणि उपसंहारो निगमनम्, यथातस्मादनित्यः। साध्य का उपसंहार करना निगमन कहलाता है। साध्यधर्म का धर्मी में उपसंहार करने का नाम निगमन है, जैसे- इसलिए वह अनित्य है। न्या. प्र.- साध्यस्य साधयितुमिष्टस्य धर्मिणि पक्षे पर्वतादौ उपसंहारो निश्चयः एव निगमनम्। तस्मादनित्यः शब्दः। यतः शब्दे कृतकत्वं वर्तते तस्मात् शब्दः अनित्य इति सिद्ध्यति। एतेनेदं स्पष्टं भवति यद् परार्थानुमानं वचनात्मकं भवति । अत्र पञ्चावयवानां प्रयोगो भवति। ते च पञ्चावयवा:प्रतिज्ञा, हेतु: उदाहरणम्, उपनयः, निगमनं चेति पञ्चनामभिः ख्याताः सन्ति । एतेषां विवरणमुपरि निर्दिष्टमस्ति । तत्र प्रथमेन Page #128 -------------------------------------------------------------------------- ________________ तृतीयो विभागः प्रतिज्ञावाक्येन पक्षे साध्यसम्बन्धो बोधितो भवति। द्वितीयेन हेतुवाक्येन हेतौ साध्यस्य ज्ञापकता अस्तीति बोध्यते । तृतीयेनोदाहरणवाक्येन हेतौ साध्यस्य व्याप्तिरस्तीति बोधो जायते। चतुर्थेन उपनयवाक्येन हेतोः पक्षधर्मता पक्षवृत्तित्वं विदितं भवति। ततः पञ्चमेन निगमनवाक्येन पक्षे साध्यस्य वृत्तित्वमस्तीति बोधितं भवतीति परार्थानुमानं परप्रतिपत्त्यर्थं सम्पद्यते। प्रसङ्गप्राप्तम् प्रतिषेधं निरूपयन् तद्भेदान् निरूपयति 29. प्रतिषेधश्चतुर्धा प्राक् प्रध्वंस इतरेतरोऽत्यन्तश्च । प्रतिषेध के चार प्रकार हैं- 1. प्राक्, 2. प्रध्वंस, 3. इतरेतर, 4. अत्यन्त न्या. प्र.-प्रतिषेधः = अभावः स चतुर्विधः- प्रागभावः, प्रध्वंसाभावः, इतरेतराभावः अत्यन्ताभावश्च। तत्र प्रागभावं प्रस्तौति 30. उत्पत्तेः पूर्वं कारणे कार्यस्याऽसत्त्वं प्राक्। अयमनादिसान्तः यथा- पयसि दनः। उत्पत्ति से पूर्व कारण में कार्य असत् होता है, उसका नाम प्राक् अभाव है। यह अनादि और सान्त होता है, जैसेदूध में दही का न होना। Page #129 -------------------------------------------------------------------------- ________________ ९६ भिक्षुन्यायकर्णिका न्या. प्र.- कार्यस्योत्पत्तेः पूर्वं कारणे कार्यस्याभावो भवति । अयमभावः प्रागभावः कथ्यते। पटनिर्माणात् पूर्वं तन्तुषु पटस्य प्रागभावो भवति । प्रागभावोऽनादिः भवति। कदा प्रभृति तन्तुषु पटाभावो वर्तते इति वक्तुं न कोऽपि प्रभवति । तस्मादनादिरेवायमभाव इति बोध्यम्। अनादिरप्ययमभाव: सान्तः अन्तेन सह वर्तते इति सान्तोऽप्यस्ति । यदा पटो निर्मितो भवति तदा पटप्रागभावः स्वयमेव समाप्तिं गच्छति। अत: अनादित्वे सति सान्तत्वं प्रागभावस्य लक्षणं साधु । एवमेव दनः उत्पत्तेः पूर्वं पयसि (दुग्धे) दनः प्रागभावस्तिष्ठति यदा दधि निर्मितं भवति तदा प्रागभावस्तस्य स्वयमेव समाप्तो भवतीति लक्षणसमन्वयः स्पष्ट एवास्ते। . सम्प्रति प्रध्वंसं लक्षयन् सूत्रयतिलब्धात्मलाभस्य विनाशः प्रध्वंसः । अयं साद्यनन्तः, यथा-तक्रे दनः । लब्धात्मलाभ (उत्पन्न कार्य) के विनाश का नाम प्रध्वंसाभाव 31 है। ___ यह सादि और अनन्त होता है, जैसे- छाछ में दही का अभाव है। न्या. प्र.- लब्धात्मलाभस्य, लब्ध आत्मलाभो येनासौ लब्धात्मलाभ: तस्य अर्थात् समुत्पन्नकार्यस्य यो विनाश: स एव प्रध्वंसः। अयं प्रध्वंसाभावः सादिर्भवति यस्मिन् काले Page #130 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ९७ कार्यस्य नाशः स एव प्रध्वंसस्यादिः। उत्पत्तिमामपि प्रध्वंसः अविनाशी अस्ति। अर्थात् प्रध्वसस्य जन्म भवति परन्तु तस्य नाशस्तु नैव भवति । नाशस्य नाशस्तु वक्तुमप्यशक्यः। इतरेतराभावं प्रस्तोतुकामः सूत्रमारचयति32. परस्परापोह इतरेतरः । अयं सादिसान्तः, यथा-स्तम्भे कुम्भस्य, कुम्भे स्तम्भस्य। परस्पर- एक में दूसरे के अभाव का नाम इतरेतराभाव है। यह सादि और सान्त होता है, जैसे- खम्मे में घड़े का अभाव और घड़े में खम्मे का अभाव । न्या. प्र.- परस्मिन् परस्य अन्यस्य अभाव इतरेतराभावः। अयमितरेतराभावः सादिः अस्ति तथा सान्तश्चास्ति। तात्पर्य मिदं यत् स्तम्भकुम्भयोरेकत्रावस्थाने एवं वक्तुं शक्यते स्तम्भः कुम्भो न, कुम्भः स्तम्भो न इति। लोकेऽस्मिन् भेदस्य सार्वत्रिकतया प्रत्येकं वस्तु प्रत्येकं वस्तुनो भिन्नमिति उदाहरणानामानन्त्यमत्र वर्तते। घटः पटो न, इत्यादीनि प्रसिद्धानि सन्ति उदाहरणानि। अस्य प्रतीतिः नञा भवति। यथोक्तमुपरि । अनाद्यनन्ते जगति भेदस्यापि अनाद्यनन्तत्वम्। स्थितौ चास्यामितरेतराभावस्याप्यनाद्यनन्तत्वं कथं नेति चिन्तनीयो विषयः। अत्यन्ताभावं लक्षयति Page #131 -------------------------------------------------------------------------- ________________ ९८ भिक्षुन्यायकर्णिका 33. सर्वदा तादात्म्यनिवृत्तिरत्यन्तः । कालत्रयेऽपि तादवस्थ्याऽभाव इत्यर्थः । अयमनाद्यनन्त:, यथा-चेतने अचेतनस्य। तादात्म्य की सर्वथा निवृत्ति का नाम अत्यन्ताभाव है। एक वस्तु का स्वरूप दूसरी वस्तु से सर्वदा भिन्न होता है। किसी भी काल में वह उस स्वरूप को प्राप्त नहीं होता, उसका नाम सर्वदा तादात्म्यनिवृत्ति या तद्अवस्था का अभाव है। यह अनादि और अनन्त होता है, जैसे-चेतन में अचेतन का अभाव। न्या. प्र.- तादात्म्यस्य शाश्वतनिवृत्तिरत्यन्ताभावः। अयमभावः त्रैकालिकः अस्ति। अस्य व्युत्पत्तिः एवं भवतिअन्तम् अभावम् अतीत:- अत्यन्तः सचासौ अभाव: अत्यन्ताभावः। तात्पर्यमिदं यत् यस्याभावस्य कदाचिदपि अभावो न भवेत् स एव अत्यन्ताभावः। यथा-वायौ रूपाभावस्याभाव: कदाचिदपि भवितुं न शक्नोतीति वायौ रूपाभावः अत्यन्ताभावः। एवम् चेतने अचेतनस्याभावः अत्यन्ताभाव एव। अयमभाव: अनादिर नन्तः । उपर्युक्तोदाहरणद्वये स्पष्टमेतत् । अयमभावः सर्वदा तादात्म्य निवृत्तिं ख्यापयति। एकं वस्तु अपरस्मात् वस्तुनः सर्वथा भिन्नं भवति। एकस्य रूपमपरं वस्तु कदापि नाप्नोति। अस्य प्रतीति: नास्तिपदेन भवति। वायौ रूपं नास्तीति उक्त्या प्रतीयतेऽयमभावः। Page #132 -------------------------------------------------------------------------- ________________ तृतीयो विभागः ९९ इदानीं प्रतिषेधचतुष्टयस्य स्वीकरणं नितान्तमुपयोगीति निर्दिशन् सूत्रयति 34. अन्यथानिर्विकारानन्तसर्वैकात्मकतोपपत्तेः । प्रतिषेधचतुष्टयास्वीकारे भावानां क्रमश: निर्विकारता, अनन्तता, सर्वात्मकता, एकात्मकता च स्यात्। भाववद् अभावोऽपि वस्तुधर्म एव। अन्यथा निर्विकारता, अनन्तता, सर्वात्मकता और एकात्मकता की आपत्ति आती है। प्रतिषेध-चतुष्टय (चार अभावों) का अस्वीकार कर देने पर पदार्थव्यवस्था में चार दोष उत्पन्न होते हैं। प्राग्भाव का अस्वीकार करने पर निर्विकारता (नये पर्याय या कार्य का उत्पन्न न होना) उपपन्न होती है। प्रध्वंस अभाव का अस्वीकार करने पर अनन्तता (कार्य का कभी विनष्ट न होना) उपपन्न होती है। इतरेतराभाव का अस्वीकार करने पर सर्वात्मकता (सब वस्तुओं में सबके स्वरूप का होना) उपपन्न होती है। अत्यन्ताभाव का अस्वीकार करने पर एकात्मकता (सब वस्तुओं में एक ही स्वरूप का होना) उपपन्न होती है। भाव की भाँति अभाव भी वस्तु का ही धर्म है। न्या. प्र.- उपर्युक्तस्य प्रतिषेधचतुष्टयस्य यदि स्वीकरणं न Page #133 -------------------------------------------------------------------------- ________________ १०० भिक्षुन्यायकर्णिका स्यात् तदा निर्विकारता, अनन्तता, सर्वात्मकता तथा एकात्मकता चेत्यादिदोषाणामापत्तिरायाति । सा चेत्थम्- यदि प्रागभावो न स्वीकरिष्यते तदा किमपि नूतनं कार्यं कदापि नोत्पत्स्यते । यदा वस्तुनः पूर्वतोऽभावस्तिष्ठति तदैव कार्यमुत्पद्यते। अस्तित्वहीनस्य वस्तु नो लब्धसत्ताकत्वप्रतिपादनमेव प्रागभावस्य कार्यम्। कार्यमिदं कृत्वा प्रागभावः समाप्तिमेतीति सान्त इत्ययमुच्यते। यदि प्रध्वंसाभावः स्वीकृतो न स्यात् तदा किमपि कार्य कदापि नष्टं न भविष्यतीति वस्तूनामनन्ततैव स्यात् । अतोऽस्यापि स्वीकरणमावश्यकम्। एवमेव यदि इतरेतराभावस्य स्वीकृतिर्न स्यात् तदा सर्वेषां वस्तूनां सर्वात्मकता एव स्यात् । सति भेदे पार्थक्यम् । भेदाभावे तु सर्वस्मिन् वस्तुनि सर्वात्मकत्वं कथमिव वार्यताम् । अत्यन्ताभावस्य अस्वीकारे तु सर्वस्मिन् वस्तुनि एकस्यैव रूपस्य प्रतीतिः स्यात् । तस्मात् चतुर्णामभावानां स्वीकरणमावश्यकमेवेति तत्त्वम् । भाववत् अभावोऽपि वस्तुधर्म एव। अस्मिन् अभावप्रसंगे कार्यस्य चर्चा कृता वर्तते। कार्यं च कारणेनैव जायत इति कार्यसापेक्षत्वात् कारणं प्रस्तोतुकामः सूत्रद्वारा प्रस्तौति तत् 35. कार्यनिष्पत्त्यपेक्षं कारणम्। कार्यमुत्पद्यमानं नियतं यद् अपेक्षते तत् कारणम्। Page #134 -------------------------------------------------------------------------- ________________ तृतीयो विभागः १०१ कार्य की निष्पत्ति में जो अपेक्षित होता है, उसे कारण कहते हैं। उत्पद्यमान कार्य जिसकी निश्चितरूप से अपेक्षा रखता है। वह कारण है। न्या. प्र.- कार्यस्य निष्पत्तौ-संसिद्धौ यदपेक्षते अर्थात् यस्यापेक्षा अवश्यं भाविनी तत् कारणम्। कार्य तावनोत्पद्यते यावत् कारणं तदुत्पत्तये न व्याप्रियेत। कारणव्यापारानन्तरमेव कार्यमुत्पद्यते। कारणं विना कार्यं न भवतीति स्पष्टोऽर्थः। कारणं पूर्वं भवति कार्यञ्च पश्चात् भवति। अत: उक्तं तर्कसंग्रहे- कार्यनियतपूर्ववृत्तिकारणम् । अनियतपूर्ववर्तिनः कारणत्वं नैव भवतीति सूचनाय कारणस्य विशेषणं दत्तं नियतपूर्ववृत्ति इति पदम्। अत एव घटपट निर्माणकाले वस्तुसंभारमादायागतस्य रासभस्य यद्यपि घटादि कार्यात् पूर्ववृत्तित्वमस्ति तथापि नियतपूर्ववृत्तित्वं नास्तीति न तस्य घटादिकार्य प्रति कारणत्वमिति वेदनीयम्।। सम्प्रति कारणभेदान् निरूपयति 36. उपादाननिमित्तभेदाद् द्वयम्। कारण के दो भेद हैं- उपादान और निमित्त । सम्प्रति उपादानकारणं लक्षयति - Page #135 -------------------------------------------------------------------------- ________________ १०२ भिक्षुन्यायकर्णिका 37. कारणमेव कार्यतया परिणमद् उपादानम्। यथा-घटस्य मृत्पिण्डः, अंकुरस्य वा बीजम्। परिणामिकारणमिति पर्यायः । जो कारण ही कार्यरूप में परिणत होता है, उसे उपादान कारण कहते हैं। जैसे- घड़े का उपादान कारण है- मृत्पिड और अंकुर का उपादान कारण है-बीज। इसका दूसरा नाम परिणामी कारण है। न्या. प्र.- अस्यायं भावः- कारणं द्विविधं भवति उपादानकारणं निमित्तकारणञ्च। यत् कारणं स्वयं कार्यरूपे परिणतं भवति, तदुपादानकारणम्। यथा-मृपिण्ड एव घटरूपे परिणतं भवतीति मृत्पिण्ड एव घटस्योपादानकारणम् । अथवा सुवर्णमेव कनक कुण्डलाद्याकारे परिणतं भवतीति सुवर्णमेव कुण्डलादीनाम् उपादानकारणं भवति। किंवा बीजमेव वा अंकुररूपेण परिणतं सद् अंकुरस्योपादानकारणमिति प्रसिद्धम्। उपादानकारणमेव परिणामिकारणमित्युच्यते । परिणतभवनात् परिणामीति प्रसिद्धिः। इदानीं निमित्तकारणं प्रस्तुवन् सूत्रयति। Page #136 -------------------------------------------------------------------------- ________________ तृतीयो विभागः १०३ 38. साक्षात् साहाय्यकारि निमित्तम्। यथा-घटस्य चक्रसूत्रादि, अंकुरस्य वा जलातपपवनादि। निर्वर्तकस्तु न नाम नियतमपेक्ष्यतेऽकृष्टप्रभवतृणादौ। यत्र घटादौ कुलालवद् सव्यपेक्षस्तत्र निमित्तान्तर्गत एवेति कारणद्वयमेव। सहकारिकारणमिति पर्यायः । साक्षात्सहायता करने वाले कारण को निमित्त कारण कहते हैं। जैसे- घड़े के निमित्त कारण हैं चक्र, सूत्र आदि। अंकुर के निमित्त कारण हैं जल, धूप, पवन आदि। निर्वर्तक-(कर्ता) कार्य की उत्पत्ति में निश्चित रूप से अपेक्षित नहीं होता, जैसे- अनुप्त तृण । और जहाँ घड़े आदि के निर्माण में कुम्हार आदि कर्ता की अपेक्षा होती है वहाँ वे निमित्त कारण के अन्तर्गत ही समाविष्ट हो जाते हैं। इसलिए कारण दो ही हैं। सहकारी कारण इसका दूसरा नाम है। न्या. प्र.- यः खलु कार्योत्पत्तौ साक्षात् सहायतां करोति स तस्य कार्यस्य निमित्तकारणं भवति। यथा- चक्रम्-सूत्रम् च घटस्य निमित्त कारणं भवति। अंकुरस्य निमित्तकारणं च जलम्आतपः पवनश्च भवति । Page #137 -------------------------------------------------------------------------- ________________ १०४ भिक्षुन्यायकर्णिका कार्यस्योत्पत्तौ निर्वर्तकःकर्ता तु निश्चितरूपेण अपेक्षितो न भवति । यथा अनुप्ततृणादौ नापेक्ष्यते कर्ता। तानि तु कर्तारमनपेक्ष्य स्वयमेव जायन्ते। यत्र च घटादौ कुलाल: कर्ता अपेक्ष्यते, तद्वत् यत्र कर्तुरपेक्षा भवति तत्र कर्ता निमित्तकारणान्तर्गत एव मन्यते। अनया रीत्या निमित्तमुपादानञ्चेति कारणस्य द्वैविध्यमेवेति बोध्यम् । निमित्तकारणस्य पर्यायोऽस्ति सहकारिकारणमिति।। न्याय दर्शने तु कारणं त्रिविधं स्वीकृतमस्ति - समवायि कारणम्, असमवायिकारणं, निमित्तकारणम् च। तत्र समवायिकारणस्य स्वरूपमेवमुक्तुम्यत्समवेतं कार्यमुत्पद्यते तत् समवायिकारणम्। तात्पर्यमिदं यत् यस्मिन् अधिकरणे समवायसम्बन्धेन सम्बद्धं सत् कार्यमुत्पद्यते तत् तस्य कार्यस्य समवायिकारणम् । यथा तन्तुषु पट: उत्पद्यते । तत्र तन्तवः अवयवाः सन्ति, पटश्च अवयवी अस्ति। अवयवावयविनोः समवाय एव सम्बन्धः। स च नित्यः सम्बन्धः। कार्य कारणञ्च एकस्मिन्नेवाधिकरणे तिष्ठतः। यथा प्रस्तुतोदाहरणे तन्तवः कारणं, पटश्च कार्यम्। ते च तन्तवः तन्तुषु तादात्म्यसंबन्धेन तिष्ठन्ति । तेष्वेव तन्तुषु पटोऽपि वर्तते समवायसम्बन्धेनेति कार्यकारणयोरेकाधिकरणवृत्तित्वं स्पष्टमेव। इदमपि बोध्यं यत्-समवायिकारणं द्रव्यमेव भवति- यथा तन्तवो द्रव्यात्मका एव समवायिकारणं भवन्ति । एवं कपालद्वये समुत्पद्यते घट इति कपालद्वयं घटस्य समवायिकारणम्। Page #138 -------------------------------------------------------------------------- ________________ तृतीयो विभागः १०५ अपरमसमवायिकारणं तद् भवति यत् कार्यस्य समवायि कारणे स्थितं भवति । यथा पटसमवायिकारणे तन्तौ स्थितः तन्तुसंयोगः परस्यासमवायिकारणम् । घटसमवायिकारणे कपालद्वये स्थितः कपालद्वयसंयोगो घटस्यासमवायिकारणम् । एतेन इदमपि स्पष्टं भवति यत् समवायिकारणं द्रव्यमेव भवति चेत् असमवायिकारणं गुण एव भवति । गुणाश्रय एव द्रव्यम् । तस्मिन् द्रव्ये समवायेन वर्तमानो गुणः कार्यस्य असमवायिकारणं भवतीति साधु निरूपणमस्य । आभ्यां समवाय्यसमवायिकारणाभ्यां भिन्नं कार्योत्पत्तौ साक्षात् यत् साहाय्यं विधत्ते तत् कार्यं प्रति निमित्तकारणं भवति । इदन्तु उक्तमेवपूर्वम् । कारणं प्रस्तुत्येदानीं कार्यं प्रस्तौति 39. तद्व्यापारानन्तरं भावि कार्यम् ॥ उपादान और निमित्त इन दोनों कारणों की प्रवृत्ति के अनन्तर जो निष्पन्न होता है, उसे कार्य कहते हैं । 40. सकर्तृकाऽकर्तृकम् । सकर्तृकम् - गृहकलशोप्ततर्वादि । अकर्तृकञ्च - अनुप्ततृणाम्बुदखनिजभूम्यादि । कार्य दो प्रकार का होता है- सकर्तृक और अकर्तृक । सकर्तृक- मकान, घड़ा, उप्त - तरु आदि । अकर्तृक- अनुप्त-तृण, बादल, खनिज, भूमि आदि । Page #139 -------------------------------------------------------------------------- ________________ १०६ भिक्षुन्यायकर्णिका न्या. प्र. कारणं द्विविधमुक्तं प्राक् । तयोर्व्यापारानन्तरं यदुत्पद्यते निष्पद्यते वा तदेव कार्यमिति कथ्यते । उत्पत्तेः पूर्वं कार्यं नासीदिति पूर्वं तदीय: प्रागभावो भवति । कारणव्यापारात् जायते कार्यमिति कार्यं प्रागभावप्रतियोगीति पदेनाप्युच्यते । तच्च कार्यं द्विविधम्। एकं सकर्तृकम् अपरम् अकर्तृकम् । यत् कार्यं केनापि कर्त्रा क्रियते तत् कार्यं सकर्तृकम् । यथा-गृहम्, घटः इत्यादि सकर्तृकं कार्यम् । कर्त्ता एव निर्माति घटम्, गृहम् वा । कर्त्तारमन्तरा घटादीनां निर्माणं नैव शक्यते कर्त्तुमिति एतादृशानां कर्मणां सकर्तृकत्वं स्पष्टमेव । एवमेव बीजवपनद्वारा ये वृक्षादयः समुत्पाद्यन्ते तेऽपि सकर्तृकमेव कार्यम् । www.comm किञ्चित् कार्यम् अकर्तृकमपि भवति । यथा अनुप्ततृणादयो न केनापि कर्त्रा उत्पाद्यन्ते, किन्तु कस्यापि प्रयासमन्तरा स्वयमेव जायन्ते ते इति तेषामकर्तृकत्वं को नाम अपवारयितुं शक्नुयात् । एवमेव जलदा मेघाः खनिजपदार्था भूम्यादयोऽपि अकर्तृका एवेति बोध्यम् । केचित्तु कर्त्तारं विना कस्यापि कार्यस्य निष्पत्तिरसंभवेति मन्वानाः कर्तुः द्वैविध्यमेव स्वीकुर्वन्ति । स च कर्त्ता शरीरी अशरीरीतिभेदभिन्नो द्विविधः । गृहघटादीनां कर्त्ता सशरीरी, जलदपटलादीनां कर्त्ता अशरीरी इति तेषामाकूतम् । इति मतिस्वरूपनिर्णयात्मकस्तृतीयो विभागः । Page #140 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः तृतीय विभागे परोक्षप्रमाणस्य मतिः श्रुतञ्चेति द्वैविध्यमुक्तम्। तत्र च मतिज्ञानं व्याख्याय सम्प्रति श्रुतज्ञानं व्याख्यातुकामः सूत्रमवतारयति 1. शब्दाद्यनुसारिणी मतिरेव श्रुतम्। यन्मानसं ज्ञानं शब्दसंकेताद्यनुसारेण' जायते, तत् श्रुतमुच्यते। मति श्रुतयोरन्योन्यानुगतयोरपि कथञ्चिद् भेदः, यथाशब्द आदि के सहारे उत्पन्न होने वाले मतिज्ञान को ही श्रुतज्ञान कहा जाता है। जो मानसज्ञान शब्द, संकेत आदि के सहारे उत्पन्न होता है, वह श्रुत ज्ञान है। 1. शब्दादयश्च श्रुतज्ञानस्य साधनमिति 'द्रव्यश्रतुम्' उच्यते। 2. यत्र मतिः तत्र श्रुतम्, यत्र श्रुतं तत्र मतिरिति । Page #141 -------------------------------------------------------------------------- ________________ १०८ भिक्षुन्यायकर्णिका मति और श्रुत का स्वरूप परस्पर अन्योन्य अनुगत-अनुप्रविष्ट है, फिर भी उनमें कुछ दृष्टियों से भेद है, जैसे, न्या. प्र.- इन्द्रियमनोनिबन्धनं ज्ञानं मतिरित्युक्तं प्राक् । यदि मतिज्ञानं शब्दसंकेतादिकं साहाय्यमवलम्ब्य जायते तदा तदेव श्रुतज्ञानं कथ्यते। श्रुतज्ञानं मानसं ज्ञानमस्ति। तच्च शब्द संकेतादिकं चादाय उत्पद्यते। मतिज्ञानं श्रुतज्ञानञ्च अन्योन्यानुगतमस्ति तथापि तयोर्मध्ये अस्ति कश्चन भेदः। तद् यथा(क) मननं मतिः, शाब्दं श्रुतम्। मति मनन प्रधान है और श्रुत शब्द प्रधान। मतिज्ञानं मननात्मकं भवति । अत्र मननस्यैवप्राधान्यम्। श्रुतज्ञानं शाब्दं भवति । शब्दात् जायमानं शाब्दम् । अत्र शब्दस्यैव प्राधान्यं भवति। (ख) मूककल्पा मतिः, स्वमात्रप्रत्यायनफलत्वात्, अमूक कल्पं-श्रुतम्, स्वपरप्रत्यायकत्वात्। मति से स्वगत बोध होता है इसलिए वह मूकतुल्य है। श्रुत स्व और पर का बोधक होता है इसलिए वह अमूकतुल्य है- वचनात्मक है। मतिज्ञानेन स्वगतो बोधो भवति। इन्द्रियमनोनिमित्तकं यद्ज्ञानं भवति तत्तु केवलं स्वस्य कृते एव भवति । अत एव मूककल्पा-तुल्या मतिर्भवति। Page #142 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः १०९ श्रुतज्ञानं तु स्वस्यपरस्य च कृते भवति। अतएव अमूकतुल्यं श्रुतज्ञानमिति बोध्यम् । इदं ज्ञानं वचनात्मकं भवति। (ग) मतिपूर्वकं श्रुतम्, न तु मतिः श्रुतपूर्विका। श्रुत मतिपूर्वक होता है पर मति श्रुतपूर्वक नहीं होती। न्या. प्र.- श्रुतज्ञानं मतिपूर्वकं भवति किन्तु मति ज्ञानं श्रुतपूर्वकं नैव भवति। यः कश्चन यत्किञ्चित् परिज्ञाय परं बोधयितुं शब्दं प्रयुक्ते, तदीयः शब्दप्रयोगो मतिज्ञानादेव जायत इति तं शब्दं श्रुत्वा परस्य यो बोधः स तु मतिज्ञानात् क्रियमाणशब्दप्रयोगादेवेति स्पष्टं श्रुतज्ञानस्य मतिज्ञानपूर्वकत्वम्। मतिज्ञानस्य इन्द्रिय मनोनिमित्तकत्वात् न श्रुतपूर्वकत्वमिति तयोर्भेदः । (घ) वर्तमानविषया मति:, त्रिकालविषयं श्रुतम् । मति का विषय केवल वर्तमान है, श्रुत त्रैकालिक मतिज्ञानस्य विषयः केवलं वर्तमानकालिक एव । किन्तु श्रुतज्ञानस्य विषयस्ौकालिकं वस्तु भवति । अतीतानागतादीन् सर्वान् विषयान् शब्दद्वारा व्यञ्जयितुं शक्नोत्येव कश्चन। (ड) वल्कसमा मतिः, कारणत्वात्। शुम्बसमं श्रुतम्, तत्कार्यत्वात्। Page #143 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका मति छाल के समान है, क्योंकि वह श्रुतज्ञान का कारण है। श्रुत रज्जु के समान है, क्योंकि वह मतिज्ञान का कार्य है। मतिज्ञानं वल्क समं भवति। वल्कं वल्कलं त्वगित्युच्यते। हिन्द्यां तु छाल इति कथ्यते । मतिज्ञानात् जायते श्रुतज्ञानमिति कारणत्वात् मतिज्ञानं वल्कलसमम्। श्रुतज्ञानं तु शुम्बसमं रज्जुतुल्यं भवति । यथा वल्केन रज्जुः निर्मीयते तथैव मतिज्ञानेन श्रुतज्ञानं जायते। अतः श्रुतज्ञानं तत्कार्यत्वात् शुम्बसममिति कथ्यते। आगमोऽपि श्रुतज्ञानमेवेति प्रतिपादयति सूत्रद्वारा - तदाप्तवचनाज्जातमागमः। यथा-अस्ति आत्मा। अस्त्यत्र मधुरं जलम् । आप्तवचनम् आगमः, तत्तु उपचारात्। वस्तुवृत्त्या वर्णपदवाक्यात्मकं वचनं पौद्गलिकत्वाद् द्रव्यश्रुतं अर्थज्ञानात्मकस्य भावश्रुतस्य साधनं भवति। आप्त वचन से होने वाला श्रुतज्ञान आगम कहलाता है। जैसे-आत्मा है। यहाँ मीठा पानी है। - उपचार से आप्तवचन को भी आगम कहा जाता है। वस्तुतः वर्ण-पद-वाक्यात्मक वचन पौद्गलिक होने के 2. 1. वचनादिति मुख्यत्वेन संकेतादयोऽपि ग्राह्याः । Page #144 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः कारण द्रव्यश्रुत है और वह अर्थज्ञानात्मक भावश्रुत का साधन बनता है। न्या. प्र.- आप्तवचनात् जातं श्रुतज्ञानम् आगम इति कथ्यते। यथा-नास्त्यात्मा इति वदन्ति जड़वादिनः । तद्विपरीतं वदति आसः अस्ति आत्मा। अस्मादाप्तो क्तवचनात् आत्मनोऽस्तित्वविषयकं यद् ज्ञानं जायते तदपि श्रुतज्ञानम् आगम इति कथ्यते। जलार्थिनः पुरुषस्य पुरो यदि आप्त पुरुषः कथयति यत् अत्र मधुरं जलमस्तीति तदा आप्तपुरुषस्य प्रामाण्यात् तस्य जलोपलब्धिर्भवत्येव। उपरि आप्तवचनात् जातस्य ज्ञानस्य (श्रुतरूपस्य) नाम आगम इति कथितम्, किन्तु आसवचनमेवागम इति प्रसिद्धिरप्यस्तीति विरोधः स्पष्ट एवेति शंकां निराकुर्वन् कथयति यत् आप्तवचने यः खलु आगम शब्दस्य प्रयोगः कृतः स तु औपचारिकोऽस्ति। अर्थात् आप्तवचनाद् जायमाने श्रुतज्ञाने यद् आगमत्वं वर्तते तत् तदीये कारणे आप्तवचने समारोप्य आप्तवचनमपि आगम शब्देनोच्यते। तच्च श्रुतज्ञानं द्विविधं भवति-द्रव्यश्रुतं भावश्रुतञ्च। तत्र वर्णपदवाक्यात्मकं वचनं पौद्गलिकं भवति। पौद्गलिकत्वाच्चेदं द्रव्यश्रुतम्। इदं द्रव्यश्रुतमेव अर्थज्ञानात्मकस्य भावश्रुतस्य साधनं भवति । अनया रीत्या श्रुतज्ञानस्य द्वैविध्यं साधूपपादितं भवति। उपरि आप्तस्य प्रसंगः समायातः। तत्र कः खलु आप्तः इति प्रतिपादयितुं सूत्रमुपस्थापयति Page #145 -------------------------------------------------------------------------- ________________ ११२ 3. 4. यथार्थविद् यथार्थवादी चाप्तः ' । वस्तु के यथार्थ स्वरूप को जानने और ज्ञान के अनुरूप ही उसका प्रतिपादन करने वाला आप्त कहलाता है। न्या. प्र. यः खलु वस्तुनो यथार्थस्वरूपं जानाति यथाज्ञानं वदति च स एव आप्तः । रागादिवशादपि नान्यथावादी यः भवति स एव आत इति विवेक: । स चातः कतिविध इत्याह लौकिकोऽलौकिकश्च' । लौकिक: जनकादिः । लोकोत्तरः तीर्थंकरादिः । आम के दो प्रकार हैं- लौकिक और लोकोत्तर । लौकिक आप्त-पिता आदि । लोकोत्तर आप्त-तीर्थंकर आदि । - भिक्षुन्यायकर्णिका न्या. प्र. आसो द्विप्रकार को भवति । लौकिक: अलौकिकश्च । www.coom लौकिक आप्तस्तु पुत्रं प्रति जनकः पिता तथा आदिना पितामहादयोऽपि भवन्ति । अलौकिकश्चातो लोकोत्तरपदेनाप्यभिधीयते । स च लोकोत्तर आप्तस्तीर्थंकरो भवति, यश्च मोक्षमार्गोपदेष्टा भवति । 1. आप्यते सम्यगर्थो यस्मादिति आसः । 2. लोके सामान्यजने भवो लौकिकः । 3. मोक्षमार्गोपदेष्टा लोकोत्तर इति । Page #146 -------------------------------------------------------------------------- ________________ चतुर्थी विभागः 5. चतुर्थविभागस्य प्रथमसूत्रे शब्दादयः श्रुतज्ञानस्य साधनमित्युक्तं, तत्र शब्दोऽर्थप्रतिपत्तिहेतुः केन प्रकारेण भवतीति प्रतिपादयति सूत्रद्वारा सहजसामर्थ्यसमयाभ्यां शब्दोऽर्थप्रतिपत्तिहेतुः । सहजसामर्थ्यम् - शब्दस्यार्थप्रतिपादन शक्तिः योग्यतानाम्नी, समय:-संकेतः, ताभ्यां शब्दोऽर्थप्रतिपत्तिहेतुर्भवति, नान्यथा । सहजसमार्थ्य और संकेत के द्वारा 'शब्द' अर्थप्रतिपत्ति ( अर्थबोध ) का हेतु बनता है । ११३ सहज सामर्थ्य - शब्द की अर्थ- प्रतिपादनशक्ति या योग्यता । समय का अर्थ है संकेत । इन दोनों के द्वारा शब्द अर्थ-बोध का हेतु बनता है, अन्यथा नहीं । - न्या. प्र.. अस्यायं भाव:- शब्देऽर्थबोधिका शक्तिः सहजा । सा एव शक्तिः सहजसामर्थ्यमपि कथ्यते। तस्या एवापरं नाम योग्यताऽप्यस्ति । अनया योग्यतया शब्द: अर्थं प्रतिपादयति । यथा इन्द्रियाणि स्वस्वविषयमर्थमनादिकालत एव प्रकाशयन्ति.. तथैव शब्दोऽपि अनादिकालत एवार्थं प्रकाशयन् वर्तते । तदुक्तं शाब्दकैः इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा । अनादिरर्थैः शब्दानां सम्बन्धो योग्यता तथा ॥ वैयाकरणभूषण शब्देऽर्थप्रतिपादिका शक्तिस्तिष्ठति । अत एव शब्द: शक्त इति पदेनाप्यभिधीयते । इयं शब्दनिष्ठाशक्तिरनादि-कालत एव शब्दे Page #147 -------------------------------------------------------------------------- ________________ ११४ भिक्षुन्यायकर्णिका निहिता वर्तते । किन्तु यं कञ्चित् शब्दं श्रुत्वा यस्य कस्याप्यर्थस्य बोधो नैव जायते । यदि स्यादेवं तदा बहूपप्लव: स्यादिति कस्यार्थस्य बोधिका शक्तिः कस्मिन् शब्दे निहिता इति निर्णेतव्यं पूर्वम् । अयं निर्णय एव शक्तिग्रहपदेनाप्युच्यते। शब्दे या अर्थबोधिका शक्तिस्तिष्ठति तस्या निर्णायकाः सन्ति इमेशक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यात् व्यवहारतश्च । वाक्यस्य शेषात् विवृते वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः। न्यायसिद्धान्तमुक्तावली धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद् भवति। कस्य धातोः कस्मिन् अर्थे शक्तिः, कस्य प्रत्ययस्य च क: अर्थः? अस्यां जिज्ञासायां धातूनां प्रत्ययानाञ्च शक्तिग्रहं व्याकरणं कारयति । यथा भू.इति सत्तायाम् गम्लुगतौ इत्यनेन प्रकारेण धातूनां तथा अण् इञ् छादीनां तद्धितीयप्रत्ययानाम् कः खलुः अर्थः, एवमेव कृत्य क्त-अणादिकृत्प्रत्ययानाञ्चार्थाः व्याकरणेनैव ज्ञातुं शक्यन्ते। अनेन प्रकारेण सुतिङादि-प्रत्ययानामर्थान् बोधयति व्याकरणम् । शक्तिग्राहकेषु उपमानमपि अन्यतमं निमित्तमस्ति। उपमानं सादृश्यम्। सादृश्यद्वाराऽपि गृह्यते शब्दस्य संकेतः। यथागोसदृशो गवयः इत्युक्ते सति गवयमजानतः पुरुषस्य गोसदृशे पशुविशेषे गवयपदस्य शक्तिग्रहोभवति । ततः समायाते दृष्टिपथे तस्मिन् पशौ अयमेव गवयशब्दवाच्य इति जायते तस्य बोधः। शक्तिग्राहकेषु कोशोऽपि बिभर्ति महत्त्वपूर्ण स्थानम्। एकमर्थं Page #148 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः बोधयितुं प्रस्तौति कोश: नानाशब्दान्। ते च शब्दाः पर्याय वाचिनो भवन्ति । तैश्च पर्यायवाचकैः शब्दैरेक एवार्थोऽवबुध्यत इति कोशद्वारा संकेतग्रहस्येयं परम्परा प्रथितिं गताऽस्ति। आप्तवाक्यादपि गृह्यते शब्दस्य संकेतः। आप्तस्तु स एव भवति यो यथार्थविद् यथार्थवादी च भवेत् । रागादिवशादपि नान्यथा वादी यः स एवाप्तः। एतादृशादासपुरुषात् कृते संकेतग्रहे न कश्चन विसंवादः। व्यवहारस्तु शक्तिग्राहकेषु प्रमुखं स्थानं बिभर्ति । व्यवहारशब्देनात्र गृह्यते वृद्धव्यवहारः। वृद्धव्यवहारेणैव बालकस्य शक्तिग्रहो भवति । यदा उत्तमवृद्धः अर्थात् ज्येष्ठ पुरुषः कनिष्ठं पुरुषं प्रति कथयति घटमानयेति, तदा तेनानीते घटे पार्श्वस्थो बालो निश्चिनोति घटकर्मकमानयनं घटमानयेति वाक्यस्यार्थः। पश्चात् घट स्थापय पटमानय इत्युक्ते सति आगते पटे बालस्य घटपदस्य घटे तथा पटपदस्य पटे शक्तिग्रहो भवति । एवं वृद्धव्यवहारतो बालस्य भवति शक्तिग्रहः। एवं वाक्यशेषात् 'यदान्या'ओषधयो म्लायन्ते अथैते मोदमानास्तिष्ठन्तीति वाक्यशेषात् यव शब्दस्य दीर्घशूके संकेतग्रहो भवति। एवं तत् समानार्थकपदेन तदर्थकथने विवरणात् घटपदस्य कलशे शक्तिग्रहः। एवं येन पुरुषेण तत्तद्शब्दानां तत्तदर्थेषु संकेतो गृहीतः स पुरुषो गृहीतसंकेतके तस्मिन् शब्दे श्रुतिपथमुपगते सति अवगच्छति तं संकेतितमर्थम्। यश्च पुरुषोऽगृहीतसंकेत: अथवा संकेतं गृहीत्वापि विस्मृतसंकेतोऽस्ति तस्य नैव जायते Page #149 -------------------------------------------------------------------------- ________________ ११६ भिक्षुन्यायकर्णिका बोधः कदापि। अनेन प्रकारेणेदं वक्तुं शक्यते यत् शब्देऽर्थ बोधिका शक्तिः सहजा वर्तते। सा एव शक्तिः संकेतद्वारा यदा गृहीता भवति तदा तम् शब्दं श्रुत्वा तदर्थबोधो जायते। इदानीमिदं विचार्यते यत् शब्दादर्थबोधो जायत इत्यत्र न कश्चन विसंवाद:, किन्तु शब्दादवगतोऽर्थः कदाचित् यथार्थत्वं भजते कदाचिच्चायथार्थत्वम् । तच्च कथमिति शंकामपाकर्तुं सूत्रयति 6. अर्थप्रकाशकत्वमस्य स्वाभाविकं प्रदीपवत्, यथार्थत्वम - यथार्थत्वञ्च वक्तृगुणदोषानुसारि॥ शब्द में प्रदीप की तरह अर्थ प्रकाशकत्व स्वाभाविक है, पर उसकी यथार्थता और अयथार्थता वक्ता के गुण और दोष के अनुसार है। न्या. प्र.- प्रदीपोऽर्थान् प्रकाशयति । इदं तस्य स्वाभाविकं कार्यम् अस्ति, तथैव अर्थप्रकाशकत्वं-बोधकत्वं शब्दस्यापि स्वाभाविकं कार्यमस्ति, किन्तु अर्थे या यथार्थता अयथार्थता वा आयाति सा तु वक्तु : गुणदोषाभ्यामेव जायते। वक्तरि गुणश्चेत् अर्थस्य यथार्थता, दोषे सति अयथार्थता भवतीति बोध्यम्। वक्तरि गुणप्रतीतिस्तस्य सम्यग्दर्शित्वेन सत्यवकृत्वादिगुणेन च शक्यते ज्ञातुम् । यदा वक्ता एवं गुणगणालंकृतो न भवति तदासावयथार्थज्ञानमेवोत्पादयिष्यतीति न संशयः। सम्प्रति जैनदर्शनस्य मुख्यं तत्वम् अनेकान्तवादं स्याद्वादं च व्याख्यातुकामः सूत्रमवतारयति Page #150 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः ११७ 7. अर्पणानर्पणाभ्यामनेकान्तात्मकार्थप्रतिपादनपद्धतिः स्याद्वादः। एकत्र वस्तुनि विरोध्यविरोधिनामनेकधर्माणां स्वीकारः अनेकान्तः । तदात्मकस्य अर्थस्य एकस्मिन् समये एकस्य धर्मस्य अर्पणया शेषाणाञ्चानर्पणया प्रतिपादकं वचः, स्यायुक्तत्वात् स्याद्वादः कथ्यते। नायमेकत्र नानाविरुद्धधर्मप्रतिपादकः, किन्तु अपेक्षाभेदेन तद्विरोधपरिहारक: समस्ति। अर्पणा (मुख्य धर्म की अपेक्षा) और अनर्पणा (गौण धर्म की उपेक्षा) के द्वारा अनेकान्तात्मक (अनन्त धर्मात्मक) वस्तु के प्रतिपादन की पद्धति को स्याद्वाद कहा जाता है। विरोधी और अविरोधी अनेक धर्मों के स्वीकार को अनेकान्त कहा जाता है। एक समय में एक धर्म की अर्पणा और शेष धर्मों की अनर्पणा के द्वारा अनेकान्तात्मक वस्तु का प्रतिपादन करने वाला वचन ‘स्यात्' शब्द से युक्त होने के कारण स्याद्वाद कहलाता है। 1. अपेक्षानपेक्षाभ्याम्, विवक्षाविवक्षाभ्याम्, प्रधानगौणभावाभ्याम्। 2. अनेकान्तवादो वस्तुनि सर्वधर्माणां संग्राहकः, स्याद्वादश्च अपेक्षाभेदेन विरोधमपसार्य तेषां प्रतिपादक इत्यनयोर्भेदः। यथा-वस्तु नित्यञ्च अनित्यञ्च इति अनेकान्तः, द्रव्यापेक्षया नित्यम्, पर्यायापेक्षया च अनित्यमिति स्याद्वादः । अमुकस्मिन् वस्तुनि अमुको धर्मः अमुकापेक्षया इति शेषधर्मान् गौणीकृत्य अभेदवृत्त्यापन्नस्य एकस्य धर्मस्य कथञ्चिन् मुख्यताप्रतिपादनं स्याद्वादस्य फलम्। तेन नानेकान्तवादो वस्तुस्वरूपप्रतिपादने स्याद्वादनिरपेक्षः। Page #151 -------------------------------------------------------------------------- ________________ ११८ भिक्षुन्यायकर्णिका स्याद्वाद एक वस्तु में अनेक विरोधी धर्मों का प्रतिपादक नहीं है किन्तु अपेक्षाभेद से विरोध का परिहारक है। न्या. प्र.- प्रत्येकं वस्तु अनन्तधर्मात्मकमिति अनेकान्तवादसिद्धान्तः। यद्यपि वस्तूनामनेकधर्मात्मकत्वमन्यदर्शनेष्वपि अभिमतं तथापि परस्परं --विरोधिनोऽविरोधिनश्चानेकधर्मा एकस्मिन्नेव वस्तुनि तिष्ठन्तीति अनेकान्तसिद्धान्तः। अनया रीत्या प्रत्येकं वस्तु विरोधिधर्माणामविरोधि अधिकरणमिति अनेकान्तवादस्य मौलिकं स्वरूपम्। तत्र च सर्वे धर्माः सहैव वक्तुं न शक्यन्ते इति अर्पणानर्पणाभ्यां विवक्षाविवक्षाभ्यामर्थात् एकस्य धर्मस्य प्रधानत्वेन विवक्षायां तथा शेषधर्माणामनर्पणया प्रधानत्वेन अनविवक्षया प्रतिपादनं करोति स्याद्वादः । स्यात् शब्दयुक्तत्वाच्चाायं वादः स्याद्वाद इति कथ्यते। स्याद्वादः एकस्मिन् वस्तुनि अनेकविरोधिधर्माणां प्रतिपादनं न करोति किन्तु अपेक्षाभेदेन विरोधं परिहरति। यस्मिन् समये यस्य धर्मस्य विवक्षा भवति स धर्मस्तदा प्राधान्यं भजते शेषधर्मास्तु तत्र वर्तमाना अपि अप्राधान्यमेव भजन्ते इति प्रतिपादयति स्याद्वादः। अनेन प्रकारेणेदं सिध्यति यत् अनेकान्तवादः सिद्धान्तोऽस्ति स्याद्वादश्च तस्य व्याख्यातास्ति। स्याद्वादस्य वचनप्रणाली कीदृशी कतिधा च सेति वक्तु मुपक्रमते। Page #152 -------------------------------------------------------------------------- ________________ चतुर्थी विभागः 8. विधिनिषेधविकल्पैः सोऽनेकभङ्गः । अनेके भङ्गाः - विकल्पाः - वचनप्रकारा वा यस्य, स स्याद्वाद : ' अनेकभङ्गो भवति । ११९ विधि और निषेध की कल्पना से स्याद्वाद के अनेक भंग होते हैं । स्याद्वाद के अनेक भंग - विकल्प या वचनप्रकार होते हैं, इसलिए उसे अनेकभंग वाला कहा जाता है । न्या. प्र. - विधि- अस्तित्वम् निषेधो नास्तित्वम् । अनयोर्विधिनिषेधयोर्भङ्गैः विकल्पैः अर्थात् वचनप्रकारैः स स्याद्वाद: अनेकभङ्गो भवति । अनेके भङ्गा विकल्पा वचनप्रकारा यस्य स स्याद्वादोऽनेकवचनप्रकारो भवति । अर्थात् अनेकवचन प्रकारैः स्याद्वादोऽनेकान्तवादं व्याख्याति । अयमत्र सारांश :- प्रत्येकं दर्शनं स्वकीयदृष्ट्या जगतो विवेचनं करोति । परिणामस्वरूपमत्रानेके वादाः प्रथितिं गताः सन्ति । तेषु अद्वैतवादः द्वैतवादः सत्कार्यवादप्रभृतयः सन्ति प्रसिद्धाः । अस्मिन् प्रसंगे जैनदर्शनम् अनेकान्तवादसरण्या करोति विवेचनं जगत: । अनेकान्त: सिद्धान्तोऽस्ति । स्याद्वादश्च तन्निरूपणपद्धतिरस्ति । एतद्दर्शनानुसारं प्रत्येकं वस्तु अनन्तधर्मात्मकं भवति । अनेके अन्ताः धर्माः यत्र सोऽनेकान्तः । एकस्मिन् वस्तुनि अनेकेषां विरोध्यविरोधिधर्माणामस्तित्वस्वीकरण1. कथञ्चिद्वादः, अपेक्षावाद इति नामान्तराणि । अभेदविवक्षया यौगपद्येन अखण्डवस्तुप्रतिपादकत्वाद् असौ सकलादेश: प्रमाणवाक्यञ्चापि कथ्यते । Page #153 -------------------------------------------------------------------------- ________________ १२० भिक्षुन्यायकर्णिका मनेकान्तः। स्यादवादश्च विभिन्नामपेक्षामवलम्ब्य वस्तुगतानामनेकेषां धर्माणां प्रतिपादनं करोति । अस्य वास्तविकी स्थिति: वस्तुनः सदसदात्मकभावमादायैव भवति। प्रत्येकं वस्तुनो भवति एकं स्वकीयमसाधारणं रूपं यद् स्वकीयद्रव्यक्षेत्रकालभावोपरि आधृतं भवति । प्रत्येकं वस्तु -स्वद्रव्यक्षेत्रकालभावै: अस्तित्वसम्पन्नं भवति। तदेव वस्तु परकीयद्रव्यक्षेत्रकालभावैर्नास्तित्वसम्पन्नं भवति । यदि स्वरूपचतुष्टयवत् पररूपचतुष्ट येनापि वस्तुनः सद्पत्वं स्वीकृतं स्यात् तदा स्वस्मिन् परस्मिन् च न कश्चन भेदः स्थास्यति । परिणामतः सर्वं वस्तु सर्वात्मकं भविष्यति । अनेनैव प्रकारेण पररूपचतुष्टयवत् स्वरूपचतुष्टयेनापि वस्तुनोऽसद्रूपत्वं यदि अभिमतं स्यात् तदा वस्तुनोऽभावात्मकत्वमेव स्यात् । अतो लोकप्रतीतिसिद्धव्यवस्था सम्पादयितुं प्रत्येकं वस्तुनः स्वरूपेण सत्वं पररूपेण चासत्वं स्वीकरणीयम्। स्याद्वादः इत्यस्मिन् पदे पदद्वयमस्ति । स्यात् इत्येकं पदं वाद इत्यपरं पदम्। तत्र स्यात् इति तिङन्तप्रतिरूपकम् अव्ययपदम् । अत्रास्यार्थोऽस्ति कथञ्चिदिति । वादपदस्य अर्थोऽस्ति कथनम्। यत्र स्यादस्ति घटः इत्युच्यते तत्र यदि अस्तिना घटस्य केवलमस्तित्वमेव प्रतिपादयितुं काम्यते तदा स्यात् पदं तनिवारयति । तत् तु कथयति यत् घटे केवलम् अस्तित्वमेव नास्ति अपितु परद्रव्यक्षेत्रकालभावदृष्ट्या तत्र नास्तित्वमप्यस्ति । अत्र अस्तित्वस्य स्यान्नाम अर्पणा, किन्तु अत्र नास्तित्वमपि वर्तत एवाप्रधानरूपेण । एवमेव नित्यत्वम्, Page #154 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः १२१ अनित्यत्वम्, एकत्वम्, अनेकत्वम्, सत्वम् असत्वम्, इत्येवं रूपेण परस्परं विरोधिनो धर्मा एकस्मिन्नेव वस्तुनि तिष्ठन्ति । तस्मादने कान्तवादानुसार मिदंशक्यते वक्तुं यद् अनेकान्तवादानुसारं प्रत्येकं वस्तु विरोधिधर्माणाम् अविरोधि अधिकरणं भवतीति। एकस्मिन्नेव वस्तुनि अपेक्षाबुद्धया परस्परं विरोधिनो धर्मा गुणप्रधानभावाभ्यां तिष्ठन्ति। यदा एकस्य धर्मस्य प्राधान्यं विवक्ष्यते तदाऽन्ये धर्मास्तत्र गौणरूपेण (अप्राधान्येन) तिष्ठन्ति। अष्टमसूत्रे कथितं यत् विधिनिषेधैर्वचनप्रकारैः स्याद्वादः अनेकभङ्गो भवति। तानि च विधिनिषेधवाक्यानि कथं कीदृशानि च भवन्तीति प्रतिपादयितुं सूत्रयति 9. यथा स्यादस्त्येव, स्यानास्त्येव, स्यादवक्तव्यमेवेति। स्यात् शब्दोऽनेकान्तवाचकः । स्वद्रव्यक्षेत्रकालभावापेक्षया सर्वत्रास्तित्वम्, परद्रव्यक्षेत्राद्यपेक्षया नास्तित्वम्, युगपदुभयधर्मापेक्षया चाऽवक्तव्यत्वमिति। वस्तुनः प्रतिधर्ममेते त्रयो भगा योज्याः । संयोगजाश्चत्वारोऽन्येऽपीति' - 1. (क) क्रमतो विधिनिषेधकल्पनया। (ख) विधिकल्पनया युगपद्विधिनिषेधकल्पनया। (ग) निषेधकल्पनया, युगपद्विधिनिषेधकल्पनया। (घ) क्रमशो विधिनिषेधकल्पनया, युगद्विधिनिषेधकल्पनया। Page #155 -------------------------------------------------------------------------- ________________ १२२ भिक्षुन्यायकर्णिका 1. स्यादस्त्येव स्यानास्त्येव। 2. स्यादस्त्येव स्यादवक्तव्यमेव। 3. स्यानास्त्येव स्यादवक्तव्यमेव। 4. स्यादस्त्येव स्यान्नास्त्येव स्यादवक्तव्यमेव । सर्वेषां योगेन सप्तभगी जायते। स्याद्वाद के मुख्यतः तीन भंग हैं, जैसे : 1. स्यात् अस्ति एव। 2. स्यात् नास्ति एव। 3. स्यात् अवक्तव्य एव। यहाँ स्यात् शब्द अनेकान्त का वाचक है। स्व द्रव्य, क्षेत्र, काल और भाव की अपेक्षा से पदार्थ में अस्तित्व होता है। पर द्रव्य, क्षेत्र, काल और भाव की अपेक्षा से पदार्थ में नास्तित्व होता है। एक साथ अस्तित्व और नास्तित्व दोनों धर्मों की अपेक्षा करने पर पदार्थ में अवक्तव्यत्व होता है। ये तीनों भंग वस्तु के प्रत्येक धर्म के साथ जोड़ने चाहिए। इन तीनों के संयोग से चार भंग और बनते हैं :1. स्यात् अस्ति एव-स्यात् नास्ति एव। 2. स्यात् अस्ति एव-स्यात् अवक्तव्य एव। 3. स्यात् नास्ति एव-स्यात् अवक्तव्य एव। 4. स्यात् अस्ति एव-स्यात् नास्ति एव। Page #156 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः १२३ स्यात् अवक्तव्य एव। सबको मिलाने से सप्तभगी होती है। न्या. प्र.- स्याद्वादस्य मुख्यतस्त्रयो भङ्गा भवन्ति । यथा१. स्यादस्त्येव, २. स्यान्नास्त्येव, ३. स्यादवक्तव्य एव अत्र स्यात् शब्दोऽनेकान्तवाचकोऽस्ति। अयं कथयति यत् प्रत्येकं वस्तुनि अनेके धर्माः सन्ति । तत्र स्वद्रव्यक्षेत्रकालभावापेक्षया प्रत्येकं वस्तु नोऽस्तित्वं सर्वत्रैव वर्तते । परद्रव्यक्षेत्रकालभावापेक्षया तत्र नास्तित्वमपि वर्तते। यत्र स्यादस्त्येव घटः इत्युच्यते तत्र सर्वत्र अस्तित्वं प्रधानं भवति। नास्तित्वञ्चाप्रधानं भवति। एवमेव यदा स्यान्नास्त्येव घट: इत्युच्यते तत्र नास्तित्वमेव प्राधान्यं भजते, अस्तित्वञ्च तत्र गौणतामुपयाति। यदा उभयोः सहार्पितत्वं काम्यते अर्थात् उभयोः प्राधान्यं सहैव स्यादिति काम्यते, तदा उभयोः सहैव प्राधान्यमसंभवमिति मत्वा तत्र अवक्तव्यत्वं भवति। अत एव तत्र प्रोच्यते स्यादवक्तव्य एव घटः । इमे त्रय एव भङ्गाः सन्ति मुख्याः। वस्तुनः प्रत्येकं धर्मेण सह इमे त्रयो योजनीयाः सन्ति। यथोपर्युक्तोदाहरणे अस्तिना सह योजिता इमे त्रयो भङ्गाः। एवमेव नास्तित्वलघुत्वमहत्वादिभिः सह एते त्रयो भङ्गाः योजनीयाः। एषां त्रयाणां भङ्गानां संयोगेन निष्पन्नाश्चत्वारोऽन्येऽपि भङ्गा भवन्ति । तद्यथा Page #157 -------------------------------------------------------------------------- ________________ १२४ भिक्षुन्यायकर्णिका यदा अस्तित्वनास्तित्वयोः विधिनिषेधयोः क्रमशः प्राधान्यं काम्यते तदा स्यादस्तिनास्ति घटः इति भङ्गो भवति । यदा विधिकल्पनया सह युगपत् विधिनिषेधयोः (अवक्तव्यत्वस्य) प्राधान्यं काम्यते तदा स्यादस्ति चावक्तव्यश्च घट: इति भङ्गो निष्पद्यते। यदा च निषेधस्य प्राधान्यकामनया सह युगपत् विधिनिषेधयोः (अवक्तव्यत्वस्य) प्राधान्यं वाञ्छितं भवति तदा स्यान्नास्ति चावक्तव्यश्चेति भङ्गः भवति। एवमेव क्रमशो विधिनिषेधप्राधान्यकामनया सह युगपत् विधिनिषेधयोः प्राधान्यकामना यदा भवति तदा स्यादस्ति नास्ति चावक्तव्यश्चेति भङ्गः सम्पद्यते। उपर्युक्त विवेचनेन सप्तानां भङ्गानां क्रमः एवं निष्पद्यते स्यादस्ति घट:-अत्रास्तित्वस्य प्राधान्यं नास्तित्वस्य चाप्राधान्यम्। स्यान्नास्ति घट:-अत्र नास्तित्वस्य प्राधान्यं तथा अस्तित्वस्याप्राधान्यं भवतीति बोध्यम्। स्यादस्ति नास्ति च घट:-क्रमार्पितोऽयं भङ्गः। अस्मिन् भङ्गे क्रमशः सत्वम् प्रधानं तथा असत्वं च प्रधानं भवति । कयाचिदपेक्षया घटस्यास्तित्वं तथा कयाचिदपेक्षया घट स्यनास्तित्वञ्च प्रधानतामुपयातीति क्रमार्पितोऽयं पक्षो भवति साधीयान्। Page #158 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः १२५ स्यादवक्तव्यो घट:-अयं भङ्गस्तस्यामवस्थायां निष्पद्यते यदा सहैव कामना भवति अस्तित्वनास्तित्वयोः प्राधान्यस्य। किन्तु विरोधिधर्मद्वयं सहैव प्राधान्यं यायादिति तु वक्तुमप्यशक्यमिति भवति अवक्तव्यो घट इति। प्रथमद्वितीयतृतीयभङ्गैः सह योजयित्वा इमं भङ्गमन्ये त्रयो भङ्गा निष्पद्यन्ते। तद्यथास्यादस्तिचावक्त व्यश्च घट :-अस्मिन् भङ्ग सत्तासहितस्य अवक्तव्यत्वस्य प्राधान्यं भवति । अमुकवस्तुनः सत्ता अस्ति किन्तु सा अवक्तव्यास्ति इति रीत्या सत्ताया अवक्तव्यत्वस्य च प्राधान्यं प्रतीयत एवास्मिन् भङ्गे। स्यान्नास्ति चावक्तव्यश्च घट:-अत्र नास्तित्वसहितस्य अवक्त व्यत्वस्य प्राधान्यम्। अमुक वस्तु नो नास्तित्वमस्ति, किन्तु अवक्तव्यं तदिति भङ्गस्यास्य स्वरूपं सुस्थिरं भवति। स्यादस्ति नास्ति चावक्तव्यश्च घट:-अस्मिन् भने सत्ताया असत्ताया अवक्तव्यत्वस्य च प्राधान्यं वर्तते । वस्तु कयाचिदपेक्षया अस्ति कयाचिदपेक्षया च नास्ति इदं तथ्यम् अवक्तव्यमस्ति। अनया रीत्या त्रयाणामपि प्राधान्यमतिरोहितमिति अस्यापि भङ्गस्य औचित्यं सुरक्षितं तिष्ठति। Page #159 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका प्रथमविभागस्य दशमे सूत्रे प्रमाणस्य लक्षणं कृतमस्ति । तेन प्रतीयते यथार्थज्ञानमेवप्रमाणाम्, किन्तु यदि प्रमाणं (ज्ञानम्) आवरणाच्छादितं भवति तदा तन्न भवति अर्थप्रकाशकमिति आवरणविलयस्य वर्तते महती आवश्यकतेति वक्तुमुपक्रमते10. प्रमाणं स्वावरणविलययोग्यतया प्रतिनियतार्थप्रकाशि। प्रमाण अपनी आवरण और विलयजनित योग्यता से प्रतिनियत अर्थ का प्रकाशक होता है । १२६ न्या. प्र. प्रमाणं स्वस्य उपरि समागतमावरणं विलीनं कृत्वा अर्थप्रकाशनयोग्यतामासाद्यप्रतिनियतम् अर्थं प्रकाशयति । यावन्नापाकरणं स्यादावरणस्य तावन्नैव प्रकाशो भवितुमर्हति पदार्थस्य । अतः प्रमाणादावरणापसारणे सति तत्तद्प्रमाणैर्नियतार्थस्य प्रकाशनं भवतीति प्रसिद्धम् । अर्थप्रकाशनविधया प्रमाणस्य द्वैविध्यमिति वक्तु कामः सूत्र मारचयति ➖➖ 11. स्वार्थं परार्थञ्च । अवधिमनः पर्यायकेवलानि मतिश्च वागसम्बद्धत्वात् स्वार्थम् स्वसंवेद्यम् । श्रुतं परार्थञ्चापि । शब्दोन्मुखं शब्दाज्जातं वा स्वार्थम्, परप्रत्यायनाय वागभिनिबद्धं परार्थम्। प्रमाण स्वार्थ और परार्थ दोनों प्रकार का होता है । अवधि, मन: पर्याय, केवल और मति- ये चारों ज्ञान वचन से संबद्ध Page #160 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः १२७ न होने के कारण स्वार्थ-स्वसंवेद्य होते हैं। श्रुतज्ञान स्वार्थ और परार्थ दोनों होता है। . वह जब शब्दोन्मुख और शब्द से उत्पन्न होता है तब स्वार्थ तथा दूसरों को प्रतीति कराने के लिए वचननिबद्ध होता है तब वह परार्थ होता है। न्या. प्र.- प्रमाणं द्विविधं भवति-स्वार्थ परार्थञ्च। एषु अवधिज्ञानं मनःपर्याय ज्ञानं, केवलज्ञानं, मतिज्ञानञ्चेति चत्वारि ज्ञानानि वाचा सम्बद्धानि न भवन्ति। वागसम्बद्धत्वादेव एतत् ज्ञानचतुष्टयं स्वार्थम् अर्थात् स्वसंवेद्यम्-स्वयं ज्ञेयं भवति । अनुभविता जनः स्वयमनुभवति एतत् ज्ञानचतुष्ट यजन्यं प्रकाशम् । अतः स्वार्थमेतच्चतुष्टयं ज्ञानम्। श्रुतज्ञानं तु स्वार्थं परार्थञ्चेति द्विविधं भवति। शब्दं श्रुत्वा ततो ज्ञानं बोधो वा स्वस्य कृते भवतीति स्वार्थं तदुच्यते। परस्य जनस्य प्रत्यायनाय बो धाय ज्ञानं यदा वागभिनिबध्यते = वाचा प्रकाश्यते तदा तत् ज्ञानं परार्थमित्युच्यते। अधुना परार्थज्ञानस्य सद्वाद इति नामान्तरमिति प्रतिपादयितुकामः समुपक्रमते 12. यत् परार्थं तन्नयवाक्यापरपर्यायः सद्वाद' एव। अखण्डवस्तुन एकधर्मप्रकाशनपरो वादः सद्वादः । एकस्मिन् 1. अयं भेदप्राधान्याद् भेदोपचाराद् वा क्रमेण वस्तुधर्मान् प्रतिपादयति, न तु एकस्मिन् समये अनेकान् इत्यसौ विकलादेशोऽपि कथ्यते। Page #161 -------------------------------------------------------------------------- ________________ १२८ भिक्षुन्यायकर्णिका समये एकस्यैव धर्मस्य प्रतिपादयितुं शक्यत्वात्, वस्तुतः सद्वाद एव परार्थं भवति। प्रमाणवाक्यं' परार्थम्, तत्तु अभेदप्राधान्याद् अभेदोपचाराद् वा। जो ज्ञान परार्थ होता है उसे सद्वाद कहते हैं। उसका दूसरा नाम नयवाक्य है। अखण्ड वस्तु के एक धर्म का प्रकाशन करने वाला वाद सद्वाद है। एक समय में एक ही धर्म का प्रतिपादन किया जा सकता है इसलिए वास्तव में सद्वाद ही परार्थ होता है । प्रमाणवाक्य (स्याद्वाद) को परार्थ माना गया है, पर वह अभेद की प्रधानता या अभेदोपचार से माना गया है। न्या. प्र.- यद्ज्ञानं परार्थं भवति तस्यापर पर्यायो नयवाक्यमस्ति। नयवाक्यमेव सद्वादः कथ्यते । अखण्डवस्तु नः एक स्य धर्मस्य प्रकाशको वादः सद्वादोऽस्ति। एकस्मिन् समये एक एव धर्मः प्रकाशयितुं शक्यते। अतः सद्वाद एव वस्तुतः परार्थो भवति । प्रमाणवाक्यं 1. अखण्डवस्तुनः प्रतिपादकं वाक्यं प्रमाणवाक्यम्। 2. अखण्डवस्तुनः एको धर्मः शेषैरशेषैरपि तद्धमैः अभेदवृत्तिमापन एव तत् प्रतिपादयति । ज्ञानं यथा एकस्मिन् समये अनेकान् धर्मान् जानाति, तथा नैकः कश्चित् शब्दः यः खल्वेकस्मिन् समये अनेकान् धर्मान् प्रतिपादयेदिति। प्रमाणवाक्यं यद् अखण्डं वस्तु प्रतिपादयति, तत् मुख्यगौणभावेनैव। Page #162 -------------------------------------------------------------------------- ________________ चतुर्थो विभागः १२९ परार्थमिति यदुच्यते तत्तु अभेदस्य प्राधान्यात् अभेदोपचाराद् वा भवतीति विज्ञेयम् । इदमत्रास्य स्पष्टीकरणम्वाक्यं द्विविधं-नयवाक्यं प्रमाणवाक्यञ्च। नयवाक्यमेव सद्वाद पदेनाप्यभिधीयते। वस्तु भवति अनेकधर्मात्मकम्। तत्र अखण्डवस्तुन एकस्य धर्मस्य प्रकाशनं करोति सद्वादो नयवाक्यं वा । वस्तु अनन्तधर्मात्मकं भवति । अनन्तधर्मपदेन अस्तित्वं नास्तित्वं चेत्यादयो धर्मा गृह्यन्ते। इमे सर्वे धर्माः काल द्वारा एकस्मिन् धर्मिणि अभेदवृत्त्या अभेदोपचाराद् वा तिष्ठन्ति । अभेदवृत्तेः तात्पर्यमिदं यत् यदा वस्तुनः प्रतिपादनं द्रव्यदृष्ट्या क्रियते तदा पर्यायस्य गौणत्वं भवति द्रव्यस्य च प्राधान्यं भवति। द्रव्यस्य प्राधान्ये तु तस्मिन् द्रव्ये यावन्तो धर्मास्तिष्ठन्ति ते कालादिद्वारा अभेदवृत्या तिष्ठन्ति । यः कालोऽस्तित्वस्य स एव कालोऽन्येषामपि धर्माणां भवति । अस्यां स्थितौ यदा अस्तित्वस्य कथनं क्रियते तदा अस्तिना अभिन्नानां सर्वेषामेवधर्माणां प्रतिपादनं भवति । इदं प्रतिपादनम् अभेदवृत्या प्रतिपादनमित्युच्यते। यदा द्रव्यत्वं गुणीभावं भजते तदा पर्यायस्य प्राधान्यं भवति । पर्यायाणां च नानात्वं ख्यातमेव। तस्मिन् समये कालादिद्वारा भिन्नपर्यायेषु (गुणेषु वा) अभेदोपचारः क्रियते। इदमत्रावधेयं यत् कालादिद्वारा अभेदवृत्तिर्द्रव्यार्थिकनये भवति। अस्येदं कारणं यत् तत्र द्रव्यस्य एकत्वात् तदाश्रया धर्माः कालादिद्वारा अभिन्ना मान्यन्ते। Page #163 -------------------------------------------------------------------------- ________________ १३० भिक्षुन्यायकर्णिका पर्यायार्थिक नये तु यदा पर्यायाणां नानात्वं तदा तत्र अभेदः कथमपि भवितुं नाहतीति अस्मिन् पक्षे अभेदोपचारो भवति। अनेन प्रकारेणानन्तधर्मात्मकस्य वस्तुनो यौगपद्येन प्रतिपादकं वाक्यं सकलादेश इत्युच्यते। अनया रीत्या प्रमाणवाक्यं द्रव्यार्थिकनयदृष्ट्या अभेदवृत्त्या अभेदोपचाराद् वा अनन्तधर्मात्मकवस्तुनः प्रतिपादकं भवति । एतादृशप्रतिपादनं सकलादेश इत्यपि उच्यते। अनन्तधर्मात्मकवस्तुन एकं धर्म यो गृह्णाति स नय इत्युच्यते। एकैकस्य धर्मस्य ग्रहणे तु भेदस्यैव प्राधान्यं तत्र। एवञ्च तत्र भेदप्राधान्याद् अथवा भेदोपचाराद् वा पदार्थानां प्रतिपादनं भवति । भेदोपचारस्यात्र कावश्यकतेति श्रूयताम्-कालादिद्वारा यदा सर्वे धर्माः अभिन्ना भवन्ति तदा तेषां पृथक् -पृथक् कथनं केन प्रकारेण जायेत? अतएव तत्राभेदेऽपि भेदस्योपचारः क्रियते । अनेन प्रकारेण नयदृष्ट्या वस्तु विवेचनं विकलरूपेण भवति। प्रमाणदृष्ट्या तु सकलरूपेणेति प्रमाणदृष्टिः सकलादेशो नयदृष्टिस्तु विकलादेश इति विवेकः। अनेन प्रकारेण सद्वादो नयदृष्टिा भेदं प्रधानं कृत्वा अथवा भेदस्योपचारं वा कृत्वा वस्तुनो धर्मस्य प्रतिपादनं करोति। किन्तु एकस्मिन् क्षणेऽनेकधर्मान् न प्रतिपादयतीति पक्षोऽयं विकलादेश इत्यपि कथ्यते। इति श्रुतस्वरूपनिर्णयात्मकश्चतुर्थो विभागः। Page #164 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः प्रमाणनयैरधिगमः इत्युक्त्यनुसारम् पदार्थावगमे प्रमाणेन सह नयस्यापि वर्तते समुपयोगः। प्रमाणेन गृहीतस्यानन्तधर्मात्मकस्य वस्तुनो विवक्षितधर्मस्य ग्रहणं तथा अन्यधर्माणां निराकरणं न कुर्वाणो विचारो नयः। प्रमाणं यत्र सम्पूर्ण वस्तु गृह्णाति तत्र नयस्तु वस्तुनः अंशमेव गृह्णाति। अतएव प्रमाणं सकलादेशि नयश्च विकलादेशी कथ्यते। सकलादेशः प्रमाणाधीनो विकलादेशश्च नयाधीनः इति सर्वार्थसिद्धेरुक्तिरपि इदमेव तथ्यं प्रकटयति । जैनदर्शनानुसारं प्रत्येकं वस्तु सामान्यविशेषात्मकं भवति। सामान्यविशेषात्मकस्य तात्पर्यमिदं यत् प्रत्येकं वस्तु भेदाभेदात्मकं भवति। अभेदः सामान्यं भेदश्च विशेषः। प्रमाणमभेदग्राहि चेत् नयो विशेषग्राही भवति । अनेनप्रकारेण वक्तुं शक्यते यत् प्रमाणं नयस्यकृते पदार्थान् समुपस्थापयति। नयश्च तत्र अंशं विवेचयति । रीत्यानया नयप्रमाणयोरुपजीव्योपजीवकभावसम्बन्धः। प्रमाणमुपजीवयतीति उपजीव्यं चेत् नयः Page #165 -------------------------------------------------------------------------- ________________ १३२ भिक्षुन्यायकर्णिका उपजीवतीति उपजीवक इति स्पष्टं भवति। एतत् सर्वमभिप्रेत्य नयं व्याचिख्यासुराचार्यो नयं लक्षयन् सूत्रयतिअनिराकृतेतरांशो वस्त्वंशग्राही प्रतिपत्तुरभिप्रायो नयः'। अनन्तधर्मात्मकस्य वस्तुनो विवक्षितमंशं गृह्णन्, इतरांशान् अनिराकुर्वंश्च ज्ञातुरभिप्राय: नयः । प्रमाणस्य विषयः अखण्डं वस्तु, नयस्य च तदेकदेशः, ततो नायं प्रमाणमप्रमाणं च, किन्तु प्रमाणांशः, यथा-शरीरैकदेशो न शरीरं नाप्यशरीरम्, किन्तु शरीरांशः । वस्तु के अन्य अंशो का निराकरण न करने वाले तथा उसके एक अंश का ग्रहण करने वाले ज्ञाता के अभिप्राय को नय कहा जाता है। __ अनन्त धर्मात्मक वस्तु के विवक्षित अंश का ग्रहण तथा शेष अंशों का निराकरण न करने वाले प्रतिपादक का अभिप्राय नय कहलाता है। प्रमाण का विषय है अखण्ड वस्तु और नय का विषय है उसका एक अंश। इस दृष्टि से नय न प्रमाण है और न अप्रमाण, किन्तु प्रमाणांश है, जैसे- शरीर का एक अवयव न शरीर है और न अशरीर, किन्तु शरीरांश होता है। न्या. प्र.- वस्तु भवति अनन्तधर्मात्मकम् । तत्र प्रमाणे गृहीतस्य वस्तुनः एकांशं यत् ग्राहयति गृह्णाति वा स प्रतिपत्तुः 1. असौ सदेकान्तोऽपि कथ्यते। Page #166 -------------------------------------------------------------------------- ________________ पञ्चमो विभाग: १३३ बोद्धः अभिप्रायविशेषो नयः। नीयते ज्ञायते येन स नयः। प्रमाणं समग्रभावेन वस्तु जानाति। वस्तुनोंऽशविभाजनं न तदीयं लक्ष्यं किन्तु नयस्तु वस्तुनः अंशमेव गृह्णातिन अंशग्रहणकाले नयः अंशं गृह्णन्नपि वस्तुनः इतरेषाम् अंशानां निराकरणं न करोति । अतएवोक्तं मूले - अनिराकृतेतरांश: न निराकृतो नास्वीकृतः इतरांशो येन स नयः। इतरांशं स्वीकुर्वन् वस्तुनः अंशग्राहक एव नयः । अयं घटः' इत्युक्ते सति रूपरसगन्धादिविशिष्टोऽखण्डो घटो गृह्यते प्रमाणेन। अस्मिन् प्रमाण गृहीतेऽर्थे अंशविभाजनं कृत्वा रूपवान् घटः स्पर्शवान् घटः इत्येवं रूपेण नयः अंशं गृह्णाति। प्रमाणं नयश्चेत्युभावपि ज्ञानात्मकावेव । यदा ज्ञातुर्दृष्टिः सकल ग्रहणस्य भवति तदा तदीयं ज्ञानं प्रमाणमिति कथ्यते। यदा च प्रमाणेन गृहीतस्य वस्तुनः खण्डश: ग्रहणस्य इच्छा भवति तदा अंशग्राही प्रतिपत्तुरभिप्रायो नयो भवति। अनेन प्रकारेण प्रमाणज्ञानं नयोत्पत्तेः भूमिकां रचयतीति शक्यते वक्तुम्। उपर्युक्तविवेचनेनेदं स्पष्टं भवति यत् प्रमाणस्य विषयः अखण्डं वस्तु भवति नयस्य च तदेकदेशः। अस्यां स्थितौ नयः प्रमाणमप्रमाणं वेति विचारे नायं प्रमाणम् अप्रमाणं वा किन्तु प्रमाणांश एव, यथा शरीरस्य एकदेशो न शरीरम्नाप्यशरीरम् किन्तु शरीरांश एव । तथैवात्रापि बोध्यम्। अत्रैवमाशक्यते यत् यदा नयो न प्रमाणं तदासौ अप्रमाणं कथं न? अत्रैवं समाधीयते यत् अभावज्ञाने प्रतियोगिज्ञानं कारणं भवति अतोऽप्रमाणज्ञाने प्रतियोगिनः प्रमाणस्य। Page #167 -------------------------------------------------------------------------- ________________ १३४ 2. भिक्षुन्यायकर्णिका ज्ञानमावश्यकम् । तच्च ज्ञानं नात्र जातमिति नायमप्रमाणमपि किन्तु प्रमाणांश एव । इदमत्र विचार्यते यत् अयं घटः इति ज्ञाने रूपवान् घटः, रसवान् घटः इत्यादि यत् नयस्योदाहरणरूपेण प्रस्तूयते तत् साधु असाधु वा ? विचारेऽस्मिन् इदमेव वक्तुं शक्यते यत् रूपवान् घटः स्पर्शवान् घटः इत्येवं रूपेण यद् ज्ञानं जायते तदपि प्रमाणमेव । यतोहि अत्रापि रूपरसादिविशिष्टस्य घटस्य समग्रस्यैव ज्ञानं जायते न तु तदीयं रूपं रसो वा प्रतीयते केवलम् । अत एतादृशो ज्ञानाकारः स्यात् येन नयस्य भानं स्पष्टरूपेण सम्पद्येत । अतः प्रमाणेन गृहीते घटे रूपं पश्यामि, शीतस्पर्शमनुभवामि, सुरभिगन्धं जिघ्रामि इत्येवं रूपेण यदि जायते ज्ञानं तदा शक्यते वक्तुं कथञ्चित् तत्र नयस्य लक्ष्यमिदमिति । प्रमाणस्य कार्यमेकदेशद्वारा समग्रोन्मुखं भवति किन्तु नयस्तु समग्रं वस्तु विभज्य अंशविशेषमेव गृह्णाति । अतएव प्रमाणं सकलादेशि नयश्च विकलादेशी चेति प्रसिद्धिः । प्रमाणं चक्षुः द्वारा रूपं पश्यदपि समग्रं घटं विषयं करोति । नयस्तु घटस्य विश्लेषणं कृत्वा तदीयरूपाद्यंशान् ज्ञातुं प्रवर्तते । अयमेव नयप्रमाणयोर्विभेदः । इदानीं नयभेदं कर्त्तुमुपक्रमते - द्रव्यार्थिकः पर्यायार्थिकश्च । प्राधान्येन अभेदग्राही द्रव्यार्थिकः भेदग्राही च पर्यायार्थिकः । यावन्तो विचारमार्गास्तावन्तो नया इति नयानामानन्त्येऽपि वर्गीकरणतस्तद्द्द्वैविध्यम् । Page #168 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १३५ नय के दो भेद हैं- द्रव्यार्थिक और पर्यायार्थिक। प्रधानरूप से अभेदग्राही नय को द्रव्यार्थिक और भेदग्राही नय को पर्यायार्थिक कहा जाता है। जितने विचार मार्ग हो सकते हैं, उतने ही नय हैं, इस. दृष्टि से नय अनन्त हैं फिर भी उनका वर्गीकरण करने पर वे सब द्रव्यार्थिक और पर्यायार्थिक में समाहित हो जाते हैं। न्या. प्र.- प्रधानतया नयस्य द्वौभेदौ - द्रव्यार्थिक: पर्यायार्थिकश्च। अस्य स्पष्टीकरणं तु इत्थं बोध्यम् - प्रतिपत्तुरभिप्रायो नयः इत्युक्तं प्राक् । तत्राभिप्रायाणामनन्तत्वेऽपि तत्र विभागद्वयं भवति - एकस्तु अभेदग्राहकोऽभिप्रायः। अपरश्च भेदग्राहकोऽभिप्रायः। वस्तु स्वरूपतः अभिन्नमखण्डमेकं च भवति। तदेव वस्तु स्वकीय गुणपर्यायद्वारा विभिन्नरूपेण गृह्यते। रूपवान् घट: स्थूलो घटः इत्यादिरूपेण तदीयं ग्रहणं प्रसिद्धमेव। तत्र अभेदग्राहिणी दृष्टि : द्रव्यदृष्टिः तथा भेदग्राहिणी दृष्टि : पर्यायदृष्टि : कथ्यते। तत्र प्रधानरूपेण अभेदग्राही नयः द्रव्यार्थिकनयः कथ्यते । एवमेव प्राधान्येन भेदग्राही नयः पर्यायार्थिकनय इति व्यवहारः। विचारमार्गोऽनन्तः । अस्यां स्थितौ यावन्तो विचारमार्गाः तावन्तो नया भवितुं शक्नुवन्ति। एवञ्च नयानामानन्त्यं वक्तुं शक्यते तथापि वर्गीकरणतः सर्वेऽपि द्रव्यार्थिकपर्यायार्थिकनययोरेव समाहिताः भवन्ति। Page #169 -------------------------------------------------------------------------- ________________ १३६ भिक्षुन्यायकर्णिका 4. इदानीं द्रव्यार्थिकं नयं विभजन् सूत्रयति - 3. नैगमः संग्रहो व्यवहारश्चेति त्रिधा द्रव्यार्थिकः। द्रव्यार्थिक नय के तीन प्रकार हैं :- 1. नैगम, 2. संग्रह, 3. व्यवहार। न्या. प्र.- नैगमः संग्रह: व्यवहारश्चेति त्रिप्रकारको द्रव्यार्थिक नयः। सम्प्रति नैगमं लक्षयति सूत्रद्वारा - भेदाभेदग्राही नैगमः। अभेद: सामान्यम्-द्रव्यं धर्मी वा। भेदः विशेष:- पर्यायो धर्मो वा। एतदुभयग्राही अभिप्रायो नैगमः। सामान्यविशेषयोर्नास्ति सर्वथा भेदः, यथा-निर्विशेषं न सामान्यम्, विशेषोऽपि न तत् विना ।।। केवलं तयोः प्राधान्याऽप्राधान्येन निरूपणं भवतीति विचाराय अस्य वृत्तिः, यथा-सुखी जीवः, जीवे सुखम्। भेद और अभेद दोनों का ग्रहण करने वाले नय को नैगम नय कहा जाता है। अभेद अर्थात् सामान्य-द्रव्य या धर्मी सामान्य होते हैं। भेद अर्थात् विशेष- पर्याय या धर्म विशेष होते हैं। इन दोनों का ग्रहण करने वाला अभिप्राय नैगमनय है। 1. निगम: देश संकल्प उपचारो वा तत्र भवो नैगमः । Page #170 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १३७ सामान्य और विशेष में सर्वथा भेद नहीं है, क्योंकि सामान्य विशेष से रहित नहीं होता है और विशेष भी सामान्य से रहित नहीं होता। इन दोनों का निरूपण केवल प्रधानता और अप्रधानता की दृष्टि से होता है। इस विचार का बोध करने के लिए नैगम नय का अस्तित्व है, जैसे-जीव सुखी है, यहाँ सामान्य धर्म का निरूपण है । जीव में सुख है, यहाँ विशेष धर्म का। पहले दृष्टान्त में सुख धर्म युक्त धर्मी (जीव) की प्रधानता है और दूसरे में जीव-धर्मी में प्राप्त सुख की। न्या. प्र.- नैगमनयो भेदम् अभेदञ्चेति उभयं गृह्णाति भेदो विशेषः तत्र अभेदपदेन सामान्यं बोध्यम् । तच्च सामान्य द्रव्यमेव भवति। द्रव्यमेव गुणपर्यायाश्रयोभवति। अत एव तत् धर्मीतिपदेनापि व्यवह्रियते । यो नयः एतदुभयं गृह्णाति स एव नैगमो नयः। सामान्यविशेषयोः सर्वथा भेदो नास्ति। विशेषसमूह एव सामान्यं भवति । विशेषश्च सामान्यस्य एको घटक: अवयव एव। यथोक्तम् सामान्यं निर्विशेषं विशेषरहितं न भवति एवं विशेषोऽपि तद्विना सामान्यं विना नैव भवितुं शक्नोति यतो ह्यसौ सामान्यस्य एकोऽवयव एवास्ति। अवयविनं विना कुतः अवयवसत्ता? अत उभयो: सहावस्थानमनिर्वायम् । अस्यां स्थितौ उभयोर्निरूपणं केवलं प्रधानताया अप्रधानताया वा दृष्टया भवति। इमं विचारं बोधयितुमेव नैगमनयस्यास्तित्वं स्वीकृतमस्ति । यथा - सुखी जीवः इति यदा उच्यते तदा सुखयुक्तस्य धर्मिणो जीवस्य Page #171 -------------------------------------------------------------------------- ________________ १३८. भिक्षुन्यायकर्णिका प्रधानता भवति । यदा च जीवे सुखम् इत्युच्यते तदा जीवे वर्तमानस्य सुखस्य प्रधानता व्यक्ता भवति । पूर्वत्र सामान्यस्य द्रव्यस्य प्राधान्यम्। उत्तरत्र जीवे वर्तमानगुणस्य सुखस्य प्राधान्यमिति विवेकः। प्रधानताया मूलमस्ति क्रियायामन्वयः । सुखी जीव इत्यत्र जीवस्य अस्ति क्रियायामन्वय: जीवे सुख मित्यत्र सुखस्य तत्रान्वयः। इदानीं प्रकारान्तरेण नैगमं लक्षयन् सूत्रं करोति - 5. संकल्पग्राही च। भावाभावविषयत्वात् संकल्पग्राही विचारोऽपि नैगमो भवति। देशकालोपचारलोकरूढ़िवशात् संकल्पोऽनेकधा, यथाएधोदकाद्या' हरणप्रवृत्त ओदनं पचामीति। वीरनिर्वाणवासरोऽद्य। जातोऽयं विद्वान्। संकल्पग्राही विचार को भी नैगम नय कहा जाता है। _ नैगम नय के भाव और अभाव दोनों विषय होते हैं इसलिए संकल्पग्राही विचार को भी नैगमनय कहा जाता है। देश, काल, उपचार और लोकरूढ़ि के अनुसार संकल्प (कल्पना या आरोप) अनेक प्रकार का होता है, 1. वर्तमाननैगमः- अपूर्णायामपि क्रियाणां पूर्णतासंकल्पः । 2. भूतनैगम:-अतीते वर्तमानसंकल्पः । 3. भाविनैगम- वर्तमाने भविष्यत्संकल्पः। Page #172 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १३९ जैसे - ईंधन, जल आदि सामग्री लाने में प्रवृत्त व्यक्ति से पूछने पर वह कहता है- मैं चावल पकाता हूँ । आज भगवान् महावीर का निर्वाण दिन है। यह नवजात शिशु विद्वान् है । न्या. प्र. अस्यायं भावः संकल्पग्राही विचारोऽपि नैगमनयः कथ्यते । - संकल्पश्च कल्पना आरोपो वा । नैगमनयस्य विषयो भावोऽभावश्चेत्युभयमपि भवति । तस्मात् संकल्पग्राही विचारोऽपि - नैगमनय इति कथ्यते । देशकालोपचारलोकरूढिवशात् संकल्प: अनेकप्रकारको भवति । यथा - जलेन्धनादिसामग्रीसमाहरणे प्रवृत्तो जनः किं करोषीति पृष्टे सति उत्तरति ओदनं पचामि इति । नेदानीम् ओदनं निर्मितं किन्तु तन्निर्माणप्रक्रिया प्रचलन्ती वर्तते । तावतापि सः कथयति अहम् ओदनं पचामीति । अत्र अपूर्णक्रियायां पूर्णताया आरोप: कृतो वर्तते । अथवा भविष्यत्कालिकक्रियायां वर्तमानकालिकत्वारोप इति वर्तमान नैगमोऽयम्। यद्यपि भगवतो महावीरस्य निर्वाणदिवस: प्राचीन कालिकः किन्तु यस्मिन् मासे यद्दिने वा जातो निर्वाणः स समयो यदा पुनरायाति तदा कथ्यते अद्य भगवतो महावीरस्य निर्वाणदिवसः । अत्र अतीतेऽपि वर्तमानकालस्यारोप इति भूतनैगमोऽयम् । नवजातोऽयं शिशुर्विद्वान् इति यदा उच्यते यदा नासौ बालो विद्वान् किन्तु स विद्वान् भविष्यति । अनेन प्रकारेण - Page #173 -------------------------------------------------------------------------- ________________ १४० भिक्षुन्यायकर्णिका वर्तमानकालेऽपि भविष्यतः संकल्पः समारोपो वा कृतोऽस्ति। अनेन प्रकारेण भावी नैगमोऽयम्। सम्प्रति संग्रहनयं तद्भेदांश्च प्रस्तोतुकामः सूत्रयति - 6. अभेदग्राही संग्रहः। अभेदग्राही (सामान्यग्राही) विचार को संग्रह नय कहा जाता 7. परोऽपरश्च। महासामान्यविषयः परः, यथा-विश्वमेकम्, सताऽविशेषात् । अवान्तरसामान्यविषयोऽपरः, यथा द्रव्याणामैक्यम्, द्रव्यत्वाविशेषात्। पर्यायाणामैक्यम, पर्यायत्वाविशेषात् । संग्रह नय के दो भेद हैं- पर और अपर। महासामान्य का ग्रहण करने वाला परसंग्रह कहलाता है, जैसे- विश्व एक है, क्योंकि अस्तित्व की दृष्टि से कोई भिन्न नहीं है। अवान्तर सामान्य का ग्रहण करने वाला अपरसंग्रह कहलाता है, जैसे- सब द्रव्य एक हैं, क्योंकि द्रव्यत्व की दृष्टि से कोई भिन्न नहीं है। Page #174 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १४१ सब पर्याय एक हैं, क्योंकि पर्यायत्व की दृष्टि से कोई भिन्न नहीं है। न्या. प्र.- अभेदं गृह्णातीति अभेदग्राही सामान्यग्राही विचारः संग्रहनय इत्युच्यते। अयं संग्रहनयः परापरभेदेन द्विविधः। कोऽयं परः कश्चापर इति जिज्ञासायामिदमवधारणीयं यत् यस्य क्षेत्र विस्तृतं स्यात् स परः। यश्चाल्पक्षेत्रं व्याप्नोति सोऽयमपरः। यथा-विश्वमेकम् सतोऽविशेषात् । तात्पर्यमिदं यत् विश्वस्मिन् जगति यावन्तः पदार्थास्ते सर्वे सत्तावन्तः। अस्तित्वदृष्ट्या तत्र न किमपि पार्थक्यम् । लघुपदार्थः स्यात् महान् वा भवेत् अस्तित्वदृष्ट्या न कश्चन तत्र भेदः। यथा अस्तित्ववान् घटस्तथैव अस्तित्ववान् पर्वतोऽप्यस्ति । विश्वात् परं न किमपि वर्तत इति अस्तित्वदृष्ट्या विश्वस्यैकता प्रतिपादकं विश्वमेकमिति परसामान्यस्य समीचीनमुदाहरणम्। अवान्तरसामान्यं यत् महासामान्यस्य अन्तः सन्निविष्टं भवति तद्ग्राहकोऽपरसंग्रहो भवति। धर्माधर्माकाशकालपुद्गल जीवद्रव्याणां द्रव्यत्वमाधारीकृत्यैक्यं वर्तत एव। द्रव्यत्वस्य सर्वत्र वर्तमानत्वात् । तस्मात् द्रव्यत्वाविशेषात् द्रव्याणामैक्यम् स्पष्टमेव। एवमेव सर्वेषु पर्यायेषु पर्यायत्वरूपधर्मस्य समान रूपेण वर्तमानत्वात् पर्यायाणामैक्यमिति कथनमपरसामान्य ग्राहकं भवत्येव। अधुना व्यवहारनयं प्रस्तुवन् सूत्रं करोति - Page #175 -------------------------------------------------------------------------- ________________ १४२ भिक्षुन्यायकर्णिका भेदग्राही व्यवहारः'। यथा-यत् सत् तद् द्रव्यं पर्यायश्च। यद् द्रव्यं तद्धर्माधर्मादिषड्विधम्। य: पर्यायः स द्विविध:-सहभावी क्रमभावी च। द्रव्यार्थिकत्वाद् असौ परमाणुं यावद् गच्छति, न तु अर्थपर्याये। भेदग्राही (विशेषग्राही) विचार को व्यवहार नय कहा जाता जैसे- जो सत् है, उसके दो भेद हैं- द्रव्य और पर्याय। जो द्रव्य है, उसके छह भेद हैं- धर्म, अधर्म, आकाश, काल पुद्गल और जीव। जो पर्याय है, उसके दो भेद हैं- सहभावी और क्रमभावी। व्यवहार नय द्रव्यार्थिक है इसलिए परमाणु (द्रव्य का अन्तिम भेद या विभाग) तक इसका विषय है किन्तु अर्थपर्याय इसका विषय नहीं है। व्यंजन पर्याय इसका विषय हो सकता है। न्या. प्र.- संग्रहनयेन ये सत्वद्रव्यत्वादयो विषया गृहीतास्तेषु अभिप्रायविशेषेण यो विभागः क्रियते भेदो वा गृह्यते स व्यवहारनयः। यथा यत् सत् अस्ति तस्य द्वौ भेदौ द्रव्यं पर्यायश्च। यद् द्रव्यं तस्य षड्भेदाः सन्ति धर्मः अधर्मः आकाशम्, काल: पुद्गलः जीवश्च। अपरसंग्रहव्यवहारयोर्विषयसाम्येऽपि अपरसंग्रहः अभेदांशप्रधानः, व्यवहारश्च भेदांशप्रधानः । आद्यो भेदेऽप्यभेदं पश्यति, द्वितीयोऽभेदेऽपि भेदमित्यनयोर्विशेषः। Page #176 -------------------------------------------------------------------------- ________________ पञ्चमो विभाग: १४३ यः खलु पर्यायस्तस्य द्वौ भेदौ सहभावीपर्यायः, क्रमभावी पर्यायश्च। सहभावी पर्यायः ज्ञानादिकम् । क्रमभावी च सुखदुःखादिरूपः। व्यवहारनयो द्रव्यार्थिकनयोऽस्ति अत: द्रव्यस्यान्तिमं भेदं परमाणुं यावदयं गच्छति । अर्थपर्यायस्तु नास्यविषयः । यद्यपि अपर संग्रह स्य विषयः अवान्तर सामान्यम्, तथा व्यवहारनयस्यापि अवान्तर एव विषयः अत: उभयो: साम्यमिति कथञ्चित् वक्तुंशक्यते तथापि अपरसंग्रहः अभेदांशप्रधानो भवति, व्यवहारनयश्च भेदांशप्रधानः। अपर संग्रहो भेदेऽपि अभेदं पश्यति, व्यवहारनयश्च अभेदेऽपि भेदं पश्यतीति उभयो विशेषः। अभेदांशप्राधान्यं तु एवं वक्तुं शक्यते यत् द्रव्याणि परस्परं भिन्नानि सन्ति किन्तु भिन्नेष्वपि द्रव्येषु द्रव्यत्वमेकमिति भेदेऽपि अभेददर्शनम्। व्यवहारनयश्च सत्वाविशेषात् अभेदेऽपि द्रव्ये धर्माधर्मादीन् भेदान् पश्यतीति सूक्ष्मदृष्ट्यावधारणीयम्। सम्प्रति पर्यायार्थिकनयं विभजते सूत्रद्वारा - ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्चेति चतुर्धा पर्यायार्थिकः। पर्यायार्थिक नय के चार प्रकार हैं:1. ऋजुसूत्र, 2. शब्द, 3. समभिरूढ़, 4. एवंभूत। न्या. प्र.- पर्यायार्थिकनयस्य चत्वारो भेदाः भवन्ति । ते च Page #177 -------------------------------------------------------------------------- ________________ १४४ भिक्षुन्यायकर्णिका 10. ऋजुसूत्रः शब्दःसमभिरूढः एवंभूतश्चेति । तत्र ऋजुसूत्रं सूत्रद्वारा प्रस्तौतिवर्तमानपर्यायग्राही ऋजुसूत्रः। यथा-साम्प्रतं सुखम् । वर्तमान पर्यायग्राही नय को ऋजुसूत्र कहा जाता है। जैसे- वर्तमान में सुख है। न्या. प्र.- गुणपर्यायाश्रयो द्रव्यमिति द्रव्यस्य लक्षणम्। तत्र प्रत्येकं द्रव्ये कालक्रमात् पर्यायभेदो भवति । तंत्रातीतवस्तुनोऽवर्तमानत्वात् भविष्यतश्च अनागतत्वात् अयं नयः केवलं वर्तमानकालिकं पर्यायमेव गृह्णाति। अतीतानागतकालरहितत्वात् वर्तमानमात्रस्य केवलस्य ग्रहणात् सरलोऽयं नयः। अत्रोदाहरणरूपेण प्रस्तुतीकृतम् साम्प्रतं सुखमिति । अस्मिन्नुदाहरणे क्षणस्थायिनः सुखाख्यपर्यायमात्रस्य प्राधान्येन ग्रहणं कृतं वर्तते। अस्ति क्रियया सह सुखस्यैवान्वय इति तस्यैव प्राधान्यम् । तदधिकरणम्-आत्मद्रव्यं तु न विवक्षितम्, अथवा अप्राधान्यमेव भजते तत्। सुखदुःखादयः पर्याया आत्मद्रव्यं विहाय कदापि न तिष्ठन्ति। तत्र यदा अनेन नयेन सुखादयः प्राधान्येन विवक्ष्यन्ते तदा आत्मद्रव्यस्य गौणत्वं सुतरामेव स्पष्टमिति विवेकः।। 1. अत्र हि क्षणस्थायि सुखाख्यं पर्यायमानं प्राधान्येन प्रदर्श्यते, तदधिकरणभूतं पुनरात्मद्रव्यं गौणतया नार्ण्यते। Page #178 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १४५ प्रस्तौति सम्प्रति शब्दनयम् - 11. कालादिभेदेन ध्वनेरर्थभेदकृच्छब्दः। (क) कालेन, यथा-बभूव, भवति, भविष्यति राजगृहम्। (ख) संख्यया, यथा-एकः, एके। (ग) लिङ्गेन, यथा-नदम्, नदी। काल आदि के भेद से ध्वनि में अर्थभेद को स्वीकार करने वाले नय को शब्द नय कहा जाता है। (क) काल के द्वारा ध्वनि से अर्थभेद, जैसे राजगृह था, है और होगा। यहां कालभेद के द्वारा अर्थभेद का ग्रहण किया गया है। (ख) संख्या के द्वारा ध्वनि में अर्थभेद, जैसे- एक: (एक व्यक्ति), एके (कुछ व्यक्ति) (ग) लिंग के द्वारा ध्वनि में अर्थभेद, जैसे- नद और नदी। न्या. प्र.- कालसंख्यालिङ्गादिभेदेन एक एव शब्दो भिन्नोभवति । तादृशस्य भिन्नस्य शब्दस्यार्थोऽपि भिन्नो भवति। तादृशभिन्नार्थस्य ग्राहको नयः शब्दनयः कथ्यते । अतीतानागत वर्तमानकालिकक्रियाभिः सह प्रयुक्त एक एव राजगृहम् भिन्नतामेव याति । बभूव राजगृहम्, भवति राजगृहम् भविष्यति राजगृहम् एषु त्रिषु वाक्येषु तिसृभिः क्रियाभिः सह प्रयुक्तम् एकम् एव राजगृहम् भिन्न भिन्नमेव। यदासीत् भूतकालिकं Page #179 -------------------------------------------------------------------------- ________________ १४६ भिक्षुन्यायकर्णिका न तद् वर्तमानकालिकम्, यच्च वर्तमानकालिकं न तद् भूतकालिकं भविष्यद्कालिकं वा । एवं रीत्या कालभेदेन भिन्नार्थकः शब्दः शब्दनयेन गृह्यते । सख्याभेदेन शब्दभेदादर्थभेदस्य ग्राहको यथा- 'एक: पुरुष: ' अत्र एकत्वसंख्याविशिष्टस्य पुरुषस्य बोधः । एके पुरुषाः । इत्यत्र समादृतस्य अनेकपुरुषस्य बोधो भवति यश्च गृह्यते शब्दनयेन । लिङ्गभेदेन शब्दभेदादर्थभेदस्योदाहरणं यथा - नदः नदी इति। अत्र नदः इति कथनेन तादृशो जलप्रवाहो भासते यत्र पुंस्त्वप्रतीतिर्भवति । नदी इति कथनेन स्त्रीत्वविशिष्टो जलप्रवाहो गृह्यते । अत्र लिङ्गवशाद् शब्दस्य अर्थो भिन्नतां गतो वर्तते । तथापि प्रवाहरूपोऽर्थस्तु तथैव अस्ति-यथा पुलिंगे तथा स्त्रीलिङ्गेऽपि । सम्प्रति समभिरूढनयं प्रस्तौति सूत्रद्वारा 12. पर्याये निरुक्तिभेदेनार्थभेदकृत् समभिरूढ़ः । यथा-भिक्षते इत्येवंशीलो भिक्षुः, वाचं यच्छतीति वाचंयमः, तपस्यतीति तपस्वी । शब्दनयो हि निरुक्तिभेदेऽप्यर्थाभेदमभिप्रैतीत्ययं ततो भिन्नः । पर्यायवाची शब्दों में निरुक्त के भेद से अर्थभेद का स्वीकार करने वाले नय को समभिरूढ़ नय कहा जाता है । जैसे - भिक्षाशील भिक्षु, वाणी का संयम करने वाला वाचंयम और तपस्या करने वाला तपस्वी कहलाता है । Page #180 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १४७ शब्द नय निरुक्त का भेद होने पर भी अर्थ का अभेद स्वीकार करता है । समभिरूढ़ नय निरुक्त भेद से अर्थभेद को स्वीकार करता है। इसलिए समभिरूढनय शब्द नय से भिन्न है । न्या. प्र. पर्यायवाचकशब्देषु भिक्षु तपस्वी इन्द्रादिशब्देषु निरुक्तिभेदेन = निर्वचनभेदेन अर्थभेदम् भिन्नमर्थं कुर्वन् अभ्युपगच्छन् वा समभिरूढ़ो नयः । -- अस्यायं भाव भिक्षुशब्दो भिक्षणाद् भिक्षुनामके व्यक्तिविशेषे प्रयुज्यते । तत्रैव तपश्चरणात् - तपस्वीति शब्दोऽपि प्रयुज्यते । एवमेव इन्दनात् ऐश्वर्यशालित्वात् यः पुरुषः इन्द्र इत्युच्यते स एव पुरोदारणात् पुरन्दर इति कथ्यते । अनया रीत्या व्युत्पत्तिबलेन भिक्षुतपस्विप्रभृतयः शब्दाः प्रतिपर्यायबोधकत्वात् भिन्नभिन्नार्थबाचका भवन्ति । शब्दनयस्तु निर्वचनभेदेऽपि व्युत्पत्तिभेदेऽपि अर्थभेदे अभेदं स्वीकरोति । एवञ्च व्युत्पत्तिभेदेन अर्थभेदेऽपि अभेद स्वीकारक : शब्दनयः । व्युत्पत्तिभेदेन अर्थभेदं स्वीकरोति समभिरूढनय इति तयोर्भेदः अधुना एवंभूतनयस्य स्वरूपं प्रस्तौति - 13. क्रियापरिणतमर्थं तच्छब्दवाच्यं स्वीकुर्वन्नेवंभूतः । यथा - भिक्षणक्रियापरिणतो भिक्षुः, वाचंनियच्छन् वाचंयमः, तपस्यन् तपस्वीत्यादि । समभिरूढ़ : शब्दगतक्रियायामपरिणतेऽपि तद्व्यपदेशमिच्छतीत्ययं ततो भिन्नः । Page #181 -------------------------------------------------------------------------- ________________ १४८ भिक्षुन्यायकर्णिका क्रियापरिणति के अनुरूप ही शब्द-प्रयोग का स्वीकार करने वाले नय को एवंभूत नय कहा जाता है। जैसे- भिक्षण की क्रिया में प्रवृत्त व्यक्ति के लिए ही भिक्षु, वाणी के संयम में प्रवृत्त व्यक्ति के लिए ही वाचंयम और तपस्या में प्रवृत्त व्यक्ति के लिए ही तपस्वी शब्द का प्रयोग किया जा सकता है। समभिरूढ़ नय शब्दगत क्रिया में अप्रवृत्त व्यक्ति के लिए भी तद्वाचक शब्द-प्रयोग को मान्य करता है और एवंभूत नय शब्दगत क्रिया में प्रवृत्त अर्थ के लिए ही तद्वाचक शब्द-प्रयोग को मान्य करता है। इसलिए एवंभूत नय समभिरूढ़ नय से भिन्न है। न्या. प्र.-अयं नयः क्रियायां परिणतेऽर्थे एव तत्तच्छब्दप्रयोगं स्वीकरोति । यथा - यः पुरुषो भिक्षणक्रियायां प्रवृत्तो भवति चेत् तदैव स भिक्षुरिति वक्तुं शक्यते । एवमेव इन्दनादिक्रियायां परिणतोऽर्थस्तक्रियांकाले एव इन्द्रादिशब्दैः वक्तुं शक्यते। यदि शब्दवाच्यक्रियायां तस्य पुरुषस्य प्रवृत्ति नास्ति तदा तत्र तस्य शब्दस्य प्रयोगः कथमपि भवितुं नार्हतीति भावः। एवमेव यः पुरुषो वाणीसंयमने प्रवृत्तः स एव केवलं वाचंयम इत्युच्यते । एवमेव तपश्चरणे प्रवृत्त एव जनः तपस्वीति शक्यते वक्तुं नान्यथा। समभिरूढ़ नयस्तु क्रियायाम् अप्रवृत्तं जनमभिलक्ष्यापि तत्र तवाचकशब्दस्य प्रयोगं स्वीकरोति। Page #182 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १४९ भिक्षुद्वारा भिक्षणक्रिया सम्प्रति सम्पद्यत न वा सम्पद्येत स तु भिक्षु शब्दवाच्यो भविष्यत्येव। एवं भूतनयस्तु शब्दप्रतिपाद्यक्रियायां प्रवृत्तस्य जनस्य कृते एव केवलं तद् वाचकशब्दप्रयोगं वाञ्छति। तस्मात् एवंभूतनयः समभिरूढनयाद्भिन्न इति सिद्धं भवति। सम्प्रति नयानां वैशिष्ट्यं बोधयितुमुपक्रमते - 14. आद्याश्चत्वारोऽर्थप्रधानत्वादर्थनया:'। आदि के चार नय अर्थ-प्रधान होने के कारण अर्थनय कहलाते हैं। न्या. प्र.- द्रव्यार्थिकपर्यायार्थिकनययोर्मेलनेन सप्त नयाः सम्पद्यन्ते। तत्र सप्तसु नयेषु आद्याश्चत्वारः नैगमः संग्रहः व्यवहारः ऋजुसूत्रः इत्येते सन्ति । एषु चतुर्षु नयेषु प्राधान्येन अर्थनिरूपणं भवतीति इमे चत्वारोऽर्थनयाः इत्युच्यन्ते। 15. शेषाश्च शब्दनयाः। शेष तीन नय शब्द-प्रधान होने के कारण शब्द नय कहलाते हैं। न्या. प्र.- शेषाः अवशिष्टास्त्रयः "शब्दसमभिरूद्वैवंभूताः" इति त्रयो नयाः शब्दनयाः कथ्यन्ते। एषु त्रिषु नयेषु प्राधान्येन शब्दमवलम्ब्यैव विचारः क्रियते, तस्मादिमे त्रयः शब्दनयाः। 1. एषु चतुर्षु अर्थाश्रितो विचारो भवति । 2. एषु त्रिषु शब्दाश्रितों विचारो भवति। Page #183 -------------------------------------------------------------------------- ________________ १५० भिक्षुन्यायकर्णिका शब्दनये कालादिभेदेन ध्वनेः (शब्दस्य) अर्थः भिद्यते। एवञ्चात्र शब्दस्य प्राधान्यं स्पष्टमेव। समभिरूढ़नये तु पर्यायवाचकशब्देषु निर्वचनभेदेन अर्थभेदो भवति । यथा भिक्षणशीलो भिक्षुरन्यः, तपः आचरन् तपस्वी च भिन्नः। यद्यपि भिक्षुतपस्विशब्दौ पर्यायवाचकौ तथापि -निर्वचनभेदेनोभौ भिन्नार्थको सम्पन्नौ स्तः। एवं रीत्या अत्रापि शब्दमवलम्ब्यैव क्रियते विचार इति शब्दनयत्वमस्य सुस्थिरम्। एवंभूतनये तु क्रियायां परिणतेऽर्थे एव शब्दप्रयोगः। भिक्षण क्रियायां संलग्ने पुरुषे एव भिक्षुशब्दप्रयोगः। एवं तपसि संलग्रः पुरुष एव तपस्वी शब्देन व्यवहर्तुं शक्यत इति शब्दप्रयोगस्य वैशिष्ट्यं दृष्ट्वैव इमे त्रयः शब्दनयाः। सम्प्रति नयानां विषयविभागं क्षेत्रं च विभजन सूत्रं करोति16. पूर्वः पूर्वो बहुविषय: कारणभूतः परः परोऽल्पविषयः कार्यभूतश्च। क्रमशः पूर्ववर्ती नय बहुविषयवाला और कारणभूत तथा उत्तरवर्ती नय अल्पविषयवाला और कार्यभूत होता है। न्या. प्र.- एषु सप्तसु नयेषु पूर्वस्य पूर्वस्य नयस्य विषयो भूयान् भवति तथा पूर्वः पूर्वो नयः परस्य नयस्य कारणञ्च भवति । पर:परो नयोऽल्पविषयकः कार्यभूतश्चास्ति। अस्य स्पष्टीकरणमेवम्- नैगमनयः संकल्पग्राही अस्ति, अत: संकल्पमात्रे समागतं सद्वस्तु यथा गृह्णाति अयं तथा Page #184 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १५१ असद्वस्तु अपि गृह्णाति। सन्तं घटं नयोऽयं यथा अयं घट: इतिरूपेण गृह्णाति तथैव घटनिर्माणार्थम् मृत्तिकामाहरन् जनः किं करोषीति प्रश्ने घटं करोमि इति व्याहरति । अत्रासद्वस्तु गृहीतमनेन नयेन । अनया रीत्या सदसद्ग्राही अयं नयः। एतदतिरिक्तमयं नयो भेदम् अभेदञ्च गृह्णाति। भेदो विशेषः पर्यायो धर्मो वा अनेन गृह्यते । एवमेवाभेदं सामान्य द्रव्यं धर्मिणं वा गृह्णाति अयं नयः। भेदग्रहणे भेदस्य प्राधान्यं तथा अभेदस्य गौणत्वम् । अभेदग्रहणे तु अभेदस्यैव प्राधान्यं भेदस्य च तत्र गौणत्वमेव। एवञ्चव्यापकविषयोऽयं नयः। एतदपेक्षया - संग्रहनयः सन्मात्रमेव गृह्णाति। एवमेव भेदाभेदयोर्मध्ये संग्रहनयस्य दृष्टिः केवलम् अभेदोपरि एव भवति । अत: नैगमनयो महाविषयः स्थूलश्चास्ति । संग्रहनयस्तु अल्पविषयः सूक्ष्मश्चास्ति । सति नैगमनये जायते संग्रहनयः। नैगमनयेन गृहीते भेदाभेदे अभेदमादायैव प्रवर्तते संग्रहनय इति नैगमनयस्तत् कारणमिति न कोऽपि विसंवादः। संग्रहनयः सन्मात्रग्राही अस्ति। अनेन गृहीतेऽर्थे सद्विशेषं गृहीत्वा प्रवर्तते व्यवहारनयः। तस्मात् संग्रहनयापेक्षया व्यवहारनयस्य विषयोऽल्पीयान् । व्यवहारनयो द्रव्यग्राही अस्ति। द्रव्यं विना व्यवहारस्यैवासंभवात् । स त्रिकालवर्तिनं सद्विशेषं गृह्णाति । एतदपेक्षया वर्तमानकालिकं पर्यायं गृह्णन् ऋजुसत्रनयस्तस्मादल्पविषयः सूक्ष्मश्चास्ति। Page #185 -------------------------------------------------------------------------- ________________ १५२ भिक्षुन्यायकर्णिका ऋजुसूत्रनयात् सूक्ष्मस्तथाल्पविषयः शब्दनयः । ऋजुसूत्रनयः वर्तमानकालिकं पर्यायविशेषं गृह्णाति, किन्तु शब्दनयस्तु वर्तमानकालिके एकस्मिन्नपि पर्याये कालादिभेदात् शब्दभेदं कृत्वा अर्थभेदं स्वीकरोति । बभूव भवति भविष्यति वा राजगृहम् इत्यत्र एकमेव राजगृहं कालादिभेदात् भिन्नं भवतीति प्रसिद्धमेव। अनया रीत्या ऋजुसूत्रनयापेक्षयास्य अल्पविषयत्वं स्पष्टमेव। शब्दसमभिरूढ़नययोर्मध्ये शब्दनयस्य विषयो महान् समभिरूढनयस्य चाल्पीयान् । कथमेतदिति चेदुच्यते - शब्दनयो हि यत्र कालकारकादिभेदेन शब्दस्यार्थो भिन्नतां याति तत्र अर्थभेदेऽपि अभेद एवेति मनुते। समभिरूढ़नयस्तु निर्वचनभेदात् अर्थो भिद्यत इति स्वीकरोति। समभिरूढनयानुसारं भिक्षणं शीलं यस्यासौ भिक्षुः । सम्प्रति स भिक्षणं करोति न वा करोति केवलं शीलवशादसौ भिक्षुः। किन्तु एवंभूतनयानुसारं तु भिक्षणक्रियायां व्याप्त एव जनो भिक्षुशब्देन व्यवहर्तुं शक्यत इति समभिरूढनयापेक्षया एवंभूतनयस्य विषयोऽल्पीयान् । सम्प्रति प्रकारान्तरेण नयभेदं कर्तुं सूत्रमारभते - 17. अपरथापि नयो द्विधा-निश्चयो व्यवहारश्च। प्रकारान्तर से भी नय दो प्रकार का होता है। 1. निश्चय नय, 2. व्यवहार नय Page #186 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः न्या. प्र. - १५३ प्रकारान्तरेण नयस्य द्वौ भेदौ स्वीकृतौ वर्तेते निश्चयनयो व्यवहारनयश्च । तत्र कोऽयं निश्चयनय: इति चेदुच्यते - 18. तात्त्विकार्थाभ्युपगमपरो निश्चयः ' । यथा - पञ्चवर्णो भ्रमरः तच्छरीरस्य बादरस्कन्धत्वेन । तात्त्विक अर्थ का स्वीकार करने वाले विचार को निश्चय नय कहा जाता है । जैसे- भौंरा पांच वर्णवाला है, क्योंकि उसका शरीर एक स्थूल स्कन्ध है । न्या. प्र. तात्त्विकस्य वास्तविकस्य अर्थस्य स्वीकर्त्ता विचारो निश्चयनयपदेनोच्यते । यस्मिन् विचारे तात्त्विकार्थस्य स्वीकृतिः स्यात् स विचारो निश्चयनयः । यथा भ्रमरः पञ्चवर्णो भवति । इदमेकं वास्तविकं तथ्यम् । भ्रमरस्य पञ्चवर्णत्वे हेतुरस्ति तस्य शरीरस्य स्थूलस्कन्धरूपता । यः स्थूलस्कन्धः (बादर स्कन्ध:) भवति सं पञ्चवर्णवद्भिः पुद्गलै निर्मीयते । तेषु पञ्चवर्णेषु एक एव वर्ण: प्राधान्येन दृष्टिगोचरीभवति । शेषवर्णास्तत्रन्यग्भूता इति नोपलक्ष्यन्ते ते। अनेन प्रकारेण तात्विकार्थप्रतिपादनपरोऽयं निश्चयनयः । 1. यो बादरस्कन्धः स पञ्चवर्णपुद्गलनिष्पन्नो भवति, तत्र एको वर्णः प्राधान्येन उपलक्ष्यते, शेषाश्च न्यग्भूतत्वान्नोपलक्ष्यन्ते । Page #187 -------------------------------------------------------------------------- ________________ १५४ भिक्षुन्यायकर्णिका इदानी व्यवहारनयं प्रतिपादयितुकामः सूत्रं करोति 19. लोकप्रसिद्धार्थानुवादपरो व्यवहारः। यथा-सत्स्वपि पञ्चसु वर्णेषु श्यामो भ्रमर इत्यादिवत् । लोकप्रसिद्ध अर्थ का प्रतिपादन करने वाले विचार को व्यवहार नय कहा जाता है। जैसे-भौरे में पांचों वर्ण होते हैं, फिर भी उसे श्याम कहा जाता है। न्या. प्र.- लोकप्रसिद्धार्थस्य प्रतिपादनपरो विचार एव व्यवहारनयः। यथा- भ्रमरे पञ्चवर्णा भवन्ति तथापि व्यवहारे इदमेवोच्यते यत् श्यामो भ्रमर इति। व्यवहारे तस्य श्यामतैवोपयुज्यते न तु अन्येऽपि वर्णाः। सम्प्रति प्रकारान्तरेण नयभेदद्वयं दर्शयितुं सूत्रयति - 20. ज्ञानक्रियाप्रधानौ क्रमाज्ज्ञानक्रियानयावपि। प्रकारान्तर से नय दो प्रकार का होता है :1. ज्ञान नय, 2. क्रिया नय ज्ञान-प्रधान नय को ज्ञाननय और क्रिया-प्रधान नय को क्रियानय कहा जाता है। न्या. प्र.- पुनश्च नयो द्विविधः ज्ञाननयः क्रियानयश्च । प्रतिपत्तुरभिप्राय एव नय इत्युक्तं प्राक् । तत्रानन्तधर्मात्मकस्य वस्तुनोऽन्यान् अंशान् अनिराकुर्वन् अंशग्राही प्रतिपत्तुरभिप्राय Page #188 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १५५ एव नयः कथ्यते। तत्र अंशस्य ग्रहणं-ज्ञानमेव प्रधानं चेत् तदा ज्ञाननय इति शक्यते वक्तुम्। यदि वस्त्वंशं परिज्ञाय तदनुसारिणी क्रियानुष्ठीयते प्राधान्येन तदा क्रियान्वय इति विवेकः। सम्प्रति नयाभासं निरूपयति - 21. पक्षीकृतांशादितरांशापलापी नयाभासः' । आर्हतो दृष्टिकोणो' हि सर्वनयसाधारणः । उक्तञ्चउदधाविव सर्वसिन्धवः, समुदीर्णास्त्वयि नाथ ! दृष्टयः । 1. देखें परिशिष्ट 1/7 2. बौद्धानामृजुसूत्रतो गतमभूद् वेदान्तिनां संग्रहात्, सांख्यानां तत् एव नैगमनयाद् योगश्च वैशेषिकः। शब्दाद्वैतविदोऽपि शब्दनयतः सर्वैर्नयैर्गुम्फिता, जैनी दृष्टिरितीह सारतरता प्रत्यक्षमुवीक्ष्यते॥ अस्यायंभावः - जैन दर्शनं सर्वान् नयान् समानरूपेण स्वीकरोति । तद् यथा - बौद्धानां सिद्धान्तः क्षणिकवादस्यास्ति। स च क्षणिकवादो वर्तमानकालिकपर्यायग्राहिणा ऋजुसूत्रनयेन संगृह्यते । अद्वैतवादिनो वेदान्तिनः सन्ति अभेदवादिनः । तेषाम् अभेदग्राहिणा संग्रहनयेन ग्रहणं कर्तुं शक्यते। सांख्यानामपि ग्रहणमनेनैव नयेन कर्तुं शक्यते।न्यायवैशेषिको संकल्पग्राहिणा नैगमनयेन गृहीतौ भविष्यतः । शब्दाद्वैतवादः शब्दनयेन ग्रहीतुं शक्यते । अनेन प्रकारेण सापेक्षदृष्ट्या स्वीकुर्वत् सर्वान् नयान् जैनदर्शनं सर्वसंग्राहकमस्ति। Page #189 -------------------------------------------------------------------------- ________________ १५६ 'भिक्षुन्यायकर्णिका न च तासु भवान् प्रदृश्यते, प्रविभक्तासु सरित्स्विवोदधिः ॥ वस्तु के स्वीकृत धर्म के अतिरिक्त अन्य धर्मों का अपलाप करने वाले विचार को नयाभास कहा जाता है। जैन दर्शन सब नयों को समान रूप से स्वीकार करता है। कहा भी है- हे नाथ! जैसे समुद्र में सारी नदियाँ समाई हुई हैं वैसे ही आपमें समग्र दृष्टियाँ समाहित हैं। जैसे विभक्त नदियों में समुद्र दिखाई नहीं देता, वैसे ही उन विभक्त दृष्टियों में आप दिखाई नहीं देते। न्या. प्र.- वस्तुनः स्वीकृतधर्मातिरिक्तानां धर्माणां यदि अस्वीकारोऽपलापः क्रियते अर्थात् न सन्त्यत्रेतरेऽपि धर्मा इत्येवं रूपेण विचारः क्रियते तदा तादृशो विचार एव नयाभासः। जैनदर्शनं स्वीकरोति सर्वान् नयान् समानरूपेण। उक्तञ्चैत-देवम् - हे नाथ! यथा समुद्रे सर्वा नद्यः समागताः सन्ति तथैव त्वयि समस्ता दृष्टयः समाहिताः सन्ति। विभक्तदृष्टिषु भवान् नावलोक्यते यथा विभक्तनदीषु समुद्रो नावलोक्यते। नयसिद्धान्तसारः नयवादो जैनदर्शनस्य महत्वपूर्णो वादोऽस्ति। एतद्द्वारा दार्शनिक विभिन्नदृष्टि षु साधारः समन्वयो भवति । अनेकान्तवादस्य समन्वयदृष्टिर्नयवादोपरि एव स्थिता वर्तते। नयानां सम्यग् बोधायेदमावश्यकं यत् अस्य विचारस्य उपरि गरीयान् विचारः कृतः स्यात् । Page #190 -------------------------------------------------------------------------- ________________ पञ्चमो विभागः १५७ विचार प्रधानेऽत्र जगति प्रकार त्रयस्य विचार : स्फुटतरोऽस्ति । ज्ञानाश्रयी विचार: अर्थाश्रयी विचारः शब्दाश्रयी विचारश्च । तत्र यो विचारः संकल्पप्रधानो भवति स नैगमनयः। देशकालोपचारादिवशात् संकल्पो नैकधा। यथा ओदनं पक्ष्यमाणः पुरुषः किं करोषीति प्रश्ने उत्तरति-ओदतं पचामीति। अयं भविष्यत् कालिके विषये वर्तमानत्वस्य संकल्पः । अद्य भगवतो महावीरस्य निर्वाणदिवसः इत्यत्र भूतकालेऽपि वर्तमानत्वस्यैव संकल्पः। अनया रीत्या यो विचारः संकल्पप्रधानो भवति स नैगमनयेन बुध्यते। ___ यो नयोऽर्थस्य प्राधान्यं मन्वानः चलति स खलु अर्थाश्रयी विचारः। अत्र अर्थस्य भेदाभेदयोर्मध्ये विचारः क्रियते। संग्रह: ऋजुसूत्रः, व्यवहारश्चेति त्रयो नयाः अर्थाश्रया विचाराः सन्ति। अर्थाश्रितोऽभेदव्यवहारः संग्रह नये अन्तर्भाव्यते। न्यायवैशेषिकयोर्विचारा: व्यवहार नये समाविष्टाः। शब्द मीमांसमानो विचारः शब्दाश्रयी विचार: कथ्यते । शब्दः समभिरूढः एवंभूतश्चेति त्रयः शब्दाश्रयिविचाराः अयमत्रसंक्षेपः - 1. नैगमनयः - संकल्पोपरि आधृतो विचारः 2. संग्रहनयः - समूहापेक्षया जायमानो विचारोऽस्ति Page #191 -------------------------------------------------------------------------- ________________ १५८ भिक्षुन्यायकर्णिका व्यवहारनयः - भेदग्राही विचारोऽस्ति ___ ऋजुसूत्रनयः - वर्तमानावस्थामादाय विचार: शब्दनयः - कालकारकानुसारं शब्दप्रयोगापेक्षया जायमानो विचारः। 6. समभिरूढो नयः - शब्दव्युत्पत्तिमादाय तदनुरूपं शब्द - प्रयोगमपेक्ष्य क्रियमाणो विचारः। एवंभूतनयेस्तु - कार्यानुरूपशब्दप्रयोगसापेक्षोऽयं नयः। इति नयस्वरूपनिर्णायत्मकः पञ्चमो विभागः। Page #192 -------------------------------------------------------------------------- ________________ षष्ठो विभागः न्यायशास्त्रं चतुरङ्गं भवतीति प्रथितमेव। तन्मध्ये एकमङ्गं प्रमेयं भवति। तस्य प्रमेयस्य किं स्वरूपमिति प्रस्तौति सूत्रद्वारा प्रमाणस्य विषयः सदसनित्यानित्यसामान्यविशेषवाच्यावाच्याद्यनेकान्तात्मकं वस्तु। सत्-असत्, नित्य-अनित्य, सामान्य-विशेष, वाच्य-अवाच्य आदि अनंत धर्मात्मक वस्तु प्रमाण का विषय (प्रमेय) होती है। न्या. प्र.-- 'प्रमेयसिद्धिः प्रमाणाद्धि' इत्युक्त्यनुसारं प्रमेयस्य वस्तुनः सिद्धिः-ज्ञानं प्रमाणादेव भवति । प्रमाणेन यत् किञ्चिद् ज्ञायते तत् प्रमेयम् । प्रमेयस्य नामान्तरमस्ति वस्तु तत्त्वमित्यादि। इदमेव तत्त्वं प्रमाणस्य विषयो भवति। तच्च तत्त्वं किं स्वरूप मिति जिज्ञासायामाह सदसन्नित्यानित्येत्यादिना शब्देन। Page #193 -------------------------------------------------------------------------- ________________ १६० भिक्षुन्यायकर्णिका अस्यायंभाव:-जैनदर्शनमनेकान्तवादि दर्शनमस्ति। प्रत्येकं वस्तुनि अनेके धर्मास्तिष्ठन्तीति जैनदर्शनस्य मौलिक: सिद्धान्तः। यद्यपि वस्तुनि अनेके धर्मा अन्यदर्शनेष्वपि स्वीकृताः सन्ति किन्तु सत्त्वासत्त्वनित्यत्वानित्यत्वादयः परस्परं विरोधिनो धर्मा एकस्मिन्नेवाधिकरणे अविरोधभावेन तिष्ठन्तीति के वलं जैनदर्शन एव स्वीकृतमस्ति । अनेकान्तवादिसिद्धान्तानुसारं यत् सत् तदेवासदपि यन्नित्यं तदनित्यमपि। एवं कथमिति चेदवधार्यतां यत्- प्रत्येकं वस्तुनि अंशद्वयं भवति द्रव्यांशः पर्यायांशश्च । द्रव्यांशमादाय वस्तुनो नित्यत्वं, तथा पर्यायांशमादाय वस्तुनोऽनित्यत्वम्। पर्यायांशे उत्पादव्ययौ भवतः, किन्तु द्रव्यांशस्तु उभयान्वयि अविकृतं तिष्ठति। अत एवोच्यते उत्पादव्ययध्रौव्यात्मकं सदिति। अनया रीत्या एकस्यैव वस्तुनः सदसन्नित्यानित्यत्वं सिद्ध्यति। नित्यानित्यत्ववत् प्रत्येकं वस्तु सामान्यविशेषात्मकमप्यस्ति। यत् सामान्यं तदेव विशेषोऽपि। सामान्यविशेषयोरविनाभाव सम्बन्धः। विशेषाणां समूह एव सामान्यं, विशेषश्च सामान्यस्यैको घटकोऽवयवो वा। उक्तञ्च निर्विशेषं न सामान्यं विशेषोऽपि न तद्विना। निम्बाम्रवटादीनां समूह एव वृक्षत्वम् सामान्यम्। एतद् वृक्षत्वव्याप्यो घटको वा निम्बोऽयम् वटोऽयम् आम्रो वायमिति व्यवहारः। व्यवहारोऽयं वेदयति यत् विशेषो नावतिष्ठते सामान्यं विना । एवं सामान्यमपि न भवितुमर्हति लब्धसत्ताकं Page #194 -------------------------------------------------------------------------- ________________ षष्ठो विभागः १६१ विशेषं विना। अनेन प्रकारेण यत् सामान्यं तदेव विशेषोऽपि इति तथ्यं सिद्धं भवति। ___ अत्र दर्शने वस्तुव्यवस्था स्वद्रव्यक्षेत्रकालभावापेक्षया भवति। यद् वस्तु-स्वद्रव्यक्षेत्रकालभावापेक्षया वाच्यं भवति तदेव वस्तु परद्रव्यक्षेत्रकालभावापेक्षया अवाच्यं भवति । अनया रीत्या प्रथमसूत्रे निबद्धं वस्तु स्वरूपं सिद्ध्यतीति न संशयः। ___ अस्यां स्थितौ सत्ता सामान्यमेव स्वीकुर्वाणा अद्वैतवादिनः तथा प्रतिक्षणं परिवर्तनमुपेयिवांसो विशेषा एव तत्त्वमिति वदन्तो बौद्धास्तथा सामान्यं पृथक् तत्त्वं विशेषश्च पृथक् तत्त्वमिति ब्रुवाणा नैयायिकाश्च निराकृता एव वेदनीयाः। नहि गौरित्युक्ते सामान्यमेव प्रतीयते, विशेष एव वा प्रतीति पथमायाति किन्तु यथा सास्नालांगूलककुखुरविषाणा द्यवयवसम्पन्नं वस्तुरूपं सामान्यं सर्वव्यक्त्यनुयायि प्रतीयते तथैव महिष्यादिव्यावृत्तिरपि विशेषरूपा प्रतीयत एव। नहि सामान्यं विहाय विशेषः कुत्रचिदुपलभ्यते, विशेषं विहाय सामान्यं वा। तदेवं वस्तुनः सामान्यविशेषात्मकत्वस्य सिद्धत्वेऽपि उभयैकान्तवादः स्वतन्त्रवादश्च निराकृत एव । अत्र विचार्यते यदिदं निराकरणं युक्तमयुक्तं वेति। यः खलु अद्वैतसिद्धान्तः स तु परमार्थतत्त्वे साक्षात्कृते एव वक्तुं युक्तः। आपादमस्तकं संसारकर्दमे निमग्नोऽकृतपारमार्थिक तत्त्वसाक्षात्कारोऽद्वैतवादस्य गीतं गायन् उपहासास्पद एव। प्रातिभासिकव्यावहारिकपारमार्थिकसत्तेति सत्तात्रयं स्वीकुर्वाणा Page #195 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका व्यवहारजगति जीवन्तो जपतपोऽनुष्ठानादिप्रक्रियां सम्पाद्य प्रतिभासं निराकृत्य यदा पथिकायन्ते परमार्थपदस्य तदैव ते सत्ताद्वैतवादिनो न तु अयं वादः कृते तेषां सार्वकालिकः। नैयायिक मते सामान्यं पृथक् पदार्थः विशेषश्च पृथक पदार्थः इति यत् स्वीकृतं तदपि साधु एव । नित्यमेकमनेकानुगतं सामान्यमिति परिभाषितं सामान्य तत्तद्जात्यवच्छिन्नान् सर्वान् सदैव बोधयति। यथा मनुष्य इत्युक्ते सति सर्वेषां मनुष्याणां सहैव बोधो जायते। यदि तत्रोच्यते-कृष्णवर्णोऽयं मनुष्यः, गौरवर्णों वा तदा विशेषमनुष्यस्य बोधो भवति। विशेषणविशिष्ट एव विशेषः । तस्मात् मनुष्योऽयं घटोऽयं पटोऽयं वेति सर्वे व्यवहाराः सामान्यमादायैव जायन्ते। यदा चोच्यते पीतघटोऽयं, रक्तघटोऽयमिति तदा विशेषघट स्य बोधः। अयं सामान्यविशेषभावस्तु न्यायदर्शने स्वीकृत एव। ____ यश्च वर्तते पारिभाषिको विशेषः स तु अन्त्यो नित्यद्रव्यपरमाणुवृत्तिः तथा अनन्त एव । स तु केवलं परमाणूनां भेदको भवतीति सर्वथा नवीनोऽयं विशेषः। यश्च लोके ख्यातिं गतः सामान्यविशेषभावः सोऽपि न्यायदर्शने स्वीकृत एवास्ते। अस्यां स्थितौ केवलं क्षणे क्षणे परिवर्तनवादिनः विशेषपदार्थं स्वीकुर्वाणा बौद्धा एव निराकर्तुमुपयुक्ता येषां नये विशेषातिरिक्तं नास्ति किमपीति। प्रमाणस्य विषयः सदसदाद्यात्मकं वस्तु इति प्रतिपाद्य सतः स्वरूपं किमिति वक्तुमुपक्रमते Page #196 -------------------------------------------------------------------------- ________________ षष्ठो विभागः 2. 1. उत्पाद - व्यय - ध्रौव्यात्मकं सत् । उत्तरोत्तराकाराणामुत्पत्तिः उत्पाद:, पूर्वपूर्वाकाराणां विनाशः व्ययः । एतद्द्वयपर्यायान्वयि एव ध्रौव्यं सद् उच्यते । उत्पादादयः कथञ्चिद्भिन्नाभिन्नाः, तत एव सत् त्रयात्मकम्। उक्तञ्च उत्पन्नं दधिभावेन, नष्टं दुग्धतया पयः । गोरसत्वात् स्थिरं जानन्, स्याद्वाद्विड् जनोऽपि कः ॥ उत्पाद, व्यय और ध्रौव्यात्मक पदार्थ को सत् कहा जाता है । उत्तरोत्तर आकार की उत्पत्ति का नाम उत्पाद है और पूर्व पूर्व आकार के विनाश का नाम व्यय है । उत्पाद और व्यय इन दोनों पर्यायों में अन्वित ध्रौव्य को ही सत् कहा जाता है । उत्पाद, व्यय और ध्रौव्य परस्पर कथंचिद् भिन्न और कथंचिद् अभिन्न होते हैं । इसीलिए 'सत्' त्रयात्मकउत्पाद्-व्यय-ध्रौव्यात्मक होता है। - १६३ दूध मे जान देने पर दधि उत्पन्न हो गया । दुग्ध नष्ट हो गया, पर गोरस दोनों में अन्वयी है । इस तथ्य को जानने वाला कौन व्यक्ति स्याद्वाद का प्रतिपक्षी हो सकता है। न्या. प्र.- उत्पादो व्ययो ध्रौव्यञ्च इत्येतत् त्र्यं यत्रावतिष्ठते तदेव सत् । इदमत्रावधारणीयं यत् वस्तु सत् तत्त्वमिति त्रयोऽपि सत् केवलं पर्यायात्मकं ध्रौव्यात्मकं वा न भवति, तादृशस्य कस्यापि पदार्थस्य अभावात् । 2. देखें परिशिष्ट 1/8 - Page #197 -------------------------------------------------------------------------- ________________ १६४ भिक्षुन्यायकर्णिका शब्दा एकार्थका एव सन्ति । सदेव वस्तु, वस्तु एव वा सत् इति निश्चेतव्यम्। किमिदं सत् इति जिज्ञासायामिदमवधारणीयं यत् 'अस्ति' इति सत् । यस्यास्तित्वं जगति स्यात् तदेव सत्। सद्वस्तुनि उत्तरोत्तराकाराणामुत्पत्ति:-उत्पादो भवति। उत्पादेन सहपूर्वाकाराणां विनाशोऽपि जायते । एतद् पर्यायद्वये मूलतत्त्वस्यान्वयो भवत्येव । इदमेव मूलतत्त्वमेवध्रौव्यं सत्उच्यते। उदाहरणार्थमेको मृत्पिण्डो गृह्यताम् । अस्माद् मृपिण्डात् कंचिदंशमादाय स्थाली निर्मीयते चेत् स्थाल्या: उत्पादः तथा मृत्पिण्डस्यांशविशेषस्य व्ययोऽपिजात: अस्मिन् उत्पादे व्यये चोभयत्र मृत्तिकाया अन्वयो वर्तते एव । एवञ्चोत्पादव्यययोः सत्वेऽपि यस्य पदार्थस्य मौलिकं स्वरूप सुरक्षितं तिष्ठेत् तदेव वस्तु इति सदिति वा प्रोच्यताम् । एवञ्च उत्पादव्ययध्रौव्यञ्च कथञ्चित् भिन्नम् कथञ्चिच्चाभिन्नमिति वेदितव्यम् । पर्यायदृष्ट्या एषु भिन्नता तथा ध्रौव्यदृष्ट्या अभिन्नता च वेदनीया। कथितमप्येतद् अनेन प्रकारेणदुग्धमेकं सदात्मकं वस्तु। तत एव कञ्चिदंशमादाय दधि निर्मीयते । तत्र दुग्धमेव दधिभावेनोत्पन्न तथा तावान् दुग्धांशो नष्टः। उत्पन्ने दध्नि, तथा विनाशमुपगते दुग्धे च गोरसत्वं सुस्थिरमेवावतिष्ठते। एतेन स्पष्टं यत् वस्तु त्रयात्मकं भवति। एवं जानन् कोऽपि जनः स्याद्वादस्य प्रतिपक्षी कथं भवितुमर्हति? सत्तत्त्वं प्रतिपाद्य इदानीं तद्विपरीतम् असत् तत्त्वं प्रतिपादयितुं सूत्रमवतारयति - Page #198 -------------------------------------------------------------------------- ________________ षष्ठो विभागः १६५ 3. तदितरदसत्। यन्नोपपद्यते न व्येति न च ध्रुवं तदसत्, यथा-आकाशकुसुमम्। जिसमें सत् के लक्षण प्राप्त नहीं हैं, वह असत् है। जो न उत्पन्न होता, न नष्ट होता है और न ध्रवु है, वह असत् है जैसे- आकाशकुसुम। न्या. प्र.- सतोभिन्नं यत् तत् असदिति विज्ञेयम् । यन्नोत्पद्यते अर्थात् यस्योत्पत्तिर्न भवति न च तत्र व्यय एव वा भवति, न च ध्रौव्यं स्थैर्य वा तत्रावलोक्यते तदसदिति विज्ञेयम् । यथा आकाशकुसुमम्। आकाशकुसुमस्योत्पादस्ततो व्ययो वा न दृष्टः श्रुतो वा केनापि कदापि। उत्पादव्यययोरभावे ध्रुवत्वस्य तत्र परिकल्पना मुधैव। अस्यां स्थितौ आकाशकुसुमस्य असत्वं निश्चितमेवेति वेदितव्यम्। लब्धसत्ताकं प्रत्येकं वस्तु नित्यानित्यात्मकमिति वदति जैनदर्शनम्। तत्र किं स्वरूपं नित्यमिति ज्ञापयति सूत्रद्वारा 4. सतोऽप्रच्युतिर्नित्यम्। सत् की अप्रच्युति को नित्य कहा जाता है। न्या. प्र.- सतः सद्वस्तुनः अप्रच्युतिरेव तस्य नित्यत्वम्। सद्वस्तु न च्यवते स्वरूपात् मनागपि। तत्तु यथा स्वरूपं सदैवावतिष्ठते । तस्मात्तन्नित्यमिति वदन्ति तत्त्वविदः। नित्यस्य विपरीतं भवति अनित्यम्। तस्य स्वरूपं किमिति प्रतिपादयति Page #199 -------------------------------------------------------------------------- ________________ १६६ भिक्षुन्यायकर्णिका परिणमनमनित्यम्। वस्तुतः सत्स्वरूपस्य अप्रच्युतिः नित्यम्। तस्यैव च तत्तद्रूपतया परिणमनम्' अनित्यम्।। सत् के परिणमन को अनित्य कहा जाता है। वस्तु अपने सत्स्वरूप से च्युत नहीं होती। इस दृष्टि से वह नित्य है और वह भिन्न-भिन्न रूपों में परिवर्तित होती रहती है, इस दृष्टि से वह अनित्य है। न्या. प्र.- उत्पादव्ययध्रौव्यात्मकमेव वस्तु भवति। वस्तु एव सत् पदेनापि व्यवहियते। सत्स्वरूपात्मके वस्तुनि परिणमनं भवति। परिणमनशब्दार्थो न सर्वथा विनाशो, न वा सर्वथा उत्पाद एव किन्तु अवस्थान्तरस्य प्राप्तिरेव परिणमनम्। यत्र भवति तत्तद्रूपेण परिणमनं तदेवानित्यम्। उत्पादव्यायावादाय सतोऽनित्यत्वं, तथा ध्रौव्यांशमादाय सतो नित्यत्वमिति नित्यानित्यात्मकत्वे वस्तुनो न कश्चन विसंवादः। सत् न केवलं नित्यानित्यात्मकं किन्तु तत् सामान्यविशेषात्मकमपि भवतीति सामान्यं प्रस्तोतुं सूत्रयति 6. अभेदप्रतीतेर्निमित्तं सामान्यम् । 1. न च सर्वथा विनाशः न च सर्वथा उत्पादः किन्तु अवस्थान्तरापादनम्। 2. तिर्यक्सामान्ये बहूनां व्यक्तीनां केनचित् तुल्येन धर्मेण एकता प्रतीयते, ऊर्ध्वतासामान्ये च एकस्या एव व्यक्तेर्बहुषु पूर्वापरासु अवस्थासु अनुयायिनी एकता प्रतीयते, इति आद्या द्रव्ययोर्द्रव्याणां वा जातिगता एकता, अपरा च एकस्यैव द्रव्यस्य पर्यायगता एकता इति तत्त्वम् । Page #200 -------------------------------------------------------------------------- ________________ षष्ठो विभागः प्रतिव्यक्ति तत् तिर्यक् सामान्यम्, यथा- वटनिम्बादिषु वृक्षत्वम् । क्रमभाविपर्यायेषु च ऊर्ध्वतासामान्यम्, यथाबाल्ययौवनाद्यनुयायिपुरुषत्वम् । अभेदप्रतीति के निमित्त को सामान्य कहा जाता है। सामान्य के दो भेद हैं: 1. तिर्यक्सामान्य, 2. ऊर्ध्वतासामान्य तिर्यक् सामान्य - विभिन्न व्यक्तियों में एकता की प्रतीति, जैसे - बरगद, नीम आदि में वृक्षत्व । १६७ ऊर्ध्वतासामान्य-क्रमभावी पर्यायों में एकता की प्रतीति, जैसे- बचपन और यौवन आदि अवस्थाओं में समानरूप से रहने वाला पुरुषत्व । न्या. प्र. विभिन्नव्यक्तिषु एकतायाः प्रतीतिर्भवति किञ्च एकस्यामपि व्यक्तौ जायन्ते नाना पर्यायास्तथापि सा खल्वेकैव व्यक्तिरित्येवं प्रकारेण या अभेदप्रतीतिर्भवति तस्या अभेदप्रतीतेर्निमित्तमेव सामान्यम् । तच्च सामान्यं द्विविधम्१. तिर्यक्सामान्यम् २. ऊर्ध्वतासामान्यं च । तिर्यक् सामान्ये बहूनां व्यक्तीनां मध्ये केनापि समानधर्मेण एकतायाः प्रतीतिर्भवति । यथा वटनिम्बादिवृक्षेषु वृक्षत्वं समानरूपेण वर्तते इति वृक्षत्वेन रूपेण वटनिम्बरसालादयो वृक्षा अभिन्नाः । एवमेव गोत्वेन तुल्यधर्मेण सर्वे गावोऽभिन्ना, घटत्वेन तुल्यधर्मेण सर्वे घटाः सन्त्यभिन्नाः । तदेवमेषु स्थलेषु तिर्यक् सामान्यमस्ति । ------- Page #201 -------------------------------------------------------------------------- ________________ १६८ 7. भिक्षुन्यायकर्णिका ऊर्ध्व तासामान्ये तु एकस्यामेव व्यक्तौ पूर्वापरेषु क्रमभाविपर्यायेषु अनुयायिनी एकता प्रतीयते । यथा बाल्ययौवनाद्यनुयायि पुरुषत्वम् । तिर्यक् सामान्ये द्रव्ययोः द्रव्याणां वा जातिगता एकता प्रतीयते । उपर्युक्तं चैतत् गोघटादिषु । ऊर्ध्वतासामान्ये च एकस्यैव द्रव्यस्य पर्यायगता एकता प्रतीयते । बालयौवनादिपर्यायेषु भिन्नेष्वपि सत्सु पुरुषोऽयं देवदत्तो वा अयमित्यादि रीत्या एकता प्रतीतिर्भवत्येव । सामान्यं तद्भेदौ च प्रतिपाद्य सम्प्रति विशेषं प्रतिपादयति भेदप्रतीतेर्निमित्तं विशेषः । असौ जातिरूपेणाऽभिन्नेष्वपि वृक्षेषु वटोऽयम्, पिप्पलोऽयम्, निम्बोऽयमित्यादि वैसदृशस्य निमित्तभूतो भवति । भेदप्रतीति के निमित्त को विशेष कहा जाता है। यह जाति रूप से अभिन्न वस्तुओं में भिन्नता की प्रतीति का निमित्त है, जैसे- वृक्षों में अमुक बरगद है, अमुक पीपल है और अमुक नीम है, इत्यादि । न्या. प्र. - भेदस्य या प्रतीतिर्भवति लोके अयं निम्बः अयं कदम्बः, अथवा अयं गौः अयं महिषः इत्येवं रूपेण तस्याः प्रतीतेर्निमित्तं विशेष एव । अयं भावः वृक्षत्वजातिमवलम्ब्य निम्बकदम्बादयः सर्वे वृक्षा: समानाः सन्ति वृक्षत्वजातेः सर्वत्र वर्तमानत्वात् । एवमेव Page #202 -------------------------------------------------------------------------- ________________ षष्ठो विभागः १६९ पशुत्वजातिमवलम्ब्य गोमहिषादयः सर्वे पशवः समाना एव। एवं जातिरूपेण अभिन्नोष्वपि वृक्षेषु यदा वटोऽयम्, पिप्पलोऽयम् निम्बोऽयम् इत्यादिविभागः क्रियते अथवा पशुषु मध्ये गौरयम्, महिषोऽयं वेति विभागः क्रियते चेत् एतादृशस्य भेदस्य निमित्तं विशेष एव। सामान्यं जातिर्वा अभेदनिमित्तं भवति चेत् जात्यवच्छिन्नव्यक्तिषु या भेदप्रतीतिर्भवति तस्या निमित्तं तु विशेष एव। ___ स च विशेषः कतिविध इति जिज्ञासायां तस्य द्वैविध्यं प्रतिपादयितुं सूत्रमवतारयति गुणपर्यायभेदाद् द्विरूपः। गुणः -सहभावी धर्मः, यथा-आत्मनि विज्ञानम्। पर्याय:-क्रमभावी, यथा-तत्रैव सुख-दुःखादि । विशेष के दो भेद हैं : 1. गुण, 2. पर्याय गुण- सहभावी धर्म, गुण कहलाता है, जैसे-आत्मा में ज्ञान। ___ पर्याय- क्रमभावी धर्म, पर्याय कहलाता है, जैसेआत्मा में सुख, दु:ख आदि। न्या. प्र.- विशेषो द्विविधो भवति गुणः पर्यायश्च। तत्र गुणः सहभावी धर्मः यथा आत्मनि ज्ञानं सहभावी धर्मोऽस्ति। तत्रैवात्मनि क्रमशः कदाचित् सुखं कदाचिच्च दुःखं जायते। क्रमभाविन इमे सुखदुःखादयः सन्ति। Page #203 -------------------------------------------------------------------------- ________________ १७० भिक्षुन्यायकर्णिका प्रमाणस्य विषयो यद्वस्तु तद्वाच्यम् अवाच्यं च भवति । तत्र वाच्यावाच्ययोः किं स्वरूपमिति प्रतिपादयितुं सूत्रयति 9. वाग्गोचरं वाच्यम्। जो वाणी का विषय बने उसे वाच्य कहा जाता है। 10. -वाचामविषयमवाच्यम्। जो वाणी का विषय न बने, उसे अवाच्य कहा जाता है। 11. विवक्षाऽविवक्षातः संगतिः। प्रयोजनवशात् कश्चिद् धर्मो विवक्ष्यते, कश्चिच्च सन्नपि प्रयोजनाभावान्न विवक्ष्यते, यथा-धर्मिणो नित्यत्वविवक्षायां सन्तावप्युत्पादव्ययौ नोपादीयेते, अनित्यत्वविवक्षायाञ्च सदपि ध्रौव्यं नार्म्यते। तत एव सहावस्थितानामप्येषां ग्रहणाग्रहणेन एकोऽपि धर्मी नित्योऽनित्यश्च । एवमनुवृत्ताकारेण सामान्यम्, व्यावृत्तरूपेण विशेषः, स्वरूपेण सत्, पररूपेण असत्, एकैकधर्मापेक्षया वाच्यम्, युगपद् अनेक धर्मापेक्षया च अवाच्यम्। दृश्यन्ते च एकस्मिन्नपि जने अपेक्षाभेदात् पितृत्वभ्रातृत्वपुत्रत्वमातुलत्वभागिनेयत्वादयः पर्यायाः। एक ही वस्तु में अनेक विरोधी धर्मों की संगति विवक्षा और अविवक्षा के आधार पर घटित होती है। Page #204 -------------------------------------------------------------------------- ________________ षष्ठो विभागः १७१ प्रयोजनवश किसी धर्म की विवक्षा की जाती है और प्रयोजन के अभाव में किसी धर्म की विवक्षा नहीं की जाती, जैसे- किसी धर्मी के नित्यत्व की विवक्षा में उसमें विद्यमान उत्पाद और विनाश धर्मों का ग्रहण नहीं किया जाता तथा अनित्यत्व की विवक्षा में वस्तु में विद्यमान ध्रौव्य का ग्रहण नहीं किया जाता। इसलिए एक रहने वाले इन विरोधी धर्मों के ग्रहण और अग्रहण से एक ही पदार्थ नित्य और अनित्य कहलाता है। इसी प्रकार सदृश धर्म की अपेक्षा से पदार्थ सामान्य है और विलक्षण धर्म की अपेक्षा से वह विशेष । स्वरूप की दृष्टि से सत् और पररूप की दृष्टि से असत् है। एक-एक धर्म की अपेक्षा से वाच्य और एक साथ अनेक धर्मों की अपेक्षा से अवाच्य है। एक ही मनुष्य अपेक्षाभेद से पिता, भाई, पुत्र, मामा और भानजा होता है। इस प्रकार एक व्यक्ति में अनेक पर्याय प्राप्त होते हैं। न्या. प्र.- अस्यायमभिप्रायः प्रमाणस्य विषयो यद्वस्तु तद् यदा वाग् विषयो भवति अर्थात् वाणी द्वारा तस्य प्रकाशनं भवति तदा तद् वाच्यमिति कथ्यते । यद्वस्तु वाणीविषयो न भवति तत्तु अवाच्यमेव। अत्रेयमाशङ्का भवति यदेकस्मिन्नेव वस्तुनि विरोधिधर्माणां संगतिः कथं भवति? अत्र समाधानरूपेणोच्यते विवक्षाऽविवक्षातः संगतिः भवितुमर्हति। Page #205 -------------------------------------------------------------------------- ________________ १७२ भिक्षुन्यायकर्णिका तात्पर्यमिदं यत् प्रयोजनवशात् वस्तुनः कश्चिद् धर्मो विवक्ष्यते। विवक्षितश्च धर्मो वाग्विषयो भवति । वाणीद्वारा भवति तस्य प्रकाशनम् । कश्चिच्च धर्मो वस्तुनि सन्नपि प्रयोजनाभावान्न विवक्ष्यते, तदा नासौ याति वाग् विषयतामिति अवाच्य एव सः। यथा-यदा धर्मिणो नित्यत्वस्य विवक्षा भवति तदा तत्र वर्तमानावपि उत्पादव्ययौ वस्तुनोऽनित्यत्वा-भिव्यञ्जको नोपादीयेते । यदा च भवति विवक्षा अनित्यत्वस्य तदा तत्र सदपि ध्रौव्यं न विवक्ष्यते। अनेन प्रकारेण सहावस्थिताना-मप्येषां धर्माणां कदाचित् ग्रहणेन कदाचिच्चाग्रहणेन एकोऽपि धर्मी भवति नित्योऽनित्यश्च। ये पदार्थाः सादृश्यवशात् सदृशाः समानास्तेऽनुवृत्ताकारेण सामान्यपदवाच्या भवन्ति। ते एव व्यावर्तकधर्ममवलम्ब्य व्यावृत्ताकारेण विशेषपदभाजो भवन्ति। एवमेव प्रत्येकं वस्तु स्वरूपेण सत् पररूपेण चासत् भवति । यदा वस्तुनः एकैकधर्मो विवक्ष्यते तदा वस्तु वाच्यं भवति। युगपदनेकधर्मापेक्षया चावाच्यं भवति। लोकेऽपि दृश्यते अपेक्षाबुद्ध्या भवन्ति कार्याणि । यथा एकस्मिन्नपि जने अपेक्षाभेदात् पितृत्वभ्रातृत्व पुत्रत्वमातुलत्वभागिनेयत्वादयः व्यवहाराः। पुत्र प्रति पिता सन्नपि स्वपितरं प्रति पुत्र एवैको जनः । एवं सापेक्षवादमादाय सर्वे व्यवहाराः साधूपपद्यन्ते। प्रमाणं सर्वदर्शनानुमतमेकं तत्त्वम् । न्यायशास्त्रस्य चतुर्यु अङ्गेषु प्रमाणं प्राथम्यमुपगतम् । गौतमीयन्यायाभिमतेषु षोडशपदार्थेषु Page #206 -------------------------------------------------------------------------- ________________ षष्ठो विभागः १७३ प्रमाणस्यैव प्राथम्यम्। अनया रीत्या इदं वक्तुं शक्यते यत् प्रमाणमेकं महत्वपूर्ण तथ्यम् । तस्य फलं किमिति जिज्ञासायां सूत्रमारभते 12. प्रमाणस्य फलमर्थबोधः। अयं प्रमाणमात्रस्य साक्षात्फलम्, पारम्पर्येण केवलज्ञानस्य' माध्यस्थ्यम्, शेषप्रमाणानाञ्च हानोपादानमाध्यस्थ्यबुद्धयः । अर्थबोध को प्रमाण का फल कहा जाता है। यह अर्थबोध प्रमाणमात्र का साक्षात् फल है। परस्पर फल की दृष्टि से केवलज्ञान का फल माध्यस्थ्य तथा शेष प्रमाणों का फल हान बुद्धि, उपादान बुद्धि और मध्यस्थ्य बुद्धि होता है। न्या. प्र. - अर्थानां वस्तूनां बोध एव प्रमाणस्य फलमस्ति। प्रमाणेन हि अज्ञानस्य निवृत्तिः क्रियते । यदा यस्य विषयस्याज्ञानं निवृत्तं भवति तदा तस्य बोधः सुतरां सिद्ध इति अज्ञाननिवृत्तिः अर्थबोधो वा नार्थान्तरम् । स एव च प्रमाणस्य फलमिति भावः। 1. केवलिनो हि साक्षात् . समस्तार्थानुभवेऽपि हानोपादानेच्छाविरहाद् माध्यस्थ्यबुद्धिः। 2. हेये परित्यागबुद्धिः, उपादेये ग्रहणबुद्धिः, उपेक्षणीये माध्यस्थ्यबुद्धिः । Page #207 -------------------------------------------------------------------------- ________________ १७४ भिक्षुन्यायकर्णिका स चार्थबोधो द्विविधः साक्षात्-आनन्तर्येण, पारम्पर्येण च । अयमर्थबोधः प्रमाणस्य साक्षात् फलम्। सर्वप्रमाणानाम् अव्यवहितं फलं साक्षात्फलं वा अर्थबोध एवेति ज्ञेयम्। परम्परया फलदृष्ट्या तु केवलज्ञानस्य फलं माध्यस्थ्यम्। इदं माध्यस्थ्यमेव औदासीन्यपदेनाप्युच्यते। औदासीन्यम् उपेक्षैवेति ज्ञेयम् । शेषप्रमाणानां फलं हानबुद्धिः उपादानबुद्धिः माध्यस्थ्यबुद्धिश्च भवति। इमा बुद्धयोऽर्थज्ञानानन्तरमेव भवन्तीति पारम्पर्येणोच्यन्ते सर्वाः खल्विमाः। केवलज्ञानिनः समस्तपदार्थानां भवति साक्षात् बोधः किन्तु बोधविषयाणामपि तेषां हानस्य उपादानस्य चेच्छा न भवति तस्मात् केवलज्ञानस्य फलं माध्यस्थ्यबुद्धिरेव। हेयपदार्थे परित्यागबुद्धिः, उपादेयपदार्थे ग्रहणबुद्धिः उपेक्षणीयपदार्थे च माध्यस्थ्यबुद्धिरिति भवति क्रमः। प्रमाणात् जायमानं फलं प्रमाणात् भिन्नमभिन्नं वेति संशये फलं प्रमाणतो भिन्नाभिन्नमिति व्यवस्थापयितुं सूत्रमारभते 13. तत् प्रमाणतः स्याद् भिन्नमभिन्नञ्च। एकान्तभेदे हि इदमस्य प्रमाणस्य फलमिति सम्बन्धो न संभवी। एकान्ताभेदे च प्रमाणमेव वा फलमेव वा तद् भवेदिति। प्रमाण-फल प्रमाण से कथंचिद् भिन्न और कथंचिद् अभिन्न है। Page #208 -------------------------------------------------------------------------- ________________ षष्ठो विभागः १७५ प्रमाण और फल में एकान्त भेद होने पर यह इस प्रमाण का फल है इस प्रकार का सम्बन्ध घटित नहीं होता । उनमें अभेद होने पर या तो प्रमाण ही होता है या फल ही होता है- अभेद में दो नहीं हो सकते । प्रमाणस्य फलं प्रमाणात् कथञ्चिद् भिन्नं कथञ्चित् चाभिन्नमिति वेदितव्यम् । फलस्य प्रमाणतो यदि भिन्नत्वमेव स्वीक्रियते तदा नेदं वक्तुं शक्यते यत् प्रमाणस्यैवेदं फलं न घटस्य फलमिति । यथा फलं प्रमाणात् भिन्नम् तथैव घटादपि भिन्नमेव । यदि च प्रमाणं फलञ्चेत्युभयमपि अभिन्नमेव स्वीक्रियते चेत् प्रमाणमेव स्यात् फलमेव वा स्यात् । अभेदे द्वयोः सत्ता पार्थक्यं नोपैति । तस्मादुच्यते-फलं प्रमाणात् भिन्नाभिन्नं प्रमाणफलत्वान्यथाऽनुपपत्तेरिति । सम्प्रति प्रमाणफलयोर्भेदं साधयितुकामः प्रस्तौति सूत्रम् न्या. प्र. ― 14. साध्यसाधनभावेन तयोर्भेदः । प्रमाणम्-साधनम्, फलञ्च साध्यमिति । साध्य और साधन भाव की अपेक्षा से प्रमाण और प्रमाणफल , भिन्न होते हैं । प्रमाण साधन होता है और फल साध्य | न्या. प्र. -साध्यसाधनभावस्य अपेक्षया तु प्रमाणं भिन्नं, तदीयं फलञ्चभिन्नं भवति । प्रमाणं साधनं भवति । तच्च ज्ञानस्वरूपम् । तस्मादेव चार्थबोध: - प्रकाशः । अतएव प्रमाणम् अर्थबोधस्य साधनमुच्यते । साधनात् साध्यं निष्पद्यते ज्ञायते तदेव च ―――― Page #209 -------------------------------------------------------------------------- ________________ १७६ भिक्षुन्यायकर्णिका फलमित्यनया रीत्या प्रमाणं भिन्न, फलञ्च भिन्नमिति व्यवहारः। एवं तयोभिन्नत्वं प्रतिपाद्य सम्प्रति तयोरभिन्नत्वं साधयति 15. एकप्रमातृतादात्म्येन चाभेदः । प्रमाणतया परिणत एव आत्मा फलतया परिणमते इत्येकप्रमात्रपेक्षया प्रमाणफलयोरभेदः । एक ही प्रमाता में आत्मगत होने के कारण से प्रमाण और प्रमाणफल अभिन्न होते हैं। प्रमाणरूप में परिणत आत्मा ही फलस्वरूप में परिणत होती हैं, इस प्रकार एक प्रमाता की अपेक्षा से प्रमाण और फल में अभेद घटित होता है। न्या. प्र.- यः प्रमाता प्रमाणेन वस्तु जानाति स एव तद् गृह्णाति त्यजति उपेक्षते च। न तु अन्यस्य प्रमातुः प्रमाणतया परिणामः, अन्यस्य चोपादानादिबुद्ध्यादि फलतया परिणाम इत्येवं रूपेण कस्यापि प्रतीतिर्भवति। तात्पर्यमिदं यत् एकस्मिन्नेव प्रमातरि फलं प्रमाणञ्चात्मगतं भवति । अतस्तयोरैक्यमेवेति निश्चितम् । प्रमाणरूपेण आत्मा एव परिणतो भवति। स एव च फ लरूपेण चापि परिणमते। एवञ्च एकप्रमात्रपेक्षया प्रमाणफलयोरभेदः संघटते। सांव्यवहारिकप्रत्यक्षे परिगणिता अवग्रहादयः । एषु प्रमाणफलव्यवस्था कथमिति साधयितुं सूत्रयति Page #210 -------------------------------------------------------------------------- ________________ षष्ठो विभागः १७७ 16. अवग्रहादीनां क्रमिकत्वात् पूर्वं पूर्व प्रमाणमुत्तरमुत्तरं फलम्। यथा-अवग्रहः प्रमाणम्, ईहा फलम्, एवमनुमानं यावत्। अवग्रह आदि क्रमिक होते हैं इसलिए उनमें पूर्व पूर्ववर्ती प्रमाण और उत्तर उत्तरवर्ती फल होते हैं। - जैसे- अवग्रह प्रमाण है और ईहा फल। ईहा प्रमाण और अवाय फल। अवाय प्रमाण और धारणा फल। धारणा प्रमाण और स्मृति फल। स्मृति प्रमाण और प्रत्यभिज्ञा फल। प्रत्यभिज्ञा प्रमाण और तर्क फल। तर्क प्रमाण और अनुमान फल है। न्या. प्र.- अयं भावः-इन्द्रियार्थयोगे दर्शनान्तरं यत् सामान्यस्य ग्रहणं भवति तदेवावग्रह उच्यते। विशेषोल्लेखरहितं यत् सामान्यस्य सत्तामात्रस्य ग्रहणं भवति इदं.किञ्चिदिति रूपेण, तदेव ज्ञानमवग्रहः। अयमवग्रह एवं न्यायदर्शने निर्विकल्पक ज्ञाननाम्ना व्यवह्रियते। विकल्पो नामजात्यादियोजना। सा च न भवति निर्विकल्पकज्ञाने। तदनन्तरं नामजात्यादियोजनया सविकल्पकज्ञानं भवति घटोऽयम्, पटोऽयमित्यादिना रूपेण । अस्य सविकल्पकज्ञानस्य तुलना जैनदर्शनीयेन अवायेन साकं कर्तुं शक्यते, ईहितविशेषनिर्णय एवावायः। एवमेव सवि-कल्पक ज्ञानेऽपि विशेषस्य नामजात्यादिविशिष्टस्य ज्ञानं भवतीति बोध्यम्। जैनदर्शने अवग्रहानन्तरम् ईहावायादीनां क्रमः स्वकृतो वर्तते। Page #211 -------------------------------------------------------------------------- ________________ १७८ भिक्षुन्यायकर्णिका तत्रावग्रहादीनां क्रमिकत्वात् पूर्वं पूर्व प्रमाणं भवति, तथा उत्तरोत्तरं तदीयं फलं भवति। अवग्रहादारभ्य अनुमानं यावत् चलति अयं क्रमः- यथा- अवग्रहः प्रमाणं चेत् ईहा तदीयं फलम्। एवमेव ईहा प्रमाणम् अवायश्च तदीयं फलम्। अवायः प्रमाणम् धारणा च तस्य फलम्, धारणा प्रमाणम् चेत् स्मृतिः तत्फलम्, स्मृतिः प्रमाणं भवति चेत् प्रत्यभिज्ञा तस्याः फलम्,. प्रत्यभिज्ञा प्रमाणं भवति तदा तर्कस्तत्फलम्, तर्क: प्रमाणं भवति तदा अनुमानं तदीयं फलं भवति । अनया रीत्या पूर्वस्य पूर्वस्य प्रमाणत्वम् उत्तरस्य उत्तरस्य च तदीयं फलत्वं व्यक्तं भवति। यस्तर्कोऽनुमानफलको भवति स खलु अन्वयव्यतिरेकनिर्णयात्मकः। साधने सति अग्न्यादिसाधने धूमे सति साध्यस्य अग्नेर्भाव एव अथवा साध्ये अग्नावेव सति साधनस्य धूमस्य भावोऽन्वयः कथ्यते। यथा यत्र धूमः तत्राग्निः । साध्याभावे अग्न्यभावे साधनाभावः-धूमाभावो व्यतिरेकः । अनेन प्रकारेण अन्वयव्यतिरेकनिर्णयानन्तरमेव अविनाभाविना हेतुना जायतेऽनुमानमिति सर्वमेतदनवद्यम्। इति प्रमेयप्रमितिस्वरूपनिर्णयात्मकः षष्ठो विभागः। Page #212 -------------------------------------------------------------------------- ________________ सप्तमो विभाग: चतुरङ्ग न्यायशास्त्रमिति प्रतिश्रुतमादौ पुस्तकस्यास्य। तत्र प्रमाणप्रमेयप्रमितीत्याख्यानि व्याख्यातानि त्रीणि अङ्गानि । साम्प्रतं तद्घटकं प्रमातृनामकं तत्त्वं व्याख्यातुकामः सूत्रमवतारयतिस्वपरावभासी प्रत्यक्षादिप्रसिद्ध आत्मा प्रमाता। स्वञ्च परञ्चावभासते प्रकाशयतीत्येवंशीलः, अहं सुखी, अहं दुःखीत्यादि निदर्शनेन, प्रत्यक्षादिप्रमाणेन प्रमाणित आत्मा प्रमाता भवति। स्वप्रकाशी एवं परप्रकाशी तथा प्रत्यक्ष आदि प्रमाणों से प्रसिद्ध आत्मा को प्रमाता कहा जाता है। आत्मा ही प्रमाता-प्रमाण करने वाला है। वह स्वयं अपने चैतन्य से प्रकाशित है और ज्ञेय-विषय को प्रकाशित करता है। मैं सुखी हूँ, मैं दु:खी हूँ, इत्यादि-इस निदर्शन वाले प्रत्यक्ष आदि प्रमाण के द्वारा वह प्रमाणित है। Page #213 -------------------------------------------------------------------------- ________________ भिक्षुन्यायकर्णिका न्या. प्र.- यः स्वमात्मानमवभासयति-प्रकाशयति परञ्च-स्वस्मात् भिन्नं जडतत्त्वञ्च प्रकाशयति अर्थात् यः स्वयं प्रकाशते तथा स्वस्माद् भिन्नं जडतत्त्वं च प्रकाशयति, स एव प्रमाता। एवञ्च स्वयं प्रकाशमानत्वे सति परप्रकाशकत्वं प्रमातुर्लक्षणम्। अयं प्रमाता प्रत्यक्षादिप्रमाणैः प्रसिद्धोऽस्ति। अहम् अस्मि, अहं सुखी-दु:खी वास्मि इत्येवं रूपेण यो बोधो भवति स बोधो नापलपितुं शक्यते केनापि । अहं नास्मीति बोधो कस्यापि न जायते। अयं बोध एव सत्यापयति इदं तथ्यं यत् अस्ति आत्मा नाम्ना ख्यातः प्रमाता। अयमेव प्रमिमीते- प्रमितिविषयं करोति निखिलपदार्थान् इति परावभासीति पदेनापि अयमुच्यते। अहं सुखी-दुःखी इत्यादिनिदर्शनमेव प्रमातु: सिद्धौ प्रत्यक्ष प्रमाणम् । प्रत्यक्षादिरित्यादौ आदि शब्देन अनुमानस्य शब्दात्मकस्य आगमादेश्च ग्रहणं कर्त्तव्यम्। अनुमानं-तावदित्थं- जडं चेतनाधिष्ठितं शय्यासनादिवत् । यथा अचेतनं शय्यादिकं चेतनमन्तरा न भवितुमर्हति उपयोगि तथैवेदं शरीरमपि जडात्मकं चेतनमन्तरा अर्थहीनं सत् चेतनस्य प्रमातुः सत्तामनुमापयति। अनयैव रीत्या आगमादीन्यपि प्रमाणयन्ति प्रमातारमिति भवति प्रमाता प्रमाणेन प्रमाणितः। भारतीयचिन्तनपरम्परायां मुख्यो विषयः आत्मा एवास्ति। अस्मिन् विषये परस्परं विरोधीनि अनेकमतानि उपलभ्यन्तेऽत्र। औपनिषदपथे वर्तमाना आत्मनः सर्वथा नित्यत्वं Page #214 -------------------------------------------------------------------------- ________________ सप्तमो विभागः १८१ कूटस्थत्वम्, अचलत्वं सनातनत्वञ्च बुवन्ति। किन्तु मीमांसाकधुरीणाः कुमारिलभट्टा आत्मनो नित्यानित्यत्वं व्याहरन्ति। जैनदर्शनमपि आत्मनो नित्यानित्यत्वमेव स्वीकरोति। ये हि बौद्धमतावलम्बिन आत्मनः सर्वथा क्षणिकत्वमनित्यत्वञ्चाङ्गीकुर्वन्ति तेषां मते तु कृतप्रणाशस्तथा अकृताभ्यागमदोषश्च भवति एव। अनेकान्तदर्शनानुसारं तु ज्ञानम् आत्मा च स्वपरावभासी एव स्वीकृतः। तदुक्तं हेमचन्द्रेण- ‘स्वपरावभासी परिणाम्यात्मा प्रमाता।' तात्पर्यन्तु पूर्ववदेव -यः स्वं परञ्च अवभासते-प्रकाशयति तथा सुखी दुःखीत्यादिविभिन्नरूपे परिणमति स एव प्रमाता आत्मा। यदि प्रमाता कूटस्थो नित्यःस्यात् तदा हर्षविषादसुखदुःखभोगादयो विकारास्तत्र न जायेरन् आकाशवत्। यदि प्रमाता एकान्तनाशी (सर्वथा अनित्यः) स्यात् तदा कृतनाशाकृताभ्यागमौ स्याताम्। अस्यां स्थितौ स्मृतिप्रत्यभिज्ञानादयो व्यवहारा अपि न सम्पद्येरन् । यदि आत्मा परिणमनशीलः स्यात् तदा तत्रोत्पादव्ययध्रौव्याणि सारल्येन सम्पद्यन्त इति सर्वं सुगमं भवति। आचार्यहेमचन्द्रेणात्र अहे: दृष्टान्तो दत्तः। यथा सर्पस्य कदाचित् कुण्डलावस्था भवति, कदाचिच्च आर्जवावस्था भवति। उभयोरनयोरवस्थयो: सर्पत्वमनुवर्तत एव। एवमेव आत्मनोऽपिकदाचित् सुखदुःखादिलक्षणा अवस्था जायन्ते कदाचिच्च विनिवर्तन्तेऽपि। आसु सर्वास्वस्थासु चैतन्यं तु अनुवर्तत एव। अतएव प्रमातुः परिणमनशीलता या कथिता सा समीचीनैव। एतत् सर्वं मनसि निधाय सूत्रं करोति Page #215 -------------------------------------------------------------------------- ________________ १८२ भिक्षुन्यायकर्णिका 2. चैतन्यलिगोपलब्धेस्तद्ग्रहणम्। अदृष्टोऽपि पदार्थों लभ्यमानलिङ्गेन गृह्यत एव, यथाऽपवरकस्थितेनादृष्टोऽपि सविता प्रकाशातपाभ्याम्, तथैव चैतन्यलिङ्गेन आत्मा। आत्मा का बोध चैतन्यलिंग की उपलब्धि से होता है। - अदृष्ट पदार्थ भी दृष्ट लिंग (हेतु) के द्वारा गृहीत होता है, जैसे- कमरे में बैठा हुआ आदमी सूर्य को नहीं देखता है, फिर भी वह प्रकाश और धूप के द्वारा अदृश्य सूर्य को जान लेता है। उसी प्रकार अदृश्य आत्मा चैतन्य लिंग के द्वारा गृहीत होता है। न्या. प्र.- इदमत्र तत्त्वं यत्-कथं भवति ग्रहणमात्मन इति जिज्ञासायामुक्तं यत् चैतन्यलिङ्गेन तद्ग्रहणं-ज्ञानं भवति। चैतन्यमेवात्मनो लिङ्गम्। अतस्तेनैवलिङ्गेनात्मनो ग्रहणं भवति। आत्मा न खलु चाक्षुषप्रत्यक्षविषयः अतोऽसौ अदृष्टः किन्तु अदृष्टोऽपि पदार्थो दृष्टलिङ्गद्वारा गृह्यत एव। यथा कक्षे स्थितस्य पुरुषस्य कृते सूर्योऽदृष्टोऽस्ति, तथापि तत्प्रयोज्यौ प्रकाशातपौ, अनुभूय ज्ञायते- अस्ति नभसि सविता, येन प्रकाश: आतपश्चात्रानुभूयते । अनेनैव प्रकारेण अदृश्योऽप्यात्मा चैतन्यलिङ्गद्वारा गृहीतो भवति। इदमिदानीं विचारपथमानीयते यत् आत्मनो यच्चैतन्यं तत् कुतः समुत्पद्यते? किमिदं जडात्मकस्य पृथिव्यादेर्धर्मः? अथवाअन्यदेव किञ्चिदिति जिज्ञासां शमयति सूत्रद्वारा Page #216 -------------------------------------------------------------------------- ________________ सप्तमो विभागः . १८३ 3. न तजडलक्षणभूतधर्मः। वह चैतन्य जड़प्रकृति वाले भूतों (पृथ्वी, अप, तेजस्, वायु और आकाश) का धर्म नहीं है। न्या. प्र.- तत् चैतन्यं जडलक्षणस्य जडस्वरूपस्य भूतस्य धर्मो नास्ति। पृथिव्यादीनि पञ्चभूतानि जड़स्वरूपाणि । तत्र नास्ति चैतन्यम् । कस्यापि वस्तुनः समुत्पत्तौ तदीयमुपादानमपेक्षितं भवति। यथा कनककुण्डलोत्पत्तौ तदीयमुपादानं स्वर्णं भवत्युपयोगि। यथा वा मृद्घटोत्पत्तौ मृदेवोपादानं भवति । उपादानमन्तरा कार्योत्पत्तिरसंभवेति तत्त्वविदामाकूतम् । गीतायामप्युक्तम्-"नासतो विद्यते भावो नाभावो विद्यते सतः" अर्थात्- भावः स्थितिः सत्ता वा असद्वस्तुनो नैव भवति। नैव भवति कदाचिदपि बन्ध्यासुतस्य सत्ता । नैव वा कदाचिदपि लब्धसत्ताकं जातम् आकाशकुसुमम्। उपादानमन्तरा नैव भवितुमर्हति कस्यापि वस्तुनः समुत्पादः। पृथिव्यादिभूतेषु नास्त्येव चैतन्यं चेत् कथं समुत्पद्येत पुरुषे चैतन्यम् । तस्मान्न चैतन्यं भूतधर्मः। चैतन्यमस्ति आसीत् भविष्यति चेति चैतन्यं शाश्वतिकं लब्धसत्ताकं वस्तु। न भवति तदीयोऽभाव: कदाचिदपि। अतः उक्तम्-नाभावो विद्यते सतः। यदि उच्यते मा भवतु प्रत्येकं भूते चैतन्यं किन्तु यदा पञ्चापि भूतानि समुदितानि भवन्ति तदा, समुदितेषु भूतेषु चैतन्यमुत्पद्यते। किन्तु एतदपि कथनं न मनोरमम् यतोहि यदि प्रत्येकं भूते नास्ति चैतन्यं तदा समुदितेष्वपि भूतेषु कथमुत्पद्यतां चैतन्यम् ? यदि एकस्मिन्नपि तिले नास्ति तैलं Page #217 -------------------------------------------------------------------------- ________________ १८४ भिक्षुन्यायकर्णिका चेत् मिलितेष्वपि भूयःसु तिलेषु यत्नसहस्त्रेणापि नैवोत्पद्यते तैलम् । तस्मादुपादाननियमस्यावश्यं स्वीकर्तव्यतया भूतेषु च चैतन्याभावात् पुरुषाधिष्ठानकं चैतन्यं न भूतधर्मः इति तथ्यं सिद्धं भवति। एतदेव स्पष्टं करोति सूत्रद्वारा उपादाननियमात्। क: खलूपादानमर्यादामनुभवनपि जडलक्षणाद्भूताच्चैतन्यं प्रसाधयितुमायुष्मान्। इसका हेतु है- उपादान का नियम। उपादान (परिणामी कारण) की मर्यादा को जानने वाला क्या कोई व्यक्ति जड़ प्रकृति वाले भूतों से चैतन्य की निष्पत्ति को सिद्ध कर सकता है? न्या. प्र.- कार्योत्पत्तौ उपादानमर्यादा अनिवार्या । उपादानमुपेक्ष्य नैव जायन्ते कार्याणि । अतः पुरुषे यच्चैतन्यं तदुपादानमन्वेषणीयम्। न च तत् जडात्मकभूतेषु वर्तते । अतः जडात्मकभूतात् चैतन्यं साधयितुं न कोऽपि क्षम इति अत्रत्यं रहस्यं वेदनीयम्। यदि उच्यते माभूत् प्रत्येकं भूते चैतन्यं किन्तु समुदितेषु भूतेषु तत्रावर्तमानमपि चैतन्यमुत्पद्यत एव गोमयाद् वृश्चिक इव यद् वा ताम्बूलचूर्णकयोर्मेलनेन रक्तरङ्गोत्पत्तिरिव। इमां शङ्कामपाकर्तुं सूत्रं करोति 5. नासदुत्पादः। न खलु समुदितेष्वपि भूतेषु अत्यन्तासत्त्वस्य चैतन्य Page #218 -------------------------------------------------------------------------- ________________ सप्तमो विभाग: १८५ स्योत्पत्तिः संभविनी, यथा-सिकताकणेषु प्रत्येकमनुपलब्ध तैलं न समुदितेष्वपि, सतो व्यक्तौ तु सिद्धयति सर्वथा चैतन्यवादः। असत् का उत्पाद नहीं होता। प्रत्येक भूत से चैतन्य की उत्पत्ति नहीं होती, उसी प्रकार भूतों के समुदित होने पर भी उनसे अत्यन्त असत् चैतन्य की उत्पत्ति नहीं हो सकती, जैसे- बालु के प्रत्येक कण में अनुपलब्ध तैल, उनके समुदाय में भी उपलब्ध नहीं होता। उनकी समुदित अवस्था में वह व्यक्त होता है, यदि यह माना जाए तो इससे सर्वथा चैतन्यवाद की सिद्धि माननी पड़ेगी। न्या.प्र.- असतोऽवर्तमानस्य उत्पादः उत्पत्तिः कथमपि • भवितुं नार्हति। केनोत्पादितः बन्ध्यासुतः? केन केन कुसुमायितं गगनमद्यावधि। तस्मादिदमेव युक्तं यद् असतः उत्पादः नैव भवितुमर्हति कदापि। यदि कथ्यते यद् अवर्तमानमपि वस्तु साधनोपलब्धौ उत्पद्यत एव। यथा गोमयात् उत्पद्यते वृश्चिकः। यद् वा ताम्बूलचूर्णकयो र्मेलनेनोत्पद्यते रक्तरङ्गस्तथैव भूतेषु अर्वतमानमपि चैतन्यं समुदितेषु तेषु उत्पद्यत एवं। अत्रोच्यते-यथा सिकताकणेषु प्रत्येकमवर्तमानं तैलं समुदितेष्वपि तेषु नोत्पद्यते कथमपि तथैव प्रत्येकं भूते अवर्तमानं चैतन्यं समुदितेष्वपि भूतेषु नैवोत्पादयितुं शक्यते Page #219 -------------------------------------------------------------------------- ________________ १८६ भिक्षुन्यायकर्णिका केनापि । गोमयावृश्चिकोत्पत्तिः ताम्बूले रक्तरङ्गोत्पत्तिर्वा न भवितुमर्हति चैतन्योत्पत्तेदृष्टान्तः, यतोहि गोमयात् केवलं वृश्चिकस्य स्थूलं भौतिकं शरीरमेवोत्पद्यते नतु चैतन्यमपि। एवं ताम्बूले यः खलु रक्तरङ्गः तिरोहितस्तिष्ठति स एव केवलमभिव्यञ्जकद्वाराऽभिव्यज्यते न तु किमपि नवीनं तथ्यं तत्र समुत्पद्यते इति विभावनीयम् । तस्मात् चैतन्यं सत् पदार्थः। तत्तु समुत्पन्नेषु शरीरेषु स्वत एव व्यक्तो भवति । अनेन प्रकारेण भूतात् चैतन्योत्पत्तिरिति भूतचैतन्यवादो निराकृत एव भवति सिद्ध्यति च सर्वथा चैतन्यवादः। चैतन्यादेव जगदुत्पत्तिरभिव्यक्तिर्वेति साधीयान् पक्षः। एवं चैतन्यसत्तायां सिद्धायामपि केचन वदन्ति चैतन्य मस्तिष्कमूलमस्ति। तदेतन्निराकरोति 6. नापि मस्तिष्कमूलम्, मस्तिष्कस्य तु तत्प्रयोगहेतुमात्रत्वात् चैतन्य का मूल मस्तिष्क नहीं है। मस्तिष्क तो चेतना के प्रयोग का हेतुमात्र है। न्या. प्र.- चैतन्यस्य मूलं मस्तिष्कं नास्ति। किन्तु मस्तिष्कं तु विशिष्टचैतन्यान्वितस्य मनसः प्रयोगस्य साधनमस्ति । मनसः प्रयोगस्थलं नाना । मस्तिष्कद्वारा प्रयोगस्थलं निर्धार्य तत्र प्रवर्तते मनः। एवञ्च मनसः प्रयोजकं मस्तिष्कं कथं चैतन्यस्य मूलं भवितुमर्हति। तस्मात् चैतन्यमेकमतिरिक्तं तत्त्वं यद् भवाद् भवान्तरं गच्छति आगच्छति च । एवं चैतन्यस्य मस्तिष्कमूलकतां निराकृत्य तस्य शोणितमूलकतामपि निराकरोति Page #220 -------------------------------------------------------------------------- ________________ सप्तमो विभाग: १८७ 7. शोणितं प्राणशक्त्यनुगाम्येव। रक्तं हि प्राणशक्तिहेतुकं भवति, तद्विरहे तस्यानुत्पादात्, अन्यथा तद्गतिनिरोधस्य निर्हेतुकत्वात्। किञ्च सात्मके शरीरे आहारग्रहणम्, ततः शोणितोत्पत्तिः, प्राणापानेन तस्याऽखिले वपुषि सञ्चारः, तेन शरीरावयवानां सक्रियत्वम्, ततो हीन्द्रियाणि मनश्च गृह्णन्ति स्वप्रमेयम्। देहिनि अन्यत्र गते सर्वत्रापि निष्क्रियत्वोपलब्धेः। चैतन्य का मूल रक्त भी नहीं है, क्योंकि वह प्राणशक्ति का अनुगामी है। __ रक्त का हेतु प्राणशक्ति है। उसके अभाव में रक्त उत्पन्न नहीं होता। यदि ऐसा नहीं माना जाए तो रक्त के गतिरोध का कोई हेतु ही नहीं रहता। क्योंकि सजीव शरीर आहार ग्रहण करता है, उससे रक्त की उत्पत्ति होती है। प्राण और अपान के द्वारा सारे शरीर में उसका संचार होता है, उससे शरीर के सब अवयव सक्रिय होते हैं, उनकी सक्रियता होने पर इन्द्रिय और मन अपने-अपने विषय का ग्रहण करते हैं। आत्मा के अन्यत्र चले जाने पर ये सब निष्क्रिय हो जाते हैं। न्या. प्र.- चैतन्यस्य मूलं रक्तमपि नास्ति, यतोहि तद् रक्तं, प्राणशक्तेरनुगामि अस्ति अर्थात् सत्यां प्राणशक्तौ भवति रक्तोत्पादः। तद्विरहे प्राणशक्तिविरहे तस्य रक्तस्य अनुत्पादात् अर्थात् प्राणशक्तेरभावे नैव भवति उत्पादो रक्तस्य। Page #221 -------------------------------------------------------------------------- ________________ १८८ भिक्षुन्यायकर्णिका तदुत्पादस्य चायं क्रमः- सात्मके शरीरे-चैतन्यविशिष्टे शरीरेआहारग्रहणम्, ततः शोणितोत्पत्तिः, श्वासोच्छवासेन तस्य = रक्तस्य अखिले वपुषि सम्पूर्णशरीरे सञ्चारो भवति। तेन सम्पूर्णशरीरे रक्तसञ्चारेण शरीरावयवाः सक्रिया भवन्ति। ततो हि इन्द्रियाणि मनश्च स्वस्वप्रमेयं स्वस्वविषयं गृह्णन्ति। यदि देही आत्मा चैतन्यं वा अन्यत्र याति तदा सर्वत्रैव निष्क्रियत्वमेव दृष्टिपथमायाति। अर्थात् सर्वाणीन्द्रियाणि मनश्च स्वं स्वं विषयं नैव गृह्णन्ति। सति देहिनि चेतने आत्मनि एव आहारग्रहणादेव रक्तोत्पत्तिः। रक्तोत्पत्तेर्मूलं प्राणशक्तिरेव । रक्तस्य या खलु गतिनिरोधो वा भवति सोऽपि प्राणशक्तिमादायैव भवति। अन्यथा यदि प्राणशक्तिं विना रक्तोत्पादः स्यात् तदा रक्तस्य गतिनिरोधौ निर्हेतुको स्याताम्। तस्मादिदमत्रावधेयं यत् चेतने आत्मनि सत्येव रक्तोत्पत्तिश्चेद् तद्रक्तं चैतन्यमूलं कथं भविष्यति? तस्मान्न रक्तं चैतन्यस्य मूलम्। अनया रीत्या आत्मनो हेतूनां निराकरणं विधाय तदस्तित्वे प्रमाणमुपन्यसन् सूत्रयति 8. प्रेत्यसदभावाच्च। पुनरुत्पत्ति:-प्रेत्यभावः । तेनाप्यात्मनः सत्त्वं प्रतिपत्तव्यम्। आत्मा के अस्तित्व का एक हेतु है- प्रेत्य का सद्भाव। प्रेत्यभाव का अर्थ है पुनर्जन्म। यह आत्मा की अस्तित्व-सिद्धि का प्रबल हेतु है। Page #222 -------------------------------------------------------------------------- ________________ सप्तमो विभागः १८९ न्या. प्र.- आत्मनोऽस्तिस्यैको हेतुरस्ति प्रेत्यस्य सद्भावः। इतो गतस्य पुनरागमनमेव प्रेत्यसद्भावः। कर्मवशात् विभिन्नयोनिषु अटाट्यमानः आत्मा गतागतं करोत्येव । नान्यद् वर्तते किमप्यन्यद् यत् खलु इह लोकात् गतिं विधाय पुनरत्रागच्छेत्। प्रेत्यभावस्यार्थोऽस्ति पुनर्जन्म। पुनर्जन्म तु आत्मैव गृह्णाति। न तु शरीरम् । शरीरंतु भवति परिच्छिन्नकालव्यापि विनश्वरशीलम्। न तस्य त्रैकालिकी सत्ता। तस्मात् पुनर्जन्मना हेतुना आत्मनः सत्वम् अर्थात् अस्तित्वं प्रतिपत्तव्यं स्वीकर्त्तव्यं भवतीति न कोऽपि सन्देहः। पुनर्जन्म भवतीत्यत्रैव किं प्रमाणमित्याशंकायाः समाधानं कुर्वन् सूत्रं करोति 9. शरीराग्रहरूपचेतसः संभवात् तत्सद्भावः। नवोत्पन्नस्य प्राणिनो निजशरीरविषय आग्रहः, स तद्विषयपरिशीलनपूर्वकः । न खलु अत्यन्ताज्ञातगुणदोषे वस्तुन्याग्रहो दृष्टः । पुनर्जन्म का सद्भाव शरीर के प्रति होने वाले चैतसिक आग्रह से सिद्ध होता है। नवजात शिशु में भी अपने शरीर के प्रति विशेष प्रकार का लगाव होता है। वह तद्विषयक पूर्वाभ्यासजनित होता है। जिस वस्तु के गुण और दोष सर्वथा अज्ञात होते हैं उसके प्रति किसी का आकर्षण नहीं होता। न्या. प्र.- शरीरं प्रति आग्रहः सर्वत्र दृश्यते। चैतसिकमिममाग्रहं दृष्ट्वा पुनर्जन्मनः सत्ता सिद्ध्यति। दृश्यते लोके Page #223 -------------------------------------------------------------------------- ________________ १९० भिक्षुन्यायकर्णिका नवजातेऽपि शिशौ स्वशरीरं प्रति विशेषाग्रहः। सत्यां बुभुक्षायां स रोदिति । बुभुक्षायां शान्तिमुपगतायां स प्रसन्नतां व्यनक्ति। नात्र चित्रं यद् दुग्धपानादिकं सर्वं कार्यं शरीराधिष्ठानकं कृत्यम्। अनया रीत्या शरीरं प्रति चैतसिको विशेषाग्रहो दृष्टचर एव। अयञ्चाग्रहस्तद्विषयकपूर्वाभ्यासजनित एवास्ते। पूर्वजन्मनि अपि एतादृशोऽभ्यासः कृत इति पूर्वाभ्यासजनित एवास्मिन्नपि जन्मनि शरीरं प्रति आग्रहो भवति। यस्य वस्तुनो गुणदोषौ ज्ञातौ न स्याताम् तं प्रति न भवति आकर्षणं कस्यापि । शरीरं प्रति आकर्षणं तु भवत्येव नवजातस्य तेन ज्ञायते यत् शरीरस्य गुणदोषौ ज्ञातौ स्त: बालकस्य। अतएव तस्य नवोत्पन्नबालस्य स्वशरीरं प्रति आग्रहो भवति। अयमाग्रह एव पुनर्जन्मनः सद्भावे प्रमाणम्। पूर्वजन्मनि अनेनं कृतोऽभ्यास इति कथं ज्ञायते? शङ्कामिमामुत्तरयन् सूत्रयति 10. हर्षभयशोकोपलब्धिरपि पूर्वाभ्यस्तस्मृत्यनुबन्धा। जातः खलु बालः पूर्वाभ्यस्तस्मृतिनिमित्तान् हर्षादीन् प्रतिपद्यते। पूर्वाभ्यासश्च पूर्वजन्मनि सति, नान्यथा। हर्ष, भय, शोक आदि की उपलब्धि का निमित्त पूर्वाभ्यास की स्मृति है। पूर्वाभ्यास की स्मृति के कारण नवजात बालक हर्ष, भय, शोक आदि को प्राप्त होता है। वह पूर्वाभ्यास पूर्वजन्म होने पर ही घटित होता है अन्यथा नहीं। Page #224 -------------------------------------------------------------------------- ________________ सप्तमो विभागः १९१ न्या. प्र.- नवजातोऽपि शिशुः हर्ष भयं शोकं चानुभवति । स कदाचित् हृष्यति कदाचित् तुष्यति कदाचिच्च क्रन्दति। इमे विकाराः पूर्वजन्मनि तेन सन्ति अनुभूताः अतएव अस्मिन्नपि जन्मनि एषां विकाराणामनुभूतिस्तस्य जायते। याऽनुभूतिस्तस्य भवति तस्या निमित्तं पूर्वजन्मनि कृतस्य अभ्यासस्य स्मृतिरेव वर्तते । पूर्वाभ्यासस्य स्मृतिवशादेव नवजातो बाल: हर्षादिकमनुभवति। स च पूर्वाभ्यासः पूर्वजन्मनि सत्येव संघटते नान्यथा। अनया रीत्या सिद्ध्यति पूर्वजन्म। सम्प्रति पृथिव्यादीनां जीवत्वं साधयितुं सूत्रयति - 11. समानजातीयाङ्कुरोत्पादात्, शस्त्रानुपहतद्रवत्वात्, आहारेण वृद्धिदर्शनात्, अपराप्रेरितत्वे तिर्यगनियमितगतिमत्त्वात्, छेदादिभिग्र्लान्यादिदर्शनाच्च क्रमेण पृथिव्यादीनां जीवत्वं संसाधनीयम्। पृथ्वी आदि की चेतना निम्न युक्तियों से सिद्ध होती हैमनुष्यों और तिर्यञ्चों के शरीर के घावों में सजातीय मांसांकुर पैदा होते हैं, वैसे ही पृथ्वी में-खोदी हुई खानों में सजातीयपृथ्वी के अंकुर पैदा होते हैं, इसलिए वह सजीव है। __ जैसे मनुष्य और तिर्यञ्च गर्भावस्था के प्रारम्भ में तरल होते हैं, वैसे ही जल तरल है अत: वह जब तक किसी विरोधी वस्तु से उपहत नहीं होता, तब तक सजीव है। ___ आहार-ईंधन आदि के द्वारा अग्नि बढ़ती है, अत: वह सजीव है। Page #225 -------------------------------------------------------------------------- ________________ १९२ भिक्षुन्यायकर्णिका वायु गाय आदि की तरह किसी की प्रेरणा के बिना ही अनियमित रूप से इधर-उधर घूमती है, अतः वह सजीव है । वनस्पति का छेदन करने से वह मुरझा जाती है, अतः वह सजीव है । न्या. प्र. - अस्यायंभाव :- दृश्यते लोके मनुष्याणां शरीरे तिरश्चां च शरीरे जायते कदाचित् व्रण: (घाव) । स च व्रणः तत्र जातेन सजातीयेन मांसांकुरेण भरितो भवति । तथैव पृथिव्यां खननेन यो गर्ती ( गड्ढा) भवति स गर्तोऽपि तत्रोत्पन्नेन पृथिव्याः सजातीयांकुरेण भरित: पूर्णतामुपैति । एतेन सिद्धं भवति यत् यथा मनुष्याः सजीवाः, यथा वा तिर्यञ्चः सजीवास्तथैव पृथिवी अपि सजीवा । मनुष्यास्तथा तिर्यञ्चश्च गर्भावस्थायाः प्रारम्भत एव तरला: स्पन्दनशीला भवन्ति । इदं तेषां तरलत्वं शस्त्रानुपहततरलत्वं न तु शस्त्रोपहततरलत्वम् । मनुष्याणां तिरश्चाञ्चेदं स्वाभाविकं द्रवत्वं यथा तत्र वर्तते तथैव जलेऽपि स्वाभाविकं तरलत्वमवतिष्ठते । इदं तरलत्वं केनापि विरोधिवस्तुना उपहते न भवति चेत् तावत् जलमपि सजीवं तत्त्वमिति वेदितव्यम् । सजीवा: पदार्था आहारपानादिभिरुपचिता:- वृद्धिं गता दृश्यन्ते लोके । अनेनैव प्रकारेण इन्धानाद्याहारैरग्निरपि दृश्यते वृद्धिं गतः । अस्यां स्थितौ शक्यते वक्तुमिदं यद् यत् तत्त्वमाहाराद्युपायै बर्द्धमानं भवति तत् उत्त्वं सजीवमेव मनुष्यादिवत् । प्रकारेणानेनाग्नेरपि सजीवत्वसिद्धिः सुकरैव । Page #226 -------------------------------------------------------------------------- ________________ सप्तमो विभागः १९३ यथा पृथिव्याः सजीवत्वं यथा वा अग्निजलयोः सजीवत्वं तथैव वायोरपि सजीवत्वमपह्नोतुमशक्यमेव । कारणञ्चेदं यत् यथा दृश्यते लोके सजीवो गौः पर प्रेरणां विनैव अनियमितरूपेण इतस्तत: पर्यटन दृष्टिगोचरो भवति, तथैव वायुरपि कस्यापि प्रेरणां विनैव अनियमितरूपेण गमनवान् भवति। जडपदार्थः (चेतनाहीनः) चेतनस्य प्रेरणां विना किमपि कर्तुं नालम् । किन्तु सजीवपदार्थस्तु नापेक्षते गतागतं कर्तुं कस्यापि प्रेरणामित्यनया युक्त्या वायोः सजीवत्वं सुतरां सिद्धयति। एवमेव वृक्षा वनस्पतयोऽपि सजीवा एवेति वेदितव्यम् । यदा वृक्षस्य शाखा छिद्यते तदा वृक्षोऽपि म्लानो भवति। एवमेव वनस्पतयोऽपि म्लायन्ते छेदनेन कर्तनेन वा। अयं तेषां मलिनीभावस्तेषां सजीवत्वं साधयति । चेतनाहीनः कोऽपि पदार्थश्छेदनभेदनतामुपेत्य कदापि न याति म्लानतां, किन्तु वृक्षा वनस्पतयश्च यान्त्येव म्लानतामिति तेषां सजीवत्वं निर्विवादमेव। जीवानां वैविध्यं प्रमाणप्रतिपन्नम्। तत्र त्रसस्थावरोऽपि एको विभागो जीवानाम् । तत्र स्थावराणां पृथिव्यादीनां सजीवत्वं संसाध्य सम्प्रति त्रसप्राणिनां सजीवत्वं प्रतिपादयन् सूत्रयति 12. त्रसानां च प्रत्यक्षसिद्धमेव। त्रस प्राणियों का जीवत्व प्रत्यक्ष सिद्ध ही है। Page #227 -------------------------------------------------------------------------- ________________ १९४ भिक्षुन्यायकर्णिका न्या. प्र.- त्रसप्राणिनां सजीवत्वं तु प्रत्यक्षसिद्धमेवास्ते। इदमत्रबोध्यं यत् त्रसपदेन जंगमजीवस्यैव ग्रहणं भवति। जङ्गमः स एव जीवो यः खलु भवति गतिशीलः। किन्तु गतिशील प्राणी एव सः इति त्रसस्य लक्षणे कृते लक्षणमिदं पुद्गलेष्वतिव्याप्तं भवति । भवति हि गतागतं पुदगलेस्वपि। तस्मात् त्रसस्योपर्युक्तं लक्षणं विहाय इदं लक्षणं क्रियते यत् - यो जीवो दुःखस्यैकान्तिकनिवृत्तिपुरःसरमनितरसाधारण सुखस्योपलब्धिकामनया यतमानो भवति स एव त्रसः । यद्यपि अत्र त्रस पदेन द्विन्द्रियजीवमारभ्य पञ्चेन्द्रियमनुष्यपर्यन्तं जीवा गृह्यन्ते तथापि त्रसपदस्य सार्थक्यं तु पूर्णरूपेण मनुष्ये एव संघटते। मनुष्यो हि भवति समीक्ष्यकारी आत्मानात्मविवेक परायणश्च । एकेन्द्रियाः पृथिव्यप्ते जोवायवो वनस्पतयश्च स्थावरा: जीवाः सन्ति। इति प्रमातृस्वरूपनिर्णयात्मकः सप्तमो विभागः। Page #228 -------------------------------------------------------------------------- ________________ प्रशस्तिश्लोकाः सम्प्रति श्लोकद्वयेन स्याद्वादं स्तौतिस्याच्छब्दाड्कितसप्तभड्गसलिलव्यूहैर्गभीरोदरो, वस्त्वंशप्रतिपादिसनयकलाकल्लोलमालाकुलः। संविद्ररत्नसमुच्चयेन भरितः सत्तर्कफेनावृतः, सोऽयं कस्य मुदे न सान्द्रमहिमा स्याद्वादपाथोनिधिः॥ सान्द्रमहिमा स्याद्वादपाथोनिधिः सर्वान् जनान् प्रीणयतीति । प्रतिपादयति- सान्द्रमहिमा सान्द्रो घनीभूतो महिमा यस्य स महत्वातिशयविशिष्ट: स्याद्वाद एव पाथोनिधिः समुद्रःकस्य मुदे= आनन्दाय न भवति? अर्थात् सर्वेषाम् आनन्दाय भवति । अत्र स्याद्वादे पाथोनिधित्वारोपात् रूपकम्। अस्मिन् पाथोनिधौ कीदृशं जलमिति जिज्ञासायामाह-स्यात् शब्देन अङ्कितो युक्तो यः सप्तभंगः स्यादस्ति, स्यात् नास्ति इत्येवं रूपो वचनप्रकारः स एव सलिलं जलं तस्य व्यूहै: प्राचुर्यैः गभीरं भरितम् उदरं यस्य सः। अयं पाथोनिधिः सप्तभंगात्मकजलेन भरितो वर्तत इति भावः। एवमेव अनन्तधर्मात्मकस्य वस्तुनः अंशग्राही यः सत्= Page #229 -------------------------------------------------------------------------- ________________ १९६ भिक्षुन्यायकर्णिका समीचीनो नयः तस्य कलाभिः मनोहराभिः कल्लोलमालाभिः तरंगपरम्पराभिः आकुलः परिव्याप्तोऽयं पारावारः । अनेन विशेषणेन स्याद्वादे समुद्रसाधर्म्य व्यक्तं भवति। एवमेव संवि-ज्ञानमेवात्र रत् तस्य समुच्चयेन आधिक्येन भरितः पूर्णस्तथा समीचीनतर्क एवात्र फेनस्तेन आवृतो युक्तः स्याद्वादपाथोनिधिः कस्य मोदाय आनन्दाय न भवति? अर्थात् सर्वान् जनान् आनन्दयति। महिमामंडितस्याद्वादरूपी समुद्रः स्यादस्ति स्यात् नास्ति इत्यादि सात प्रकार के वचन रूपी जल से भरा हुआ है। अनन्त धर्मात्मक वस्तु के अंश का ग्रहण करने वाले नय ही यहां तरंग हैं। यह समुद्र ज्ञान रूपी रत्नों से भरा हुआ है। समीचीन तर्क ही यहां फेन स्थानापन्न है। इस प्रकार का स्याद्वाद पाथोनिधि सबको आनन्द देता है। यस्यागाधजलाश्रयैर्जलदतां संयान्ति सन्तो जना, विष्वग् विभ्रमधर्मघृष्टवपुषां संशोष्य तृष्णां नृणाम्। वाक्सन्दर्भसरित्प्रवाहनिकरैः संवर्धयन्त्येव यत्, सोऽयं कस्य मुदे न सान्द्रमहिमा स्याद्वादपाथोनिधिः॥ यस्य स्याद्वादपारावारस्यागाधजलैर्लक्षणया अगाधज्ञानैः सन्तोऽपि महात्मानोऽपि जलदतां वारिवाहतां लक्षणया ज्ञानाधारतां प्राप्नुवन्ति । यथा मेघा वर्षणद्वारा सूर्यप्रभावपरिक्लान्तं लोकं तृष्णाशमनपूर्वकं तोषयन्ति, तथैव सन्तोऽपि विष्वक्=परितो विभ्रमो Page #230 -------------------------------------------------------------------------- ________________ प्रशस्तिश्लोकाः १९७ भ्रान्तिरेव घर्मस्तेन घृष्टं दाहयुतं वपुः शरीरं येषां तेषां नृणां तृष्णां जिज्ञासां संशोष्य समाधाय सरितप्रवाहनिकरैः सरित्प्रवाहतुल्यैः वाक्सन्दर्भ: वचोविन्यासैः जिज्ञासां संवर्धयन्त्येव । अयं खलु सर्वोऽपि महिमा स्याद्वादस्यैवेति स्याद्वादपाथोनिधि: कस्य मोदाय न भवति? स्याद्वाद पारावार के अगाध ज्ञान रूपी जल से सन्त लोग भी बादल के समान बन जाते हैं। जिस प्रकार बादल समुद्र से जल लेकर सूर्यातपसंतप्त प्राणियों को तृप्त करते हैं। उसी प्रकार सन्त लोग भी स्यावाद जैसे अगाध ज्ञान भंडार से ज्ञान लेकर भ्रान्ति रूपी धर्म से तप्त प्राणियों की तृष्णा अर्थात् जिज्ञासा को शान्त करते हैं तथा सरित् प्रवाह के तुल्य वचो विन्यास के द्वारा उनकी जिज्ञासा को बढ़ाते हैं। ऐसा महिमामण्डित स्याद्वाद किसे आनन्द नहीं देता है ? इदानींमन्तिमं तीर्थङ्करं स्तौति 3. यदनेः सेवायाः फलमतुलमापत् पशुरपि, मृगारिः पञ्चास्योऽभवदहह यद्धातुरधिकः। अनेकान्ताम्भोधिर्विधुमिव यमालोक्य मुदितः, स मां श्रीमान् वीरश्चरमजिनराजोऽवतुतमाम्॥ भगवतो महावीरस्य प्रतीक: सिंहः। प्रतीक आसनादधः तिष्ठति। तत्रोत्प्रेक्षामाध्यमेन प्रशंसति प्रतीकम्-यत् यस्य महावीरस्य अनेः पादस्य सेवाया अतुलं-निरूपमं फलं मृगारि: मृगाणां हरिणादिपशूनामरिः शत्रुः सिंहः आपत्=प्राप्तवान्। किं तत् फलं यत् मृगारिः प्राप्तवानिति जिज्ञासायां कथयति यत् मृगारिः पञ्चास्यः समभवत्। Page #231 -------------------------------------------------------------------------- ________________ १९८ भिक्षुन्यायकर्णिका -- पञ्च आस्यानि मुखानि यस्य सः पञ्चास्यः । द्वौ पादौ द्वौ हस्तौ एकं च मुखमिति मिलित्वा सिंहः पञ्चास्यः कथ्यते । अनेन फलेन सिंहो धातुः ब्रह्मणोऽपेक्षया अधिकः सम्पन्नः । धाता=ब्रह्मा च चतुरानन एव किन्तु अयं सिंहस्तु पञ्चाननः इति सिंहस्याधिक्यं स्पष्टमेव । प्रकारेणानेनात्र व्यतिरेकालंकारोऽपि स्पष्ट एव । अनेकान्त एवाम्भोधिः समुद्रो विधुमिव चन्द्रमिव यं महावीरमवलोक्य मुदितो जातः स चरमजिनराजः चतुर्विंशस्तीर्थङ्करो माम् अवतु रक्षतु । चन्द्रः समुद्रात् जात इति प्रसिद्धिः तस्मात् समुद्रस्य प्रसन्नतोपयुक्तैव । चन्द्रसदृशं महावीरमवलोक्यानेकान्तपारावारो मुदितो भवतीति नात्र चित्रम् । भगवान् महावीर का प्रतीक सिंह है । वह आसन के नीचे रह कर उनके चरण की सेवा करता है । इस सेवा का परिणाम यह हुआ कि सिंह पञ्चास्य = पञ्चानन हो गया। इस प्रकार वह चतुरानन ब्रह्मा से बढ़कर हो गया। ब्रह्मा तो चतुरानन है किन्तु सिंह तो पञ्चानन हो गया । अनेकान्त रूपी समुद्र जब चन्द्रसदृश भगवान् महावीर को देखा तो वह अत्यधिक प्रसन्न हुआ । इस प्रकार के चौबीसवें तीर्थंकर भगवान् महावीर मेरी रक्षा करें। इदानीं तेरापन्थसम्प्रदायं परिचाययति 4. तच्छासनं सुविशदीकृतवानलं यः, स्वार्थानुगैः कुमतिभिर्मलिनीकृतं यत् । जैनाह्वमप्यतितमां लभते स्म तेरापन्थाख्यया यदनुभावकृतां प्रसिद्धिम् ॥ Page #232 -------------------------------------------------------------------------- ________________ प्रशस्तिश्लोकाः १९९ तस्य भगवतो महावीरस्य शासनं नियमः सिद्धान्तो वा कैश्चित् स्वार्थानुगैः स्वार्थपरायणैः कुत्सिता मतिर्येषां तैः कुमतिभिः कुत्सितमतिमद्भिर्जनै: मलिनीकृतं-दोषैराच्छादितं तादृशं मलिनमपि शासनं यः खलु भिक्षुगणी अलं पर्याप्तरूपेण सुविशदीकृतवान् स्वच्छं कृतवान् स खलु भिक्षुगणिना स्वच्छीकृतो जैनाह्वयः जैनसम्प्रदायः तेरापन्थ इति नाम्ना अधुना भिक्षुस्वामिनोऽभिप्रायानुरूपां प्रसिद्धिं लभते । तेरापन्थसम्प्रदायोऽधुना परां प्रसिद्धिं गतो वर्तत इति भावः । ___ कुछ स्वार्थ परायण कुत्सित व्यक्तियों ने भगवान् महावीर के सिद्धान्त को मलिन कर दिया था। उस मलिन सिद्धान्त को भिक्षुस्वामी ने विशुद्ध कर दिया। उनसे विशुद्ध किया गया सम्प्रदाय जैन समाज में तेरापन्थ के नाम से आज अति प्रसिद्ध है। तेरापन्थस्थापनाकालः कः? इति सूचयति5. द्वीपा'त्म'-सिद्धि शशि'-संवति वैक्रमीये, येनादृता जिनमतानुगता सुदीक्षा। सोऽयं स्फुटीकृतमरुस्थलवीरभूमिः, कैर्नावगम्यत इति व्रतिराजभिक्षुः ।। वैक्रमे संवति १८१७ वर्षे येन भिक्षुगणिना महाभागेन जिनमतानुगता-जिनमतानुसारिणी दीक्षा आदृता-गृहीता, तत एव प्रसृतस्तेरापन्थधर्मसंघ इति भावः। सोऽयं व्रतिनां राजा वतिराजश्चासौ भिक्षुर्यः खलु स्फुटी Page #233 -------------------------------------------------------------------------- ________________ २०० भिक्षुन्यायकर्णिका कृतमरुस्थलवीरभूमिरस्ति। अनेन महानुभावेन स्वकीयवैशिष्ट्यद्वारा मरुस्थलीया वीरभूमिः स्फुटीकृता-परां प्रसिद्धिं गमितेति भावः । एतादृशो महापुरुषः कैर्नावगम्यते? कैरविदितोऽस्ति? न केनापीति तात्पर्यम्। विक्रम संवत् १८१७ में व्रतियों में श्रेष्ठ तथा मरुस्थल की वीरभूमि की श्रेष्ठता के संवाहक भिक्षु स्वामी ने जिनमतानुसारिणी दीक्षा ली। उन आचार्य भिक्षु को कौन नहीं जानता है। सम्प्रति तेरापन्थस्याचार्यपरम्परां निरूपयति 6. भारमलो विमलोऽस्य पदे, तदनु च रायेन्दुर्मुमुदे। जीतमलस्तूर्यो जज्ञे, तत्तुलना स्यात् सर्वज्ञे॥ अस्य भिक्षुस्वामिनोऽनन्तरं तस्य स्थाने विगतमलो निर्मलो भारमलो मुनिः प्रतिष्ठितः। तदनन्तरं तत्स्थानं रायचन्द्रो मुनिः समलंचकार । तूर्य: चतुर्थ आचार्य मुनिर्जीतमलजी जातः । ज्ञानगरिम्णा तपश्चर्यया च स सर्वज्ञसमः आसीत्। भिक्षुस्वामी के बाद निष्कल्मष मुनि भारमल उनके स्थान पर आचार्य बने। उसके बाद मुनि रायचन्द्र जी आचार्य पदासीन हुए। मुनि जीतमल चौथे आचार्य हुए। ज्ञानगाम्भीर्य तथा तपोनिष्ठा के आधार पर इनकी तुलना सर्वज्ञ से की जाती है। आचार्यपरम्परामेव सूचयति Page #234 -------------------------------------------------------------------------- ________________ प्रशस्तिश्लोकाः २०१ 7. अथ पञ्चममघराजगणी, जिनदर्शनमुकुटाग्रमणिः। माणिकलालडालचन्द्रौ, गणसंरक्षणनिस्तद्रौ॥ जीतमलमुनेरनन्तरं जिनदर्शनस्य मुकुटमणिरिव मघराजगणी तेरापंथधर्मसंघस्य पञ्चमाचार्य: सम्पन्नः । तदनु गणसंरक्षणनिस्तन्द्रौ गणपरम्परां मर्यादां च रक्षितुं बद्धपरिकरौ माणिकलालडालचन्द्रौ मुनिवरा आचार्यों बभूवतुः। ___ मुनि जीतमल जी के बाद जिनदर्शन के मुकुटमणि की भांति मघराजगणी पंचम आचार्य हुए। इनके बाद गण की मर्यादा की रक्षा के लिए कटिबद्ध मुनि माणिकलाल और मुनि डालचन्द्र छठे और सातवें आचार्य हुए। अथाष्टमाचार्यं परिचाययति- " 8. छौगेयोऽष्टमपट्टपतिः, कालुः करुणाब्धिः सुकृतिः। यदनुग्रहतोऽस्मादृगिति, ग्रन्थग्रथने प्रथितमतिः॥ छोगाया अपत्यं छोगेयः कालुगणी अष्टम आचार्य: सम्पन्नः । सुकृतिरयं महाभागः करुणासागर इवावतिष्ठत यस्यानुग्रहत: कृपाप्रसादतो मादृशोऽपि जनो ग्रन्थग्रथने ग्रन्थनिर्माणे प्रथितमतिरजायत। छौगेय (छोगा के पुत्र) कालुगणी इस सम्प्रदाय के आठवें आचार्य हुए। आचार्य तुलसी कहते हैं कि आचार्य कालुगणी करुणा के सागर थे, वे सुकृति पुरुष थे। उनके अनुग्रह से ही मेरे जैसा व्यक्ति ग्रन्थ निर्माण हेतु प्रथितमति-मतिमान् हो सका। Page #235 -------------------------------------------------------------------------- ________________ २०२ भिक्षुन्यायकर्णिका इदानी भिक्षुन्यायकर्णिकां परिचाययति सन्दृब्धवांस्तस्य पदाम्बुजानुगः, प्रमोदपीनस्तुलसी मुनीशिता। भिक्ष्वाख्यया न्यायपदाद्यकर्णिकां, सोपानवीथीमिव शास्त्रसद्मनि॥ तस्य पदाम्बुजानुगः मुनीशिता प्रमोदपीन: तुलसी शास्त्रसद्मनि सोपानवीथीमिव भिक्ष्वाख्यया न्यायपदाद्यकर्णिकां संदृब्धवान् । इत्यन्वयः। तस्य-कालुगणिनः पदौ अम्बुजाविव पदाम्बुजौ तौ अनु गच्छ तीति पदाम्बुजानुगः- पदकमलमा श्रीयमाणः मुनीनाम् तेरापन्थानुगामिनाम्-ईशिता स्वामी गणाधिपः प्रमोदेन पीन: आनन्दयुतः आचार्यस्तुलसी तेरापन्थसंस्थापकस्य आचार्य भिक्षो: नाम आदौ कृत्वा, न्यायपदम् आद्यं यस्या सा कर्णिका तां भिक्षुन्यायकर्णिकाम् शास्त्रमेव सद्म तस्मिन् प्रवेशाय सोपानवीथीमिव= सोपानपंक्तिमिवसंदृब्धवान् रचितवान्। आचार्य कालुगणी के पदाम्बुज का अनुसरण करने वाले तेरापन्थ धर्मसंघ के आचार्य तुलसी ने सोपानवीथी की भांति इस पुस्तक की रचना की। इदं पुस्तकं कदा पूर्णतामगादिति सूचयति श्लोकद्वयेन Page #236 -------------------------------------------------------------------------- ________________ प्रशस्तिश्लोकाः २०३ 10. नेत्र2 व्योम0 व्योम0 नेत्रा2 ञ्चितेऽब्दे, भाद्रे मासे शुक्लपक्षे नवम्याम्। सूर्ये वारे सोत्सवे भव्यवारे, प्रातःकाले श्राद्धसंसद्विचाले॥ 11. थलीति धार्मिके देशे, श्रीडूंगरगढ़े पुरे। समाप्तेयं सदा कुर्याद्, भद्रं भिक्षुगणे भृशम्॥ २००२ वैक्रमे वर्षे भाद्रपदमासे शुक्लपक्षे नवम्यां तिथौ-उत्सवेन सहितः सोत्सवस्तस्मिन् सोत्सवे भव्ये प्रशस्ते वारे सूर्यवारे, प्रातः काले थलीति नाम्ना धार्मिकदेशे श्रीडूंगरगढ़नगरे श्राद्धसंसद्विचाले श्राद्धानां श्रद्धालूनाम् श्रद्धालुरास्तिक: श्राद्धः इति हैम: या संसद् तस्या विचाले-मध्ये श्रद्धालुजनसंदोहे इत्यर्थः इयं कृतिःभिक्षुन्यायकर्णिका नाम्नी कृति: पूर्णतामविन्दत् । सा चेयं कृति: भिक्षुगणे भृशं पर्याप्तमधिकं भद्रं सदा कुर्यात्। विक्रम संवत् २००२ भाद्रपदमास शुक्लपक्ष की नवमी तिथि प्रशस्त रविवार के दिन डूंगरगढ़ नामक थली स्थल के श्रद्धालु जनसन्दोह के बीच भिक्षुन्यायकर्णिका नामवाली यह आचार्य तुलसी की कृति पूर्ण हुई। यह कृति आचार्य भिक्षु के गण के लिए कल्याणकारिणी बने। इति विश्वनाथमिश्रकृता प्रशस्तिश्लोकव्याख्या। Page #237 -------------------------------------------------------------------------- ________________ परिशिष्ट विधिहेतव : भावेन विधिहेतवः (अविरुद्धोपलब्धेः साधनानि) स्वभावादयोऽत्र ग्रन्थे सन्ति निर्दिष्टाः। भावेन विधिहेतौ अविरुद्धस्य व्यापकस्योपलब्धिः साधनं न हि भवति। अस्त्यत्र वृक्षत्वं निम्बादिति, अस्त्यत्र निम्बत्वं वृक्षादिति न निर्णायकता, वृक्षत्वेन निम्बवदाम्रस्यापि ग्रहणात्। भाव से विधिहेतु-(अविरुद्धोपलब्धि के साधन)। स्वभाव आदि हेतु मूलग्रन्थ में ही निर्दिष्ट हैं। भाव से विधि-हेतु में अविरुद्ध व्यापक की उपलब्धि साधन या हेतु नहीं बन सकती। यहां वृक्षत्व है क्योंकि नीम है इस वाक्य में जो निर्णायकता है वह यहां नीम है, क्योंकि वृक्ष है इस वाक्य में नहीं है। क्योंकि वृक्षत्व के द्वारा नीम की तरह आम का भी ग्रहण हो सकता है। न्या. प्र. - अस्यायंभावः – साध्यं व्यापकं भवति । साधनञ्च व्याप्यमिति स्थितिः। अल्पदेशवृत्तिना साधनेन Page #238 -------------------------------------------------------------------------- ________________ परिशिष्ट २०५ साध्यमनुमीयते। स्वकीयेन भावेन पदार्थान्तरस्य भावं साधयन्तो हेतवो भावेन विधिहेतव इति शब्देन कथ्यन्ते। स्वभावादयो हेतवोऽस्मिन् ग्रन्थे तृतीयविभागे कथिताः सन्ति। तत्र यो हेतुर्भावेन विधिहेतुर्भवति तत्र अविरुद्धस्य व्यापकस्योपलब्धिः साधनं नैव भवति। तात्पर्यमिदं यत् यद् व्यापकं भावात्मकस्य साधनस्याविरोधि भवति तद् व्यापकं तदीयव्याप्यस्य- भावात्मकव्याप्यस्य साधनं ज्ञापकं नैव भवति । यदि ज्ञापयति तादृशं साधनं तदा तदीया व्यापकतैव भज्यते। अत इदमेवात्र स्वीकरणीयं यत् अविरुद्धस्य व्यापकस्योपलब्धिः भावेन विधिहेतौ साधनं नैव भवति। यथा - अस्त्यत्र वृक्षत्वं निम्बात् इत्यत्र वृक्षत्वसाधके निम्बत्वहेतौ साध्ये वृक्षत्वं हेतुः नैव भवति अस्त्यत्र निम्बत्वं वृक्षादित्येवं रूपेण । यतोहि अत्र वृक्षत्वं निम्बत्वस्य निर्णायको नैव भवितुमर्हति। कारणं चास्य इदमेवास्ति यदत्र वृक्षत्वेन निम्बवदाम्रस्यापि ग्रहणं कर्तुं शक्यत एव। एवञ्च निम्बाभावेऽपि साधनस्य वृक्षत्वस्यास्तित्वं सुरक्षितमेवेति कथं भवितुमर्हति अत्र साध्या भावे साधनाभावरूपा व्यतिरेकव्याप्तिः । तस्मान भवितुमर्हति अविरुद्धव्यापकोपलब्धिः साधनं भावेन विधिहेतुसाधने। 2. अभावेन विधिहेतवः (विरुद्धानुपलब्धेः साधनानि) (क) स्वभावानुपलब्धिरुदाहृता। (ख) विरोधिकारणानुपलब्धि:- विद्यतेऽत्र समाजेऽज्ञानम्, Page #239 -------------------------------------------------------------------------- ________________ २०६ भिक्षुन्यायकर्णिका शिक्षाभावात् । अत्र विधेयमज्ञानम्, तद्विरुद्धं ज्ञानं, तस्य कारणं शिक्षा, तस्या अभावात्। (ग) विरोधिकार्यानुपलब्धिः- अस्वास्थ्यमस्मिन् मनुष्ये समस्ति, मांसलताऽनालोकनात्। अत्र विधेयमस्वास्थ्यम्, तद्धिरुद्धं स्वास्थ्यम्, तस्य कार्यं मांसलता, तस्या अनुपलब्धिः । (घ) विरोधिव्याप्यानुपलब्धिः- अस्त्यत्र छाया, औष्ण याऽनुपलब्धेः। अत्र विधेया छाया तद्विरुद्धस्ताप:, तद्व्याप्यस्यौष्णस्याऽनुपलब्धिः।। अभाव से विधिहेतु (विरुद्ध की अनुपलब्धि के साधन)(क) स्वभावानुपलब्धि का उदाहरण मूलग्रन्थ में है। (ख) विरोधी कारणानुपलब्धि-इस समाज में अज्ञान है, क्योंकि शिक्षा का अभाव है। यहां विधेय है अज्ञान, इसका विरोधी है ज्ञान, ज्ञान का कारण है शिक्षा, उसका यहां अभाव है। (ग) विरोधी कार्यानुपलब्धि-यह मनुष्य अस्वस्थ है, क्योंकि इसमें मांसलता का अभाव है। यहां विधेय है अस्वास्थ्य, इसका विरोधी तत्त्व है स्वास्थ्य । स्वास्थ्य का कार्य है मांसलता, उसका यहां अभाव है। (घ) विरोधी व्याप्यानुपलब्धि-यहां छाया है, क्योंकि उष्णता का अभाव है। यहां विधेय है छाया, इसका Page #240 -------------------------------------------------------------------------- ________________ परिशिष्ट २०७ विरोधी है ताप । ताप में व्याप्त उष्णता का यहां अभाव है । न्या. प्र. - (ख) विरोधिकारणानुपलब्धिः - अस्ति कश्चन एतादृशो हेतुर्य: स्वकीयेन अभावेन कस्यापि वस्तुनः भावम् अस्तित्वं साधयति । तत्र विरोधिकारण-स्योपलब्धिर्नैव भवति । यत्र स्वकीयेन अभावेन कस्यापि अस्तित्वं साध्यते तत्र साधनविरुद्धस्योपलब्धिर्नैव भवति । यथा- अत्र समाजे, अज्ञानं वर्तते, शिक्षाभावात् । अत्र समाजः पक्षः, तत्र अज्ञानं साध्यम् अस्ति, हे तुरस्ति- शिक्षाभावात् । अत्र हेतुरभावात्मकोऽस्ति । = अत्र साध्यस्य ( विधेयस्य) विरोधी अस्ति ज्ञानम्, ज्ञानस्य कारणमस्ति शिक्षा, तस्या अत्र अभावो वर्तते । एवञ्च शिक्षाभावरूपः अभावात्मको हेतुः समाजविशेषे अज्ञानस्यास्तित्वं साधयति । अत एवायं हेतुः अज्ञानस्यास्तित्वसाधनात् विधिहेतुः । अत्र शिक्षा -- भावात् इति हेतु: साध्यविरुद्धस्य ज्ञानस्यानुपलब्धेरपि साधनमस्ति । यतो नास्त्यत्र शिक्षा इति अज्ञानविरुद्धस्य ज्ञानस्य अनुपलब्धिरपिसाध्यतेऽनेन हेतुना । विरुद्धकारणानुपलब्धिरत्र । (ग) विरोधिकार्यानुपलधि : - अस्वास्थ्यमस्मिन् मनुष्ये समस्ति मांसलतानालोकनात् । अत्र विधेयम् अस्वा Page #241 -------------------------------------------------------------------------- ________________ २०८ भिक्षुन्यायकर्णिका स्थ्यम्, तविरुद्धं स्वास्थ्यम्, तस्य कार्यम् मांसलता, तस्या अत्र अभावो वर्तते। तस्मात् साध्यविरुद्धस्य (विधेयविरुद्धस्य) स्वास्थ्यस्य कार्य-मांसलता, तस्या अभावसाधनात् हेतुरयं विरोधिकार्यानुपलब्धि रितिपदेनाप्युच्यते। (घ) विरोधिव्याप्यानुपलब्धिः अस्यायं भावः – कश्चन हेतुरेतादृशो भवति यो विधेय-विरोधिनो व्याप्यस्यानुपलब्धिरूपात्मकः भवति । यथोपर्युक्तोदाहरणे छाया विधेया वर्तते, तस्या विरोधी अस्ति तापः तद् व्याप्यमस्ति औष्ण्यम्, तस्यात्राभावो वर्तत इति साध्यविरोधितापव्याप्यस्यौष्ण्यस्यानुपलब्धिरत्रेति विरोधिव्याप्यानुपलब्धि: स्पष्टा। प्रतिषेधहेतव : 3. भावेन प्रतिषेधहेतवः (विरुद्धोपलब्धेः साधनानि) (क) स्वभावोपलब्धिरुदाहृता। (ख) विरोधिव्याप्योपलब्धिः, यथा-नास्त्यस्यं पुंसस्तत्त्वेषु निश्चयः, तत्र सन्देहात्। (ग) विरोधिकार्योपलब्धिः, यथा-न विद्यतेऽस्य . क्रोधाद्युपशांतिः वदनविकारादेः दर्शनात्।। (घ) विरोधिकारणोपलब्धिः , यथा-नास्य महर्षेरसत्यं, वच: समस्ति, Page #242 -------------------------------------------------------------------------- ________________ परिशिष्ट २०९ रागद्वेषकालुष्याऽकलङ्कितज्ञानसम्पन्नत्वात् । (ङ) विरोधिपूर्वचरोपलब्धिः, यथा-नोद्गमिष्यति ___ मुहूर्तान्ते पुष्यतारा, रोहिण्युद्गमात्। (च) विरोध्युत्तरचरोपलब्धिः, यथा-नोदगान् मुहूर्तात्पूर्वं मृगशिरः पूर्वाफाल्गुन्युदयात्। (छ) विरोधिसहचरोपलब्धिः, यथा-नास्त्यस्य मिथ्याज्ञानम्, सम्यग्दर्शनात्। प्रतिषेधहेतु : (3) भाव से प्रतिषेधहेतु (विरुद्ध उपलब्धि के साधन) (क) स्वभाव की उपलब्धि-मूलग्रन्थ में उदाहृत है। (ख) विरोधीव्याप्य की उपलब्धि-इस पुरुष का तत्त्व में निश्चय नहीं है, क्योंकि उसमें उसे संदेह है। (ग) विरोधीकार्य की उपलब्धि-इस पुरुष के क्रोध आदि उपशान्त नहीं हैं, क्योंकि इसके मुंह पर क्रोध के लक्षण दिखाई देते हैं। (घ) विरोधीकारण की उपलब्धि-इस महर्षि का वचन असत्य नहीं है, क्योंकि यह राग-द्वेष की कलुषता से अकलंकित ज्ञान से सम्पन्न है।। (ङ) विरोधीपूर्वचर की उपलब्धि-मुहूर्त के बाद पुष्यतारा का उदय नहीं होगा, क्योंकि रोहिणी नक्षत्र का उदय हो चुका है। Page #243 -------------------------------------------------------------------------- ________________ २१० भिक्षुन्यायकर्णिका (च) विरोधीउत्तरचर की उपलब्धि - मुहूर्त्त पहले मृगशिरा नक्षत्र का उदय नहीं हुआ था, क्योंकि पूर्वाफाल्गुनी नक्षत्र का उदय हो चुका है I (छ) विरोधी सहचरोपलब्धि - इसका ज्ञान मिथ्या नहीं है, क्योंकि इसके पास सम्यग्दर्शन है । न्या. प्र. - प्रतिषेध्येनार्थेन सह ये साक्षाद्विरुद्धास्तेषां ये व्याप्तादयः षड्भेदा भवन्ति तेषामुदाहरणान्यत्र प्रस्तूयन्ते । ते च भेदाः सन्तीमे विरुद्धव्याप्योपलब्धिः, विरुद्धकार्योपलब्धि:, विरुद्धकारणोपलब्धि:, विरुद्धपूर्व चरोपलब्धिः विरुद्धोत्तरचरोपलब्धिः विरुद्धसहचरोपलब्धिश्च । (क) स्वभावोपलब्धिरुदाहृता । (ख) विरोधिव्याप्योपलब्धि: नास्त्यस्य पुंसस्तत्त्वेषु निश्चयः तत्र सन्देहात् अत्र तत्त्वेषु निश्चयः प्रतिषेध्यो वर्तते । तेन साक्षात् विरुद्धः अनिश्चयः, तस्य व्याप्यः सन्देहः । सन्देहो अनिश्चयस्य व्याप्यो भवति, यत्र यत्र सन्देहः तत्र तत्रानिश्चय इति व्याप्तिः । सन्देहात्मके व्याप्ये सति तस्य व्यापकेन अनिश्चयेन तत्र भाव्यमेव । अयम् अनिश्चयो निश्चयाद् विरुद्धोऽस्ति । अस्यानिश्चयस्य साधनम् अस्ति सन्देह इति । अयं संन्देह : स्वकीयभावेन = अस्तित्वेन निश्चयविरोधिनोऽनिश्चयस्योपलब्धेः साधनं भवतीति स्पष्टोऽर्थः । Page #244 -------------------------------------------------------------------------- ________________ परिशिष्ट २११ (ग) विरोधिकार्योपलब्धिः यत्र किमपि निषिध्यते तत्र तद्विरोधिन: कार्यस्य यदि भवति उपलब्धिस्तदा तत्र प्रोच्यते विरोधिकार्योपलब्धिरत्र वर्तत इति । यथा न वर्ततेऽस्य क्रोधाद्युपशान्तिः, वदनविकारादेः दर्शनात । अत्र क्रोधाद्युपशान्तिः प्रतिषेध्या तद् विरुद्धः अस्ति अनुपशमः तस्य कार्यमस्ति वदनस्य ताम्रत्वम्, अस्य उपलब्धिरत्र भवतीति प्रतिषेध्यविरोधिनोऽनुपशमस्य यत् कार्यं वदनविकारः तस्योपलब्धिरत्रेति विरुद्धकार्योपलब्धिरत्र । अत्रापि प्रस्तुतेन हेतुना प्रतिषेध्य विरोधिनोऽनुपशमस्य यत् कार्यं वदनविकारात्मकं तस्य उपलब्धिरत्र भवत्येव । — (घ) विरोधिकारणोपलब्धिः यत्र किमपि प्रतिषिध्यते तत्र तद्विरोधिनः कारणस्य यदि उपलब्धिर्भवति तदा वक्तुं शक्यते यदत्र प्रतिषेध्यविरुद्धस्य यत् कारणं तस्य उपलब्धिर्भवति । यथा नास्य महर्षेरसत्यं वचः, रागद्वेषकालुष्यै र कलङ्क तस्य ज्ञानस्य अत्र उपलब्धेर्जायमानत्वात् । अत्र प्रतिषेध्यम् असत्यं वचः, तद् विरुद्धः सत्यं वचः, तस्य कारणं रागद्वेषकालुष्यैः अकलंकितं ज्ञानं तस्योपलब्धिरत्र भवतीति प्रतिषेध्यस्य असत्यवचसो विरोधिनः सत्यवचसः कारणं रागद्वेषादिभिरकलंकितं ज्ञानमिति विरोधिकारणोपलब्धिरत्र सम्यक्तया जायत एव । Page #245 -------------------------------------------------------------------------- ________________ २१२ भिक्षुन्यायकर्णिका (ङ) विरोधिपूर्व चरोपलब्धि: - यत्र किमपि वस्तु प्रतिषिध्यते तत्र तद्विरुद्धस्य यदि उपलब्धिर्भवति तदा वक्तुं शक्यत एव यदत्र विरोधिपूर्वचरोपलब्धिरिति । यथा नोद्गमिष्यति मुहूर्तान्ते पुष्यतारा रोहिण्युद्गमात् । अत्र भविष्यत् पुष्यतारोदयः प्रतिषेध्यः अस्ति, तद्विरुद्ध: मृगशीर्षोदय:, तस्य पूर्वचर: रोहिण्युदयः, तस्योपलब्धिरत्र वर्तत इति विरुद्धपूर्वचरोपलब्धिः । (च) विरोध्युत्तरचरोपलब्धि: - यत्र किमपि वस्तु तत्त्वं वा प्रतिषिध्यते तत्र यदि तद्विरुद्धः उत्तरचरः उदेति तदा तत्र विरोध्युत्तरचरोपलब्धिरिति कथ्यते । यथा - नोद्गात् मुहूर्त्तात् पूर्वं मृगशिरः पूर्वाफाल्गुन्युदयात् अत्र प्रतिषेध्यः मृगशीर्षोदयः, तद् विरुद्धः उत्तरचरश्च पूर्वफाल्गुन्युदयः, तस्योपलब्धिर्भवतीति हेतुरयं प्रतिषेध्यविरोधी उत्तरचरश्चेति भवति समन्वयः । (छ) विरोधिसह चरोपलब्धि :- यत्र किमपि तथ्यं विरुध्यते निषिध्यते वा तत्र तद् विरोधिनः सहचरस्योपलब्धिर्भवति चेत् तदा तत्र विरुद्धसहचरोपलब्धिरिति वक्तुं शक्यते । यथा - " नास्त्यस्य मिथ्याज्ञानम् सम्यग्दर्शनात्' अत्र मिथ्याज्ञानं निषिध्यते । तद्विरोधि अस्ति सम्यग्ज्ञानम् तस्य सहचरोऽस्ति सम्यक्दर्शनम्तस्य अत्र उपलब्धिर्भवतीति विरोधिसहचरोपलब्धिरत्र स्पष्टैव । 11 Page #246 -------------------------------------------------------------------------- ________________ परिशिष्ट २१३ 4. अभावेन प्रतिषेधहेतवः (अविरुद्धानुपलब्धेः साधनानि) (क) स्वभावानुपलब्धिरुदाहृता। (ख) व्यापकानुपलब्धिः, यथा-नास्त्यत्र प्रदेशे पनसः, पादपानुपलब्धेः। (ग) कार्यानुपलब्धिः, यथा नास्त्यताप्रतिहतशक्तिकं बीजम् अंकुराऽनवलोकनात्।। (घ) कारणानुपलब्धिः , यथा-न सन्त्यस्य प्रशमप्रभृतयो भावाः, तत्त्वार्थश्रद्धानाभावात्। (ङ) पूर्वचरानुपलब्धिः, यथा-नोद्गमिष्यति मुहूर्तान्ते स्वातिनक्षत्रम्, चित्रोदयादर्शनात्। (च) उत्तरचरानुपलब्धिः , यथा-नोदगमत् पूर्वभाद्रपदा, मुहूर्तात् पूर्वमुत्तरभाद्रपदोद्गमानवगमात् । (छ) सहचरानुपलब्धिः, यथा-नास्त्यस्य सम्यग्ज्ञानम्, सम्यग्दर्शनानुपलब्धेः। (प्रमाणनयतत्त्वालोकालङ्कारः३।८५-१०२) .. अभाव से प्रतिषेधहेतु (अविरुद्ध की अनुपलब्धि के साधन) (क) स्वभाव की अनुपलब्धि मूलग्रन्थ में उदाहृत है। (ख) व्यापक की अनुपलब्धि-इस प्रदेश में कटहल नहीं है, क्योंकि यहां कोई वृक्ष उपलब्ध ही नहीं है। (ग) कार्य की अनुपलब्धि-यह बीज अप्रतिहतशक्ति वाला नहीं है, क्योंकि अंकुर नहीं फूटा है। Page #247 -------------------------------------------------------------------------- ________________ २१४ भिक्षुन्यायकर्णिका (घ) कारण की अनुपलब्धि-इस व्यक्ति के प्रशम (संवेग, निर्वेद, अनुकम्पा, आस्तिक्य) आदि भाव उपलब्ध नहीं हैं, क्योंकि तत्त्वार्थ-श्रद्धा (सम्यग्दर्शन) का अभाव है। (ङ) पूर्वचर की अनुपलब्धि-मुहूर्त के बाद स्वातिनक्षत्र का उदय नहीं होगा, क्योंकि अभी तक चित्रा का उदय नहीं हुआ है। (च) उत्तरचर की अनुपलब्धि-मुहूर्त पहले पूर्वभाद्रपदा नक्षत्र का उदय नहीं हुआ था क्योंकि अभी तक उत्तर भाद्रपदा का उदय नहीं हुआ है। सहचर की अनुपलब्धि-इसका ज्ञान सम्यक् नहीं है, क्योंकि सम्यग्दर्शन की अनुपलब्धि है। न्या. प्र.- स्वकीयेन नास्तित्वेन वस्तुनो नास्तित्वं ये साधयन्ति ते हेतवः अभावात्मका: प्रतिषेधसाधकहेतवः कथ्यन्ते। ते च सप्त प्रकारका भवन्ति। तेषां नामानि सन्तीमानि- स्वभावानुपलब्धि, व्यापकानुपलब्धिः, कार्यानुपलब्धिः, कारणानुपलब्धिः, पूर्वचरानुपलब्धिः , उत्तरचरानुपलब्धिः , सहचरानुपल ब्धिश्च। (क) स्वभावानुपलब्धि- नात्र पुस्तकं दृश्यानुपलब्धेः अत्र दृश्यवस्तुनोऽभावेन पुस्तकस्याभावः साधितः । अत्र दृश्यानुपलब्धिरिति हेतुः अभावात्मकोऽस्ति। अयं हेतुः स्वकीयेन नास्तित्वेन पुस्तकस्य नास्तित्वं Page #248 -------------------------------------------------------------------------- ________________ परिशिष्ट २१५ साधयति। अत्र पुस्तकाभावः साध्योऽस्ति। उपलब्धिः ज्ञानं, तस्याभावोऽनुपलब्धिरज्ञानं अर्थात् ज्ञानविषयत्वाभावः। स च ज्ञानविषयत्वाभावः पुस्तकस्य, दृश्यानुपलब्धेरिति हेतुना साध्यते। यतो दृश्यानुपलब्धिस्तत एव पुस्तकाभावः। (ख) व्यापकानुपलब्धि:- नास्त्यत्र प्रदेशे पनसः, पादपानुप-लब्धेः अत्र पनसत्वं निषेधितव्यमस्ति। तद् व्यापकमस्ति पादपत्वम् । तस्यानुपलब्धिरिति व्यापकानुपलब्धिः। व्यापकाभावे व्याप्याभाव: सुतराम्। (ग) कार्यानुपलब्धि:- कारणाभावे कार्याभावः सुतराम्। नास्त्यत्राप्रतिहतशक्तिकं बीजम् अङ्करानवलोकनात् । अत्र प्रतिषेध्यम् अप्रतिहतशक्तिकं बीजं, तत्कार्यम् अङ्करं तस्य अनुपलब्धिरिति कार्यानुपलब्धिः स्पष्टा । सशक्तिकबीजाभावे अङ्कराभावः निश्चित एवास्ते। (घ) कारणानुपलब्धि:- न सन्त्यस्य प्रशमप्रभृतयो भावाः तत्त्वार्थश्रद्धानाभावात्। अत्र प्रतिषेध्यं प्रशमप्रभृतयोभावाः प्रशमसंवेग निर्वेदानुकम्पाऽऽस्तिक्यस्वरूपात्मपरिणामविशेषाः, तत् कारणमस्ति तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तस्यानुपलब्धिरिति कारणानुपलब्धिः। एवमेव नास्त्यत्र धूमो वन्यभावादित्यपि उदाहरणं भवितुर्महति। Page #249 -------------------------------------------------------------------------- ________________ २१६ भिक्षुन्यायकर्णिका (च) (छ) (ङ) पूर्वचरानुपलब्धि:- नोद्गमिष्यति मुहूर्तान्ते स्वाति नक्षत्रम् चित्रोदयादर्शनात्। अत्र प्रतिषेध्यः स्वातिनक्षत्रोदयः, तत्पूर्वचर: चित्रोदयस्तस्यानुपलब्धिरिति पूर्वचरानुपलब्धिः। उत्तरचरानुपलब्धि:- नोद्गमत् पूर्वभाद्रपदा, मुहूर्तात् पूर्वम् उत्तरभाद्रपदोद्गमानवगमात् । अत्र प्रतिषेध्यः पूर्वभाद्रपदोदयः, तदुत्तरचरः उत्तरभाद्रपदोदयः, तस्यानुपलब्धिरित्युत्तरचरानुपलब्धिः। सहचरानुपलब्धिः- यथा नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धेः । अत्र प्रतिषेध्यं सम्यग्ज्ञानं तत् सह चरः सम्यग् दर्शनं तस्य अनुपलब्धे : सहचरानुपलब्धिः स्पष्टा। इदानीं यावत् सहभावक्रमभावस्वभावहेतवः कस्यापि वस्तुनोभावं साधयन्तो भावहेतवः अभावञ्चसाधयन्तो निषेधहेतवो भवन्तीति प्रतिपादितम् । इदमप्यत्र बोध्यं यत् भावात्मका हेतवो यथा विधिसाधका भवन्ति, तथैव निषेधसाधका अपि भवन्ति। एवम् अभावात्मका हेतवोऽपि विधिसाधकाः प्रतिषेधसाधकाश्च भवन्ति । एतेषामुदाहरणानि पुस्तके सन्त्युल्लिखितानि । सम्प्रति हेत्वाभासोपरिविचारमारभमाणो ग्रन्थकारस्तृतीयविभागस्य षोडशसूत्रे असिद्धविरुद्धा-नैकान्तिकानां त्रयाणां हेत्वाभासानां नामग्राहमुल्लेखं कृतवान् । Page #250 -------------------------------------------------------------------------- ________________ परिशिष्ट २१७ परिशिष्टस्य 101 पृष्ठे नैयायिकानां कालात्यापदिष्टप्रकरणसमौ विशिष्टौ स्तः इत्यपि लिखितवानस्ति। तत्र प्रथमन्तावदेषामुपरि विचारकरणात् पूर्वमिदं विचारपथमानीयते यत् कोऽयं हेत्वाभास इति। तत्र हेत्वाभासशब्दस्य व्युत्पत्तिद्वयं भवति। हे तुवद् आभासन्ते इति हेत्वांभासाः इति प्रथमा व्युत्पत्तिः। अस्येदं तात्पर्य यत् अहेतुत्वेऽपि हेतुवत् ये आभासन्ते प्रतीयन्ते ते हेत्वाभासाः। द्वितीया व्युत्पत्तिरित्थम् हेतोराभासाः दोषा एव हेत्वाभासाः। अत्र प्रथमव्युत्पत्त्या दोषयुक्ता दुष्टहेतव एव हेत्वाभासपदेन बोद्ध शक्यन्ते, किन्तु द्वितीयव्युत्पत्त्या तु आभासपदस्य दोषपरत्वं स्वीकृत्य हेतोर्दोषा एव हेत्वाभासपदेन बोध्यन्ते । यदा हेतूनां दोषा: परिज्ञाता भवन्ति तदा तैर्दोषैर्युक्ता हेतवो हेत्वाभासपदेन व्यवहर्तुं योग्या एवेति न संशयः। उपर्युक्त विवेचनेन सिद्धमिदं भवति यत् दोषयुक्ता हेतव एव हेत्वाभासपदेन कथ्यन्ते। न्यायदर्शनानुसारं व्यभिचारविरोधसत्प्रतिपक्षासिद्धबाधाः पञ्च दोषा भवन्ति। एभिः पञ्चभिर्दोषैर्युक्ताः पञ्च दुष्टहेतवो हेत्वाभासाः भवन्ति । एषां लक्षणोदाहरणानि च इत्थम्। सव्यभिचार:-अस्य नामान्तरमस्ति - अनैकान्तिकः। अस्य त्रयो भेदाः भवन्ति। साधारणानैकान्तिकः असाधारणानैकान्तिकः, अनुपसंहारी चेति। तत्र Page #251 -------------------------------------------------------------------------- ________________ २१८ भिक्षुन्यायकर्णिका (क) साधारणानैकान्तिकः - साध्याभाववद्वृत्तिर्भवति । अर्थात् साध्याभावाधिकरणे यो हेतुस्तिष्ठति स साधारणानैकान्तिकः । यथा- पर्वतो वह्निमान् प्रमेयत्वात् । इदमत्र बोध्यं यत् साध्यं व्यापकमर्थात् अधिकदेशवृत्ति भवति । हेतुश्च साधक: अल्पदेशवृत्तिः भवति । यदि हेतुः साध्याभावाधिकरणे तिष्ठेत् तदा व्यापकस्य साध्यस्य व्यापकत्वमेव भज्येत। " पर्वतो वह्निमान् प्रमेयत्वात्” अत्र प्रमेयत्वं हेतुः वह्नेरभावस्थले सर्वत्रैव वर्तत इति साध्याभावाधिकरणवृत्तित्वात् हेतुरयं साधरणानैकान्तिकः । (ख) असाधारणानैकान्तिकः – सर्वसपक्षविपक्षव्यावृत्तिः पक्षमात्रवृत्ति: असाधारणः । यो हेतुः निश्चितसाध्यवति सपक्षे तथा निश्चितसाध्याभाववति विपक्षे न तिष्ठेत् किन्तु केवलं पक्षमात्रवृत्तिरेव भवेत् स हेतुः असाधारणोऽनैकान्तिकः । यथा शब्दो नित्यः शब्दत्वात् । अत्र शब्दत्वादिति हेतुः सर्वेभ्यो नित्येभ्यः अनित्येभ्यश्च व्यावृत्त: पक्षशब्दमात्र वृत्तिरस्तीति असाधारणोऽनैकान्तिकोऽयम् । - ――――― (ग) अनुपसंहारी - यत्र हेतौ अन्वयव्यतिरेकदृष्टान्तौ न संभवत: स हेतुः अनुपसंहारी भवति । यथा— सर्वम् अनित्यं प्रमेयत्वात् । अत्र सर्व एव पक्षश्चेत् कुत्र दीयेत Page #252 -------------------------------------------------------------------------- ________________ परिशिष्ट 2. 3. 4 २१९ दृष्टान्त: । तस्मात् दृष्टान्ताभावात् अनुपसंहारी अयं हेत्वाभासः । विरुद्धः- साध्याभावव्याप्सो हेतुर्विरुद्धः । यो हेतुः साध्याभावस्य व्याप्यः स्यात् स एव विरुद्धः । हेतुना साध्यस्य व्याप्येन भवितव्यम् । यदि हेतु: साध्यस्य व्याप्यो न भवति किन्तु साध्याभावस्य व्याप्यो भवति स तु विरुद्ध एवेति सार्थकं तन्नाम । यथा शब्दो नित्यः कृतकत्वात् । अत्र कृतकत्वं, साध्यं नित्यत्वं तदभावोऽनित्यत्वं तेन व्याप्तमस्ति । यत्र कृतकत्वं तत्रानित्यत्वमिति नियमात् । तस्मादत्र वाक्ये कृतकत्वहेतु: साध्यविरुद्धत्वात् विरुद्धहेत्वाभासस्वरूप एव । सत्प्रतिपक्ष : : --- साध्याभावसाधकं हेत्वन्तरं यस्य स सत्प्रतिपक्ष: । यस्य हेतोः साध्याभावस्य साधकं हेत्वन्तरमुपस्थितं भवति स हेतु: प्रतिपक्षेण विरोधिना हेतुना सह वर्तत इति सत्प्रतिपक्षपदेनोच्यतेऽसौ । यथा शब्दों नित्यः श्रावणत्वात् शब्दत्ववत् इति प्रयुक्तेऽनुमानवाक्ये एतद्विरोधिवाक्यमुपतिष्ठते शब्दोऽनित्यः कार्यत्वात् घटवत्। अत्र परस्परं विरोधिनौ द्वौ हेतू स्तः । अतोऽत्र सत्प्रतिपक्षहेत्वाभासो वर्तते । - असिद्धः- आश्रयासिद्धान्यतमत्वमसिद्धत्वम् । असिद्धस्त्रिविध: Page #253 -------------------------------------------------------------------------- ________________ २२० भिक्षुन्यायकर्णिका आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्च । एतदन्यतमत्वमसिद्धत्वम् । प्रमाणनयतत्त्वालोककारस्तु यस्यान्यथानुपपत्तिः प्रमाणेन न प्रतीयते सोऽसिद्धः इत्यवोचत् । सद् हेतुः साध्यं विना अनुपपन्नो भवति। वहि विना धूमस्यानुपत्तिरस्ति अत: धूमोऽस्ति सद् हेतुः। किन्तु असिद्ध हेतोरन्यथानुपपत्तिः केनापि प्रमाणेन न प्रतीयत इति इदमेवकारणं तस्यासिद्धत्वस्य। न्यायदर्शनानुसारमयमसिद्धस्त्रिविध:-- आश्रयासिद्धः; स्वरूपासिद्धः, व्याप्यत्वासिद्धश्च। तत्र तावत् - आश्रयासिद्धः - गगनारविन्दं सुरभि अरविन्दत्वात् सरोजारविन्दवत् । अत्र सौरभस्य आश्रयः गगनारविन्दम् कथितम् किन्तु स तु भवत्येव नेति आश्रयासिद्धोऽयं हेत्वाभासः। स्वरूपासिद्धः- पक्षे हेत्वभावः स्वरूपासिद्धः। शब्दो गुणः चाक्षुषत्वात् । अत्र शब्दे चाक्षुषत्वं नास्ति शब्दस्तु श्रावणः। तस्मादत्र स्वरूपासिद्धः स्पष्ट एव। अयं स्वरूपासिद्धः चतुर्विधो भवति, तद्यथाशुद्धासिद्धः; भागासिद्धः, विशेषणासिद्धः, विशेष्यासिद्धश्च । तत्र शुद्धासिद्धस्तु उपरि उक्त एव शब्दो गुणः चाक्षुषत्वादित्यत्र । भागासिद्धस्तु - पक्षैकदेशावृत्तिरूपो भवति अर्थात् पक्षस्यैकदेशे गच्छति एकदेशे च न गच्छति । यथा - उद्भूतरूपादिचतुष्टयं गुणः रूपत्वात्। Page #254 -------------------------------------------------------------------------- ________________ परिशिष्ट अत्र रूपत्वादिति हेतुः उद्भूतरूपादिचतुष्टयस्यैकभागे रूपमात्रे एव तिष्ठति न तु रसादिषु त्रिष्वपि । अतः पक्षैकदेशवृत्तितया अयं भागासिद्धो वर्तते । विशेषणासिद्धः वायुः प्रत्यक्ष: रूपवत्वे सति स्पर्शवत्वात् । अत्र पक्षे वायौ हेतो: विशेषणं रूपवत्वमसिद्धमिति विशेषणासिद्धो ऽत्र । विशेष्यासिद्ध:वायुः प्रत्यक्षः स्पर्शवत्वे सति रूपवत्वात् । अत्र वायौ रूपवत्वं सिद्धं नास्ति । वायो:रूपरहितत्वात् । इयञ्च भेदगणना तर्कसंग्रहस्य पदकृत्यव्याख्यातो गृहीत्वोल्लिखिता । व्याप्यत्वासिद्ध :- सोपाधिको हेतुर्व्याप्यत्वासिद्धः । उपाधिना सह वर्तमानो हेतुः सोपाधिको हेतुः कथ्यते । अयमेवहेतुः व्याप्यत्वासिद्धपदेनाप्युच्यते । उपाधिश्च साध्यव्यापकत्वे सति साधनाव्यापकत्वम् । तात्पर्यमिदं यत् साध्यस्याधिकरणे यस्याभावः न भवेत् अर्थात् साध्यसमानाधिकरणस्य अत्यन्ताभावस्य यः:... प्रतियोगी न भवेत् स एव साध्यव्यापकः । एवं साधनाधिकरणवृत्त्यत्यन्ताभावस्य प्रतियोगी भवेच्चेत् साधनाव्यापकत्वं तत्र वक्तुं युज्यत एव । एवञ्च साध्यव्यापकत्वे सति साधनाव्यापकत्वरूपोपाधिना सह वर्तमानो हेतुरेव सोपाधिको हेतु: । अयमेव व्याप्यात्वासिद्धरूपो हेत्वाभासः । -- २२१ Page #255 -------------------------------------------------------------------------- ________________ २२२ भिक्षुन्यायकर्णिका 5. अस्योदाहरणमेवं बोध्यम् - पर्वतो धूमवान् वह्निमत्वात् अत्र आद्रेन्धनसंयोग एवोपाधिः। अयमार्टेन्धनसंयोगो हि साध्यस्य धूमस्य व्यापकोऽस्ति, यत्र यत्र धूमस्तत्र तत्राद्र्धनसंयोगः, इति आद्र्धनसंयोगे साध्यव्यापकत्वं सिद्धयति। एवमेव साधनस्य वह्नः अव्यापकमपि तदस्ति, अयोगोलके वढेः सत्वेऽपि तत्र आर्दैन्धनसंयोगो नास्त्येव । अनया रीत्या आर्टेन्धन संयोगरूपोपाधिना युक्तो वर्तते उपर्युक्तानुमानघटको हेतुरिति सोपाधिकोऽयं हेतु: हेत्वाभासपदेन वर्णयितुं शक्यत एव। बाधित: - यस्य साध्याभावः प्रमाणन्तरेण निश्चितः स बाधितः। यस्य हेतोः साध्याभावः प्रमाणन्तरेण प्रत्यक्षादिप्रमाणेन निश्चितः स बाधितः। बाधित साध्यकत्वात् अत्रत्यो हेतुः बाधित इत्युच्यते। यथा - वह्निः अनुष्णः द्रव्यत्वात् । अत्र अनुष्णत्वं साध्यमस्ति, तस्य अभावः उष्णत्वम्, स्पार्शनप्रत्यक्षेण गृह्यते । एवञ्चात्र प्रमाणान्तरेण स्पर्शेन प्रस्तुतसाध्यस्य अनुष्णत्वस्य बाधो निश्चित इति बाधितोऽयं हेत्वाभासः। विरुद्धहेत्वाभासे हेतुः साध्यस्य व्याप्यो न भवति, किन्तु साध्याभावस्य व्याप्योभवति। बाधिते तु साध्याभाव एव प्रमाणान्तरेण निश्चित इति तयोर्भेदः। Page #256 -------------------------------------------------------------------------- ________________ परिशिष्ट २२३ 2. नैयायिकानां कालात्ययापदिष्टप्रकरणसमौ विशिष्टौ स्तः। (क) कालात्ययापदिष्ट:-प्रत्यक्षागमविरुद्धपक्षवृत्तिः कालात्ययापदिष्टः, यथा-अनुष्णोऽग्निः कृत कत्वाद्, घटवत्। (ख) प्रकरणसमः प्रकरणपक्षे प्रतिपक्षे च तुल्य: प्रकरणसमः, यथा- अनित्यः शब्दः नित्यधर्मानुपलब्धेः, घटवत् । इत्युक्ते परः प्राह-नित्यः शब्दः, अनित्यधर्मानुपलब्धेः आकाशवत् । नैयायिक दर्शन में कालात्ययापदिष्ट और प्रकरणसम-ये दो हेत्वाभास अतिरिक्त माने गए हैं - कालात्ययापदिष्ट- जो हेतु प्रत्यक्ष और आगम से विरुद्धपक्ष में प्रयुक्त होता है वह कालत्ययापदिष्ट है, जैसे - अग्नि अनुष्ण है, क्योंकि वह कृतक है, जैसे- घड़ा। प्रकरणसम-जो हेतु प्रस्तुत पक्ष और प्रतिपक्ष में समानरूप से विद्यमान हो वह प्रकरणसम है, जैसे - शब्द अनित्य है, क्योंकि उसमें नित्य धर्म अनुपलब्ध है, जैसे-घड़ा। इस हेतु के उपस्थित किए जाने पर प्रतिवादी कहता है -शब्द नित्य है, क्योंकि उसमें अनित्य धर्म अनुपलब्ध है, जैसे - आकाश। न्या. प्र.- कालात्ययापदिष्ट : यो हेतुः प्रत्यक्ष . Page #257 -------------------------------------------------------------------------- ________________ २२४ भिक्षुन्यायकर्णिका विरुद्धम् आगम-विरुद्धं च साध्यं साधयितुं पक्षवृत्तित्वेनोपात्तः स्यात्स एव कालात्ययापदिष्टः। यथा- अग्निः अनुष्णः कृतकत्वात् घटवत्। अत्र अग्नेरनुष्णत्वं प्रत्यक्षबाधि-तमिति तं साधयितुं प्रयुक्तः कृतकत्वं हेतुः बाधित एव। प्रकरणसमः – यो हेतुः पक्षे प्रतिपक्षे च तुल्य: स्यात् स प्रकरणसमः। यथा अनित्यः शब्दः नित्यधर्मानुपलब्धेः घटवत्, इत्युक्ते परः प्रतिवादी कथयति शब्दो नित्यः अनित्यधर्मानुपलब्धेः आकाशवत् । अत्र परस्परस्य साध्याभावस्य साधकं हेत्वन्तरमुपस्थितं भवतीति किमपि साध्यं साधयितुं न शक्यते। इमौ हेत्वाभासौ न्यायदर्शने स्वीकृतौ स्तः। जैनन्याये तु अनयोः स्वीकृति स्ति। आचार्यों हेमचन्द्रः कालात्ययापदिष्टं पक्षदोषेष्वेवान्तर्भावयति। पक्षाभासास्त्रयः। ते च प्रतीतनिराकृतानभीप्सितसाध्यधर्मविशेषणात्मकाः। अयं च बाधित: कालात्ययापदिष्टः हेत्वाभासो लोकनिराकृतसाध्यधर्मविशेषणेऽन्तर्भावयितुमुपयोज्यत एव । यथा अग्निः अनुष्णः द्रव्यत्वात् अत्राग्नेरनुष्णत्वं लोकप्रतीत्यैव निराकृतमिति न पृथक गणनीयोऽयं हेत्वाभासः। प्रकरणसमः सत्प्रतिपक्षस्तु संभवत्येवनेति व्याजहार हेमचन्द्रः। शब्दोऽनित्यः, पक्षसपक्षयोरन्यतरत्वात् Page #258 -------------------------------------------------------------------------- ________________ परिशिष्ट २२५ इत्युक्ते वादिनि प्रतिवादी कथयति शब्दो नित्यः पक्षसपक्षयोरन्यतरत्वात् । एवं विधमसम्बद्धं कोऽपि अनुन्मत्तो नाभिदधाति कथमपीति विमृश्य त्रय एव हेत्वाभासाः स्वीकृता अत्र दर्शने। असिद्धहेत्वाभासं लक्षयता भिक्षुन्यायकर्णिकायां लिखितं यद् अप्रतीयमानस्वरूपोऽसिद्धः। अज्ञानात् सन्देहात् विपर्ययाद् वा यस्य हेतोः स्वरूपं न प्रतीयते सोऽसिद्धः । यथा न्यायदर्शने असिद्धस्य त्रयोभेदाः सन्ति तथैव भिक्षुन्यायकर्णिकायामपि असिद्धस्य त्रयो भेदाः सन्ति वर्णितास्तथापि उभयत्रास्ति महद् वैषम्यम् । न्यायदर्शने यत्र आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्चेति सन्ति नामानि त्रयाणामसिद्धानां तत्रैव भिक्षुन्यायकर्णिकायामेव-मुपलभ्यन्ते नामानिवादि असिद्धः प्रतिवादिअसिद्धः उ भयासिद्धश्च । एषामुदाहरणान्ति इत्थम् - . अय अयं त्रिविधो भवति, यथा - (क) वादि-असिद्धः-परिणामी आत्मा, उत्पादादिमत्त्वात्। अयं वादिनो नैयायिकस्याऽसिद्धः । तन्मत आत्मनः कूटस्थत्वस्याभिमतत्वात्। (ख) प्रतिवादि-असिद्धः-चेतनास्तरवः सर्वत्वगपहरणे मरणात्। अत्र मरणं विज्ञानेन्द्रियायुर्निरोधलक्षणं प्रतिवादिनो बौद्धस्याऽसिद्धम्। Page #259 -------------------------------------------------------------------------- ________________ २२६ भिक्षुन्यायकर्णिका 3. " (ग) उभयाऽसिद्ध:- अनित्यः शब्दः, चाक्षुषत्वात् । अयमुभयाऽसिद्धः। असिद्धहेत्वाभास तीन प्रकार का होता है(क) वादी असिद्ध- जैसे आत्मा परिणामी है, क्योंकि वह उत्पाद-व्यय धर्म से युक्त है। यह हेतुवादी नैयायिकों के लिए असिद्ध है, क्योंकि उनके अभिमत में आत्मा कूटस्थ नित्य है। (ख) प्रतिवादी असिद्ध-जैसे वृक्ष चेतनावान हैं, क्योंकि सम्पूर्ण त्वचा उतारने पर उनकी मृत्यु हो जाती है। यह हेतु प्रतिवादी बौद्धों के लिए असिद्ध है, क्योंकि उन्हें वृक्षों में विज्ञानेन्द्रिय और आयुनिरोध लक्षणवाला मरण मान्य नहीं है। (ग) उभय असिद्ध-जैसे शब्द नित्य है, क्योंकि वह चाक्षुष है। हेतुवादी और प्रतिवादी दोनों के लिए असिद्ध है। न्या. प्र.- 1. वादि-असिद्धः-आत्मा परिणामी उत्पादा दिमत्वात्। अत्र - उत्पादादिमत्वेन हेतुना आत्मनः परिणामा-- दिमत्वं साधितमस्ति। अयं सिद्धान्तो वादिनो नैयायिकस्यासिद्धोऽस्ति। नैयायिकमते आत्मा कूटस्थो नित्यः। अत्र परिणमनशीलत्वं नैवोपयुज्यते। Page #260 -------------------------------------------------------------------------- ________________ परिशिष्ट २२७ 2. प्रतिवादि-असिद्धः - चेतनास्तरवः सर्वत्वगपहरणे मरणात् । अयं हेतु : प्रतिवादिनो बौद्धस्य कृतेऽसिद्धोऽस्ति। अस्य कारणमिदं यत् बौद्धा वृक्षेषु विज्ञानेन्द्रियं तथा आयुर्निरोधकं मरणं नैवाभ्युपयन्ति। उभयासिद्धः - शब्दोऽनित्यः चाक्षुषत्वात् । अयं तु हेतुवादिनः नैयायिकस्य प्रतिवादिनो बौद्धस्य चेति उभयस्यासिद्धः। शब्दस्य चाक्षुषत्वं नास्ति प्रमाणप्रतिपन्नम्। इदानीमनैकान्तिकं यस्य नामान्तरं व्यभिचारी अस्ति तं हेत्वाभासं व्याख्यातुमुपक्रमते4. (क) व्यभिचारीति नामान्तरम्। (ख)अयं द्विविधः 1. सन्दिग्धविपक्षवृत्तिकः वक्तृत्वं विपक्षे सर्वज्ञे सन्दिग्धवृत्तिकम्-सर्वज्ञः किं वक्ता आहोस्विन्न वक्तेति सन्देहात्। निर्णीतविपक्षवृत्तिकः-प्रमेयत्वं यथा सपक्षेऽनित्ये घटादौ प्रतीयते तथा विपक्षे नित्येऽपि व्योमादौ प्रतीयत एव। (क) अनैकान्तिक हेत्वाभास का दूसरा नाम व्यभिचारी हेतु है। (ख) अनैकान्तिक के दो प्रकार हैं - Page #261 -------------------------------------------------------------------------- ________________ २२८ भिक्षुन्यायकर्णिका 1. संदिग्धविपक्षवृत्तिक-असर्वज्ञ का विपक्ष सर्वज्ञ है। उसमें वक्तृत्व संदिग्ध है - सर्वज्ञ बोलते हैं या नहीं बोलते, यह अनुमान प्रमाण के द्वारा निर्णीत नहीं है। 2. - निर्णीतविपक्षवृत्तिक-सपक्ष अनित्य घट आदि में प्रमेयत्व प्रतीत है वैसे ही विपक्ष नित्य आकाश आदि में भी वह प्रतीत ही है। न्या. प्र.- यस्यान्यथानुपपत्तिः साध्येन सहाविनाभाव: सन्दिह्यते सोऽनैकान्तिकः । भवति कोऽपि एतादृशोऽपि हे तुर्य : कदाचित् साध्याधिकरणे क्वचिच्च साध्याभावाधिकरणे वर्तते । तस्य एतादृशवर्तनात् असौ हेतुः सन्देहविषयो भवति । एतादृशो हेतुः अनैकान्तिक: कथ्यते। अयं हेतुर्द्विविधो भवतिसंदिग्धविपक्षवृत्तिक: निर्णीतविपक्षवृत्तिकश्च यस्य तु विपक्षे वृत्तिः सन्दिह्यते स संदिग्धविपक्ष वृत्तिकोऽनैकान्तिकः। तत्र यस्य हेतोर्विपक्षे साध्याभावाधिकरणे वृत्तिनिश्चीयते स निर्णीतविपक्षवृत्तिक: अनैकान्तिकः। 1. संदिग्धविपक्षवृत्तिको यथा- विवादास्पदः पुरुषः सर्वज्ञः नास्ति वक्तृत्वात्। अस्मिन्ननुमाने विवादास्पदः पुरुषः पक्षः सर्वज्ञत्वाभावस्तत्रसाध्यः वक्तृत्वात् तत्र हेतुः। अत्र असर्वज्ञत्वस्य विपक्षः सर्वज्ञः। तत्र सर्वज्ञे वक्तृत्वं संदिग्धमस्ति सर्वज्ञो वक्ति न वा इति। नेदं Page #262 -------------------------------------------------------------------------- ________________ परिशिष्ट २२९ तथ्यम् अनुमानप्रमाणद्वारा निर्णीतमिति संदिग्धविपक्षवृत्तिक: अनैकान्तिकोऽत्र। निर्णीतविपक्षवृत्तिको यथा – शब्दो नित्यः प्रमेयत्वात् अस्मित्रनुमाने शब्दः पक्ष: आकाशं सपक्षः घटो विपक्षः । अत्र नित्यत्वाभावाधिकरणेऽनित्ये घटादौ विपक्षे प्रमेयत्वहे तोर्दर्शनात् निर्णीतविपक्षवृत्तिकोऽनैकान्तिकोऽत्र। सम्प्रति दृष्टान्ताभासान् प्रस्तोतुकामस्तानवतारयतिप्रथमन्तावत् दृष्टान्ताभासो द्विविध:, अन्वयिदृष्टान्ताभासः, व्यतिरेकिदृष्टान्ताभासश्च । तत्र अन्वयिदृष्टान्ताभासः सप्तविध:- साध्यविकलः, साधनविकल:, उभयविकलः, संदिग्धसाध्यः, संदिग्ध-साधन:, संदिग्धोभयः,विपरीतान्वयश्च । तत्र 5. अन्वयिदृष्टान्ताभासा:(क) साध्यविकल:-अपौरुषेयः शब्दः, अमूर्त्तत्वात्, दुःखवत् । दुखं पुरुषव्यापारमन्तरा नोत्पद्यत इति पौरुषेयमिदमपौरुषे यसाध्ये न वर्तत इति साध्यविकलत्वम्। (ख) साधनविकल:- अपौरुषेयः शब्दः, अमूर्त्तत्वात्, परमाणुवत् । अत्र साध्यधर्मोऽपौरुषेयत्वं परमाणावस्ति किन्तु साधनधर्मोऽमूर्त्तत्वं नास्ति किञ्च स मूर्तो भवतीति साधनविकलत्वम् । Page #263 -------------------------------------------------------------------------- ________________ २३० भिक्षुन्यायकर्णिका (ग) उभयविकल:-अपौरुषेयः शब्दः, अमूर्त्तत्वात् घटवत् । घटे साध्यधर्मो ऽपौरुषेयत्वं साधनधर्मश्चामूर्त्तत्वमुभयमपि नास्तीति उभयविक लत्वम्। (घ) सन्दिग्धसाध्यः-विवक्षितः पुमान् रागी, वचनात्, रथ्यापुरुषवत् । रथ्यापुरुषे हि साध्यधर्मो रागः सन्दिग्धः, रागस्याऽ व्यभिचारि लिङ्गादर्श नात्, इति सन्दिग्धसाध्यत्वम्। (ङ) सन्दिग्धसाधनः-विवक्षितः पुमान् मरणधर्मा, रागात्, रथ्यापुरुषवत्। रथ्यापुरुषे साधनधर्मो रागः सन्दिग्ध इति सन्दिग्धसाधनत्वम्। (च) सन्दिग्धोभयः- विवक्षितः पुमान् अल्पज्ञः, रागात्, रथ्यापुरुषवत् । रथ्यापुरुषेऽल्पज्ञत्वं रागश्चेति उभयमपि सन्दिग्धमिति सन्दिग्धोभयत्वम्। एषु पराशयस्य दुर्बोधत्वाद् अन्वयिनि रथ्यापुरुषे रागाल्पज्ञत्वयोः सत्त्वं सन्दिग्धम्। विपरीतान्वयः- अनित्यः शब्दः, कृतकत्वात्, यदनित्यं तत् कृतकम्, घटवदिति विपरीतान्वयः । प्रसिद्धानुवादेनाऽप्रसिद्धं विधेयम्। अत्र कृतकत्वं हे तुरिति प्रसिद्धम्। अनित्यत्वं तु साध्यत्वाद् अप्रसिद्धम्। अनुवादे प्रसिद्धस्य यच्छ ब्देन अप्रसिद्धस्य च तच्छब्देन निर्देशो युक्तः । अत्र च विपर्यय इति विपरीतान्वयत्वम्। . Page #264 -------------------------------------------------------------------------- ________________ परिशिष्ट 5. अन्वयी दृष्टान्ताभास (क) साध्यविकल - शब्द अपौरुषेय है, क्योंकि वह अमूर्त है, जैसे दुःख । दुःख मनुष्य की प्रवृत्ति के बिना नहीं होता, इसलिए वह पौरुषेय है । इसका प्रयोग अपौरुषेय साध्य के लिए किया गया है । इसलिए यह साध्यविकल दृष्टान्ताभास है । (ख) साधनविकल शब्द अपौरुषेय है, क्योंकि वह अमूर्त है, जैसे- परमाणु । यहां साध्य धर्म अपौरुषेयत्व है । वह परमाणु में है किन्तु साधन धर्म अमूर्तत्व - परमाणु में नहीं है, क्योंकि वह मूर्त होता है इसलिए यह साधनविकल दृष्टान्ताभास है । २३१ — (ग) उभयविकल - शब्द अपौरुषेय है, क्योंकि वह अमूर्त है, जैसे- घड़ा। यहां साध्यधर्म अपौरुषेयत्व और साधनधर्म अमूर्तत्व है। वे दोनों घड़े में नहीं है, इसलिए उभयविकल दृष्टान्ताभास है। (घ) संदिग्धसाध्य - विवक्षित पुरुष रागी है, क्योंकि वह बोलता है, जैसे रथ्यापुरुष । यहां साध्यधर्म राग है । वह रथ्यापुरुष में संदिग्ध है, क्योंकि उसमें राग का निर्णायक लिंग उपलब्ध नहीं है, इसलिए वह . संदिग्धसाध्य दृष्टान्ताभास है । (ङ) संदिग्धसाधन - विवक्षित पुरुष मरणधर्मा है, क्योंकि वह रागी है, जैसे रथ्यापुरुष । यहां साधनधर्म राग Page #265 -------------------------------------------------------------------------- ________________ २३२ भिक्षुन्यायकर्णिका है। वह रथ्यापुरुष में संदिग्ध है, इसलिए यह संदिग्धसाधन दृष्टान्ताभास है। (च) संदिग्धोभय-विवक्षित पुरुष अल्पज्ञ है, क्योंकि वह रागी है, जैसे - रथ्यापुरुष । यहां रथ्यापुरुष में अल्पज्ञता और राग दोनों ही संदिग्ध हैं इसलिए यह सदिग्धोभय दृष्टान्ताभास है। दूसरे का आशय जानना कठिन होता है इसलिए अन्वयी रथ्यापुरुष में राग और अल्पज्ञता का अस्तित्व संदिग्ध है। (छ) विपरीतान्वय-शब्द अनित्य है, क्योंकि वह कृतक है । जो अनित्य होता है, वह कृतक होता है, जैसेघड़ा। यह विपरीतान्वय है। प्रसिद्ध के अनुवाद से अप्रसिद्ध को साधा जाता है। यहां कृतकत्व हेतु प्रसिद्ध है और अनित्यत्व साध्य होने के कारण अप्रसिद्ध है। अनुवाद में प्रसिद्ध का यत् शब्द से और अप्रसिद्ध का तत् शब्द से निर्देश करना उचित है, जैसे - जो कृतक होता है वह अनित्य होता है। यहां इस क्रम का विपर्यय हुआ है, इसलिए यह विपरीतान्वय दृष्टान्ताभास है। न्या. प्र.- क साध्यविकल:- 'अपौरुषेयः शब्दः अमूर्तत्वात् दुःखवत्' अत्र दुःखं दृष्टान्तरूपेणोपन्यस्तम्। तच्च दु:खं पुरुषव्यापारं विना नोत्पद्यत इति दृष्टान्ते Page #266 -------------------------------------------------------------------------- ________________ परिशिष्ट २३३ ग अपौरुषेयत्वं नास्ति। तस्मात् साध्यधर्मेण अपौरुषेयत्वेन विकलत्वादयं साध्यधर्मविकलो दृष्टान्ताभासः। साधनविकल:- तस्यामेव प्रतिज्ञायां तस्मिन्नेव हेतौ परमाणुवत् इति दृष्टान्तः साधनविकलो भविष्यति। यथा- "अपौरुषेयः शब्दः अमूर्तत्वात् परमाणुवत्" अत्र परमाणौ दृष्टान्ते साध्यधर्मोऽपौरुषत्वमस्ति किन्तु परमाणूनां मूर्तत्वेन तत्र साधनधर्मोऽमूर्तत्वं नास्ति। तस्मात् साधनविकलोऽयं दृष्टान्ताभासः। उभयविकल:- तस्मिन्नेव पक्षे तस्मिन्नेव हेतौ यदि घटवत् इति दृष्टान्तो दीयते तदा उभयविकलोऽयं दृष्टान्ताभासो भविष्यति । यथा - अपौरुषेयः शब्दः अमूर्तत्वात् घटवत् अत्र दृष्टान्ते घटे साध्यधर्मोऽपौरुषेयत्वम्, साधनधर्मश्च अमूर्तत्वमित्युभयमपि नास्तीति उभयविकलोऽयं दृष्टान्ताभासः । संदिग्धसाध्यः - यत्र दृष्टान्ते साध्यधर्मः संदिग्धः स्यात् स संदिग्धसाध्यो दृष्टान्ताभासः। यथा - विवक्षितः पुमान् रागी वक्तृत्वात् वचनाद् वा रथ्यापुरुषवत् । अत्र रथ्यापुरुषे देवदत्ते साध्यधर्मो रागः संदिग्धो वर्तते । अस्मिन् रथ्यापुरुषे रागोऽस्ति न वा? तत्र न दृश्यते किमपि रागस्याव्यभिचारिलिङ्गम् । Page #267 -------------------------------------------------------------------------- ________________ २३४ ङ भिक्षुन्यायकर्णिका तस्मात् अव्यभिचारिलिङ्गादर्शनात् रागविषयक : सन्देहो युक्त एवेति संदिग्धसाध्योऽयं दृष्टान्ताभासः । संदिग्धसाधनः - यत्र दृष्टान्ते साधनधर्म: संदिग्धः स्यात् स संदिग्धसाधननामको दृष्टान्ताभासः । यथा विविक्षितोऽयं पुमान् मरणधर्मा रागात् रथ्यापुरुषवत् अत्र दृष्टान्ते रथ्यापुरुषे साधनस्य रागस्य धर्मः रागवत्वं संदिग्धं वर्तते परचेतोविकारस्याप्रत्यक्षत्वात् । तस्मात् संदिग्धसाधनोऽयं दृष्टान्ताभासः । च संदिग्धोभयः - यत्र दृष्टान्ते साध्यधर्मः साधनधर्मश्चेत्युभयं संदिग्धं स्यात् स संदिग्धोभयो दृष्टान्ताभासः । यथा 'विविक्षितः पुमान् अल्पज्ञः रागात् रथ्यापुरुषवत्' अत्र रथ्यापुरुषे अल्पज्ञत्वं रागश्चेत्युभयम् अपि संदिग्धं वर्तते उभयस्यापि प्रत्यक्षतोऽदर्शनात् । तस्मात् संदिग्धोभयोऽयं दृष्टान्ताभासः । परकीयाशयस्य दुर्बोधत्वात् रथ्यापुरुषे रागाल्पज्ञत्वयोः सत्वं संदिग्धम् । छ विपरीतान्वयः यत्र अन्वयो विपरीतो भवेत् स विपरीतान्वयः दृष्टान्ताभासः । यथा अनित्यः शब्दः कृतकत्वात् यदनित्यं तत् कृतकम् घटवत् इति विपरीतान्वयः । - इदमत्रबोध्यम् - प्रसिद्धमुद्दिश्य अप्रसिद्धं विधीयते । यथा अनित्यः शब्दः कृतकत्वात् इत्यनुमाने कृतकत्वं हेतुरिति प्रसिद्धम् । अनित्यत्वं तु अप्रसिद्धं - ― Page #268 -------------------------------------------------------------------------- ________________ परिशिष्ट २३५ साध्यत्वेन निर्दिष्टम्। अनुवादे तु यत् इति सर्वनाम्ना तु प्रसिद्धस्य हेतोरेव निर्देशो युक्तः। अप्रसिद्धस्य साध्यस्य तु तत् शब्देन निर्देशः करणीयः। अतोऽत्र यत् कृतकं तदनित्यमित्येववक्तव्यमुचितम् किन्तु तथा न कृत्वा यदनित्यं तत् कृतकम् इत्युक्तं वर्तते । तच्च न युक्तमिति विपरीतान्वयोऽत्र बोध्यः। सम्प्रति व्यतिरेकिदृष्टान्ताभासान् वक्तुमुपक्रमते । यथा अन्वयेन दृष्टान्ताभासा भवन्ति तथैव व्यतिरेकेणापि भवन्ति । तेषां संख्यापि अन्वयिदृष्टान्ताभासवत् ससैव। क्रमशस्तान् उदाहरति - 6. व्यतिरेकिदृष्टान्ताभासः(क) असिद्धसाध्यः-अपौरुषेयः शब्दः अमूर्तत्वात्, यदपौरुषेयं न भवति तदमूर्तमपि न भवति, यथा परमाणुः। परमाणुर पौरुषेयोऽपि मूर्त: इति असिद्धसाध्यत्वम्। (ख) असिद्धसाधन :- यदपौरुषेयं न भवति तदमूर्तमपि न भवति, यथा दुःखम्। दु:खं पौरुषेयमपि अमूर्तम् " इति असिद्धसाधनत्वम्।। (ग) असिद्धोभयः-- यदपौरुषेयं न भवति तदमूर्तमपि न भवति, यथा आकाशः । आकाशः अपौरुषेयोऽपि अमूर्तोऽपि इति असिद्धोभयत्वम्।। (घ) संदिग्धसाध्यः- यो रागी न भवति स वक्ताऽपि न भवति, रथ्यापुरुषवत्। Page #269 -------------------------------------------------------------------------- ________________ २३६ भिक्षुन्यायकर्णिका (ङ) संदिग्धसाधनः- यो मरणधर्मा न भवति स रागी अपि न भवति, रथ्यापुरुषवत्। (च) संदिग्धोभयः-- यः अल्पज्ञो न भवति स रागी अपि न भवति, रथ्यापुरुषवत् । एषु परचेतोवृत्तेर्दुर्लक्ष्यत्वाद् व्यतिरेकिणि रथ्यापुरुषे रागाल्पज्ञत्वयोरसत्त्वं संदिग्धम्। (छ) विपरीतव्यतिरेक:- अनित्यः शब्दः कृतकत्वात् । यदकृतकं तन्नित्यं यथा आकाश: इति विपरीतव्यतिरेकः। व्यतिरेके हि साध्याभावः साधनाभावेन व्याप्तो निर्देष्टव्यः । न चात्रैवमिति विपरीतव्यतिरेकत्वम्। अनन्वयः, अप्रदर्शितान्वयः, अव्यतिरेक :, अप्रदर्शितव्यतिरेकश्चेति चत्वारोऽपरेऽपि दृष्टांन्ताभासा भवन्ति, यथाअनन्वयः- विवक्षितः पुमान् रागी, वक्तृत्वाद्, इष्टपुरुषवदित्यनन्वयः। यद्यपि इष्टपुरुषे रागो वक्तृत्वञ्च साध्यसाधनधर्मी दृष्टौ, तथापि यो वक्ता स रागीति व्याप्त्यसिद्धरनन्वयत्वम्। 2. अनित्यः शब्दः, कृतकत्वाद् घटवद्, इति अप्रद र्शितान्वयः। सन्नपि अन्वयो वचनेन न प्रकाशित इति परार्थानुमानस्य वचनदोषः। Page #270 -------------------------------------------------------------------------- ________________ परिशिष्ट २३७ 6. 3. न वीतरागः कश्चिद् विवक्षितः पुरुषः, वक्तृत्वात् । यः पुनर्वीतरागो न स वक्ता यथोपलखंड इति अव्यतिरेक: । यद्यप्युपलखण्डादुभयं व्यावृत्तं तथापि व्याप्त्या व्यतिरेकासिद्धेरव्यतिरेकत्वम्। अनित्यः शब्दः, कृतकत्वात्, आकाशवदिति अप्रदर्शितव्यतिरेक: । यदनित्यं न स्यात् तत् कृतकमपि न स्यादिति सन्नपि व्यतिरेको नोक्तः । व्यतिरेकी दृष्टान्ताभास - (क) असिद्धसाध्य-शब्द अपौरुषेय है, क्योंकि वह अमूर्त है। जो अपौरुषेय नहीं होता वह अमूर्त भी नहीं होता, जैसे- परमाणु । परमाणु अपौरुषेय होने पर मूर्त होता है। इसलिए यह असिद्धसाध्य व्यतिरेकी दृष्टान्ताभास है। (ख) असिद्धसाधन-जो अपौरुषेय नहीं होता वह अमूर्त भी नहीं होता, जैसे- दुःख। दुःख पौरुषेय होने पर भी अमूर्त होता है। इसलिए यह असिद्धसाधन .. व्यतिरेकी दृष्टान्ताभास है। (ग) असिद्धोभय-जो अपौरुषेय नहीं होता वह अमूर्त भी नहीं होता, जैसे - आकाश। आकाश अपौरुषेय भी है और अमूर्त भी। इसलिए यह असिद्धोभय व्यतिरेकी दृष्टान्ताभास है। (घ) संदिग्धसाध्य-जो रागी नहीं होता वह वक्ता भी नहीं होता, जैसे- रथ्यापुरुष । Page #271 -------------------------------------------------------------------------- ________________ २३८ भिक्षुन्यायकर्णिका (छ) (ङ) संदिग्धसाधन- जो मरणधर्मा नहीं होता वह रागी भी नहीं होता, जैसे- रथ्यापुरुष। (च) संदिग्धोभय-जो अल्पज्ञ नहीं होता वह रागी भी नहीं होता, जैसे – रथ्यापुरुष । दूसरे का आशय जानना कठिन होता है, इसलिए व्यतिरेकी रथ्यापुरुष में राग और अल्पज्ञता का नास्तित्व संदिग्ध है। विपरीतव्यतिरेक-शब्द अनित्य है क्योंकि वह कृतक है। जो अकृतक होता है वह नित्य होता है, जैसेआकाश। यह विपरीतव्यतिरेकी दृष्टान्ताभास है। व्यतिरेक में साध्याभाव का साधनाभाव से व्याप्त निर्देश होना चाहिए। यहां वैसा नहीं है। इसलिए यहां विपरीत-व्यतिरेकत्व है। कुछ प्रामाणिकों द्वारा चार दृष्टान्ताभास और माने गए हैं - 1. अनन्वय 2. अप्रदर्शितान्वय 3. अव्यतिरेक 4. अप्रदर्शितव्यतिरेक अनन्वय- विवक्षित पुरुष रागी है, क्योंकि वह बोलता है, जैसे -- इष्टपुरुष । यह अनन्वय है। यद्यपि इष्टपुरुष में राग और वक्तृत्व रूप साध्य और साधनधर्म दृष्ट हैं, फिर भी जो वक्ता होता है वह रागी होता है - यह व्याप्ति असिद्ध है, इसलिए यह अनन्वयदृष्टान्ताभास है। Page #272 -------------------------------------------------------------------------- ________________ परिशिष्ट २३९ 3. अप्रदर्शितान्वय-शब्द अनित्य है, क्योंकि वह कृतक है, जैसे - घड़ा। यह अप्रदर्शितान्वयदृष्टान्ताभास है। अन्वय होने पर भी यहां उसे शब्द के द्वारा बताया नहीं गया है, इसलिए यह परार्थानुमान के निरूपण का दोष है। अव्यतिरेक-विवक्षित पुरुष वीतराग नहीं है, क्योंकि वह बोलता है। जो वीतराग होता है वह वक्ता नहीं होता, जैसे उपलखण्ड। यह अव्यतिरेक दृष्टान्ताभास है। यद्यपि दृष्टान्त रूप उपलखण्ड में अवीतरागता और वक्तृत्व दोनों ही धर्म नहीं हैं, फिर भी व्याप्ति के द्वारा व्यतिरेक असिद्ध है। अप्रदर्शितव्यतिरेक – शब्द अनित्य है क्योंकि वह कृतक है, जैसे - आकाश। यह अप्रदर्शितव्यतिरेक दृष्टान्ताभास है, क्योंकि जो अनित्य नहीं होता वह कृतक भी नहीं होता। इस प्रकार व्यतिरेक होने पर भी वह यहां प्रदर्शित नहीं किया गया है। न्या. प्र.- व्यतिरेकिदृष्टान्ताभासः - असिद्धसाध्यः - अपौरुषेयः शब्दः अमूर्तत्वात् यदपौरुषेयं न भवति तदमूर्तमपि नास्ति यथा परमाणुः । अत्र शब्दे अपौरुषेयत्वं साध्यं वर्तते । अमूर्तत्वञ्चाबहेतुः। अत्रानुमाने वैधर्म्यदृष्टान्तत्वेन उपन्यस्ते परमाणौ साध्यव्यतिरेक स्य क Page #273 -------------------------------------------------------------------------- ________________ २४० ख ग भिक्षुन्यायकर्णिका अपौरुषेयत्वा भावस्य पौरुषेयत्वस्य असिद्धत्वात् असिद्धसाध्यकोऽयं दृष्टान्ताभासः । उदाहरणान्तरं यथा - "नित्यः शब्दः अमूर्तत्वात् " अत्र शब्दे नित्यत्वं साध्यं वर्तते अमूर्तत्वञ्च हेतुः । अत्रानुमाने वैधर्म्यदृष्टान्तत्वेन उपन्यस्तो भवति परमाणुः। यथा यन्नित्यं न भवति तद् अमूर्तमपि न भवति यथा परमाणुः । अत्र वैधर्म्यदृष्टान्ते परमाणौ साध्यनित्यत्वव्यतिरेकस्य नित्यत्वाभावस्य अनित्यत्वस्य असिद्धत्वमे वास्ते, परमाणूनां नित्यत्वात् । एवं चासिद्धसाध्यकोऽयं दृष्टान्ताभासः । असिद्धसाधनः - शब्दः अपौरुषेयः अमूर्तत्वात् यत् अपौरुषेयं न भवति तत् अमूर्तमपि न भवति, यथा दुःखम् ! तात्पर्यमिदं यत् पौरुषेयं भवति तत् मूर्तं भवति, किन्तु दुःखं तु पौरुषेयमपि अमूर्तमेवास्ते । अनया रीत्याऽत्र असिद्धसाधनो व्यतिरे किदृष्टान्ताभासः । असिद्धोभयः यत्र साध्यं साधनञ्चेत्युभयमपि असिद्धं भवेत् तत्रासिद्धो भयक: व्यतिरेकिदृष्टान्ताभास: । यथा अपौरुषेयः : शब्द: अमूर्तत्वात् अत्र व्यतिरे - किवचनमित्थम् यत् अपौरुषेयं न भवति तत् अमूर्तमपि न भवति, यथा आकाशम् । अत्रानुमाने आकाशं दृष्टान्तत्वेन कथितं वर्तते । अस्य व्यतिरेकि - - Page #274 -------------------------------------------------------------------------- ________________ परिशिष्ट २४१ वाक्यस्येदं तात्पर्य यत् अपौरुषेयं न भवति अर्थात् पौरुषेयं भवति तत् मूर्तं भवति किन्तु अत्र तु वैधर्म्य दृष्टान्ते आकाशे अपौरुषेयत्वाभावो नास्तीति साध्यविकलता समायाता । आकाशस्य अपौरुषेयत्वात् तदभावस्य तत्र वक्तुमश-क्यत्वात्। एवं आकाशम् अमूर्तमेवेति तत्र अमूर्तत्वा-भावस्यापि अभाव एवेति साधनविकलता। अथवा शब्दः पौरुषेयो नास्तीति साध्यविकलता तथा मूर्तोऽपि नास्तीति साधनविकलता वक्तुं शक्यते। संदिग्ध साध्यः - यस्मिन् दृष्टान्ते साध्यं संदिग्धं स्यात् स संदिग्धसाध्यको व्यतिरेकिदृष्टान्ताभासः । यथा - विवक्षितः पुरुषविशेषः रागी वचनात् रथ्यापुरुषवत् । अत्र व्यतिरेकिवचनमित्थम् - यो रागी न भवति स वक्तापि न भवति रथ्यापुरुषवत् । अत्र परचेतोवृत्तीनां दुरधिगमत्वेन रथ्यापुरुषे रागस्य निश्चयाभावात् साध्यस्य रागस्य सन्देहो भवति । तस्मात् व्यतिरेकि.. दृष्टान्ताभासोऽयं संदिग्धसाध्यकः। संदिग्धसाधनः – यस्मिन् दृष्टान्ते साधनं संदिग्धं स्यात् स संदिग्धसाधनको व्यतिरेकि दृष्टान्ताभासः। यथा – 'अयं पुरुषः मरणधर्मा रागात् रथ्यापुरुषवत्' अत्र व्यतिरेकिवचनमित्थम् – यो मरणधर्मा न भवति स रागी अपि न भवति रथ्यापुरुषवत् । अत्रापि परचे Page #275 -------------------------------------------------------------------------- ________________ २४२ भिक्षुन्यायकर्णिका तोवृत्तेः दुर्जेयत्वात् रथ्यापुरुषे राग: संदिग्धः। तस्मात् संदिग्धसाधनक: व्यतिरेकि दृष्टान्ताभासोऽत्र बोध्यः। संदिग्धोभयः - यत्र दृष्टान्ते साध्यं साधनञ्चेत्युभयं संदिग्धं स्यात् स संदिग्धो भयको व्यतिरेकि दृष्टान्ताभासः। यथा - विवक्षितः पुरुषः अल्पज्ञः रागात् रथ्यापुरुषवत् । अत्र व्यतिरेकिवचनमित्थम् - यः अल्पज्ञो न भवति स रागी अपि न भवति रथ्यापुरुषवत्। अत्रापि परचेतोवृत्तीनां दुर्जेयत्वात् व्यतिरेकिणि दृष्टान्ताभासे रागस्य अल्पज्ञत्वस्य चेत्युभयोरसत्वं संदिग्धमिति संदिग्धोभयको व्यतिरेकिदृष्टान्ता भासोऽत्रबोध्यः। 'छ) विपरीतव्यतिरेक:- इदमत्रबोध्यम् - अन्वयव्याप्तौ साधनं साध्येन व्यासं भवति । व्यतिरेके तु साध्याभावः साधनाभावेन व्याप्त: स्यादित्यभीष्टम् । यथा यत्र वढ्यभावस्तत्र धूमाभावः। एवमत्र अनित्यः शब्दः कृतकत्वात् इत्यनुमानवाक्ये व्यतिरेके वक्तव्ये यत्र अनित्यत्वाभावः तत्र कृतकत्वाभावः इति कथनमेव युक्त भविष्यति किन्तु एवं न कृत्वा अत्र लिखितं यत् यदकृतकं तन्नित्यं यथा आकाशम् । अर्थात् यत्र कृ तक त्वाभावः तत्र अनित्यत्वाभाव: इति विपरीतमेवात्र कथितं वर्तत इति विपरीतव्यतिरेकिदृष्टान्ताभासोऽयम्। Page #276 -------------------------------------------------------------------------- ________________ परिशिष्ट २४३ 2. कतिपयैः प्रामाणिकैश्चत्वारोऽन्ये दृष्टान्ताभासाः स्वीकृताः सन्ति । ते च 1. अनन्वयः 2. अप्रदर्शितान्वयः 3. अव्यतिरेक : 4. अप्रदर्शितव्यतिरेकश्च। तत्र तावत्अनन्वयः- यत्र साध्यसाधनयोरन्वयव्याप्तिर्न भवेत् तत्र अनन्वयनामको दृष्टान्ताभासः । यथा - विवक्षितः पुरुषः रागादिमान् वक्तृत्वात् इष्टपुरुषवत् । अत्र दृष्टान्ते इष्टपुरुषे रागादिमत्वं वक्तृत्वञ्चेत्युभावपि साध्यसाधनधर्मी वर्तेते तथापि यो यो वक्ता स स रागादिमान् इत्यन्वयव्याष्त्यभावात् अनन्वयलक्षणो दृष्टान्ताभासोऽत्रबोध्यः। अप्रदर्शितान्वयः- यत्र अन्वयव्याप्तौ सिद्धायामपि वचनेन सा प्रकाशिता न स्यात् तत्राप्रदर्शितान्वय दृष्टान्ताभासः। यथा- अनित्यः शब्दः कृतकत्वात् घटवत् अत्र दृष्टान्ते यत्र यत्र कृतकत्वं तत्र तत्रानित्यत्व- मित्यन्वयव्यासिर्वर्तेते तथापि सा अत्र वचनेन न प्रकाशितेति अप्रदर्शितान्वयदृष्टान्ताभासः परार्थानुमा-नस्य वचनदोषः। अव्यतिरेक: - साध्याभावे साधनाभावो व्यतिरेकव्याप्तिः कथ्यते। साचेयं व्याप्तिर्यत्र न स्यात् तत्र अव्यतिरेकदृष्टान्ताभासः। यथा - "न वीतरागः कश्चित् विवक्षितः पुरुषः वक्तृत्वात्" यः पुनः वीतरागो न स वक्ता यथा उपलखण्डः। अत्र विवक्षितः कश्चित् पुरुषः पक्षः, तत्र वीतरागाभावः Page #277 -------------------------------------------------------------------------- ________________ २४४ भिक्षुन्यायकर्णिका साध्यः वक्तृत्वञ्च हेतुः। उपलखण्डः उदाहरणमस्ति। अत्र दृष्टान्ते उपलखण्डे पाषाणे साध्याभावः वीतरागत्वम् साधनाभावः वक्तृत्वाभावश्चेत्युभयं वर्तते तथापि नह्यत्र भवति एवं व्याप्तिर्यत् - यत्र यत्र वीतरागत्वं तत्र तत्र वक्तृत्वाभावः इति रूपात्मिका। तस्मात् अव्यतिरेकदृष्टान्ताभासोऽयम्। अप्रदर्शितव्यतिरेक:- यत्र व्यतिरेकव्याप्तिः संभवापि न प्रदर्शिता स्यात् तत्र अप्रदर्शितव्यतिरेकनामको दृष्टान्ताभासः। यथा - अनित्यः शब्दः कृतकत्वात् आकाशवत् यत् अनित्यं न भवति तत् कृतकमपि न भवति, अर्थात् यत्र यत्र अनित्यत्वाभावः तत्र तत्र कृतकत्वाभावः इत्येवं रूपेण व्यतिरेकव्याप्तिर्वर्तते तथाप्यत्र सा स्ववचनेन न प्रदर्शितेति अप्रदर्शितव्यतिरेकनामा दृष्टान्ताभासोऽत्रबोध्यः। नयाभासा: -- सम्प्रति नयाभासान् वक्तुमिच्छन् पूर्व द्रव्यार्थिक: पर्यायार्थिकश्चेति नयद्वयं विज्ञाय तयोराभासं प्रस्तुवन् पूर्वं द्रव्यार्थिकाभासं प्रस्तौति - द्रव्यमात्रग्राही पर्यायप्रतिक्षेपी द्रव्यार्थिकाभासः। पर्यायमात्रग्राही द्रव्यप्रतिक्षेपी पर्यायार्थिकाभासः । धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः, यथानैयायिकवैशेषिकदर्शनम्। सत्ताद्वैतं स्वीकुर्वाण: सकलविशेषान्निराचक्षाणः संग्रहाभासः, Page #278 -------------------------------------------------------------------------- ________________ परिशिष्ट २४५ यथा अखिलानि अद्वैतवाददर्शनानि सांख्यदर्शनञ्च । अपारमार्थिकद्रव्यपर्यायविभागाभिप्रायो व्यवहाराभासः, यथा- चार्वाकदर्शनम्। वर्तमानपर्यायाभ्युपगन्ता सर्वथा द्रव्यापलापी ऋजुसूत्राभासः, यथा-तथागतमतम्। कालादिभेदेनार्थभेदमेवाभ्युपगच्छन् शब्दाभासः, यथावैयाकरणः। पर्यायभेदेनार्थभेदमेवमन्वानः समभिरूढ़ाभासः । क्रियाऽपरिणतं वस्तु शब्दवाच्यतया प्रतिक्षिपन् एवंभूताभासः । केवल द्रव्य का ग्रहण करने वाले और पर्याय का निरसन करने वाले विचार को द्रव्यार्थिक नयाभास कहा जाता है। केवल पर्याय का ग्रहण करने वाले और द्रव्य का निरसन करने वाले विचार को पर्यायार्थिक नयाभास कहा जाता है। दो धर्मों को एकान्त भिन्न मानने का जो अभिप्राय है, उसे नैगमनयाभास कहा जाता है। इसके उदाहरण है-- नैयायिक, वैशेषिक दर्शन। सत्ताद्वैत को स्वीकार करने और समग्र विशेष का निरसन करने वाले विचार को संग्रहनयाभास कहा जाता है, इसके उदाहरण हैं- सब अद्वैतवादी दर्शन और सांख्यदर्शन। द्रव्य और पर्याय के अवास्तविक विभाग का स्वीकार करने वाले विचार को व्यवहारनयाभास कहा जाता है, Page #279 -------------------------------------------------------------------------- ________________ २४६ भिक्षुन्यायकर्णिका इसका उदाहरण है – चार्वाकदर्शन। केवल वर्तमान पर्याय का स्वीकार करने वाले तथा द्रव्य का सर्वथा अपलाप करने वाले विचार को ऋजुसूत्रनयाभास कहा जाता है, इसका उदाहरण है ... बौद्धदर्शन। काल आदि के भेद से अर्थभेद को ही मान्य करने वाले विचार को शब्दनयाभास कहा जाता है, इसका उदाहरण है - वैयाकरण। पर्याय के भेद से अर्थ-भेद को ही मान्य करने वाले विचार को समभिरूढ़नयाभास कहा जाता है। क्रिया में अपरिणत वस्तु शब्द का वाच्य होता ही नहीं इस अभिप्राय को एवंभूतनयाभास कहा जाता है। न्या. प्र.क. द्रव्यार्थिकाभासः- द्रव्यपर्यायात्मकेवस्तुनिपर्यायस्य निरासं कुर्वन् यो विचार: केवलं द्रव्यस्य ग्राहको भवति अर्थात् द्रव्यमात्रमेवगृह्णाति स द्रव्यार्थिकाभासः कथ्यते। ख. पर्यायार्थिकाभासः - यत्र द्रव्यमुपेक्ष्य पर्यायमात्रं गृह्यते स विचार: पर्यायार्थिकाभासः। नैगमाभासः - धर्मद्वयादीनामैकान्तिकपार्थक्याभिसन्धि गमाभासः। इदमत्र बोध्यम् – द्रव्यपर्यायात्मकं वस्तु भवति । ग. Page #280 -------------------------------------------------------------------------- ________________ परिशिष्ट २४४७ अथवा वस्तु भेदाभेदात्मकं भवति। उभयोस्तात्पर्यमेकमेव। अभेदः सामान्यं द्रव्यं धर्मी वा कथ्यते । भेदस्तु विशेष: पर्यायो धर्मो वा उच्यते। सामान्यविशेषयोर्नास्ति सर्वथा भेदः यतोहि विशेषरहितं सामान्यं न भवति । विशेषोऽपि सामान्यर हि तो नावतिष्ठ ते। अनयोर्निरूपणं प्राधान्याप्राधान्यदृष्ट्या भवति। तत्र पर्यायं निराकृत्य द्रव्यमात्रग्राही द्रव्यार्थिकनयाभासः। द्रव्यं निराकृत्य पर्यायमात्रग्राही पर्यायार्थिकनयाभासो भवति। एतत् सर्वमुपरि निर्दिष्टम्। अनयोः द्रव्यपर्याययोः सर्वथा पार्थक्यं नास्ति, किन्तु धर्मद्वयादीनामेकान्तभिन्नता यदि स्वीक्रियते तदा नैगमाभासो भवति । यथा आत्मनि सत्वं चैतन्यं च परस्परमत्यन्तं भिन्नमिति यदि कथ्यते अथवा द्रव्यं वस्तु च अत्यन्तं भिन्नं वर्तते इति स्वीक्रियते चेत् तत्र नैगमाभास इति बोध्यम्। न्यायवैशेषिकदर्शनयोः सामान्यं विशेषश्चात्यन्तं भिन्नाविति स्वीकृतमस्ति। तस्मात् तत्र नैगमाभास एव। संग्रहाभासः - विश्वस्मिन् जगति एकैव सत्ता पारमार्थिकीति सत्ताद्वैतं स्वीकुर्वत् अद्वैतवादिदर्शनम् सकल विशेषान् निराचष्टे । अद्वैतवादिनो हि सत्तातिरिक्तं वस्त्वन्तरं न स्वीकुर्वन्ति। अनेन प्रकारेण सत्ताद्वैतं स्वीकुर्वद् सकलविशेषांश्च निराकुर्वद् अद्वैतवादिदर्शनं Page #281 -------------------------------------------------------------------------- ________________ २४८ ङः च. छ. भिक्षुन्यायकर्णिका संग्रहाभासपदेन उच्यते । भिक्षुन्यायकर्णिकायां संग्रहाभासः अनेन प्रकारेण प्रस्तुतीकृतो यत् सत्ताद्वैतं स्वीकुर्वाणः सकलविशेषान् निराचक्षाण: संग्रहाभासः । अस्मिन् संग्रहाभासे सांख्यदर्शनं तथा अद्वैतवाददर्शनानि च समायान्ति । व्यवहाराभासः यः पुनः द्रव्यपर्यायमपारमार्थिकं मनुते स व्यवहाराभासः । ― योऽभिप्रायविशेषो द्रव्यपर्यायविभागं पारमार्थिकं न मनुते किन्तु तं काल्पनिकं मन्यते स व्यवहाराभासः । अस्मिन् आभासे चार्वाकदर्शनमायाति । चार्वाको हि वस्तुनो द्रव्यपर्यायात्मकत्वं न मनुते किन्तु भूतचतुष्टयात्मकं घटपटादिकमेव पारमार्थिकं मन्यते । वर्तमानपर्यायाभ्युपगन्ता सर्वथा ऋजुसूत्राभासः द्रव्यापलापी ऋजुसूत्राभासः । यः वर्तमानपर्यायानेव स्वीकरोति द्रव्यञ्च सर्वथा अपलपति सोऽभिप्रायविशेषः ऋजुसूत्राभासः । अस्मिन् क्रमे तथागतमतमायाति । बौद्धो हि प्रतिक्षणविनश्वरान् पर्यायानेव पारमार्थिकान् मन्यते । प्रत्यभिज्ञादिप्रमाणसिद्धं सोऽयं घट इत्येवं रूपेण पर्यायाश्रयीभूतं द्रव्यं तिरस्करोति । तस्मादत्र ऋजुसूत्राभासः । शब्दाभासः - कालादिभेदेनार्थभेदमेवाभ्युपगच्छन् शब्दाभासः। यथा वैयाकरणः । Page #282 -------------------------------------------------------------------------- ________________ परिशिष्ट २४९ अस्यायंभावः – कालकारकलिङ्गसंख्यापुरुषोपसर्गभेदेन ध्वनेः शब्दस्य अर्थभेदं प्रतिपद्यमानोऽभिप्रायविशेषः शब्दनयो भवति। यथा-बभूव भवति भविष्यति सुमेरुः इत्यत्र सुमेरो: द्रव्यरूपतया अभिन्नात्वम् पर्या यरूपतया च भिन्नात्वमिति भिन्नाभिन्नत्वं तस्य। अस्यां स्थितौ योऽभिप्रायः कालादिभेदेन शब्दस्यार्थभेदमेव स्वीकुरुते किन्तु द्रव्यरूपतयाभेदं पुनर्नैव स्वीकरोति स एव शब्दाभासः। वैयाकरणा अर्थभेदात् शब्दभेदमेव स्वीकुर्वन्ति न तु द्रव्यरूपतया शब्दाभेदमपीति तेषामभिप्रायः शब्दाभास एव। समभिरूढाभासः- पर्यायभेदेनार्थभेदमेव मन्वान: समभिरूढाभासः। योऽभिप्रायः पर्यायभेदेन अर्थभेदमर्थात् अभिधेयनानात्वमेव स्वीकरोति स समभिरूढाभासः। अस्यायंभावः - यद्यपि इन्द्रशक्रादयः शब्दा इन्द्रत्व- शक्रत्वादिपर्यायविशिष्ट स्यार्थस्य वाचका: सन्ति। ते न केवलं पर्यायस्यैव वाचकाः किन्तु समभिरूढवादी शब्दानां द्रव्यवाचकत्वमुपेक्ष्य प्रधानत्वात् पर्यायवाचकत्वं स्वीकुर्वन् इन्द्रादयः शब्दाः भिन्नभिन्नार्थवाचका इत्येव स्वीकरोति। तस्मात् समभिरूढनयाभासोऽयम्। ब. एवंभूताभासः - क्रियाऽपरिणतवस्तु शब्द Page #283 -------------------------------------------------------------------------- ________________ २५० भिक्षुन्यायकर्णिका वाच्यतया प्रतिक्षिपन् एवं भूताभासः । अस्यायमभिप्राय:- योऽभिप्रायः शब्दानां क्रियाविष्टं क्रियानुसर-णमर्थमेव शब्दवाच्यं स्वीकरोति । योऽर्थः क्रियायां परिणतो न भवति स खलु अर्थो न शब्दस्यार्थः इत्येवं यः स्वीकरोति स एवंभूताभासः। 8. घटमौलिसुवर्णार्थी, नाशोत्पादस्थितिष्वयम् । शोकप्रमोदमाध्यस्थं, जनो याति सहेतुकम्॥ पयोव्रतो न दध्यत्ति, न पयोऽत्ति दधिव्रतः। अगोरसवतो नोभे, तस्माद् वस्तु त्रयात्मकम्॥ राजा की पुत्री के पास एक सोने का घड़ा था। राजा के पुत्र ने उस घड़े को तुड़वा कर उसका मुकुट बनवा लिया। घड़े के नष्ट होने पर पुत्री को शोक हुआ। मुकुट की उत्पत्ति होने से पुत्र को हर्ष हुआ। राजा दोनों अवस्थाओं में मध्यस्थ था, क्योंकि उसको सोने से मतलब था, न घड़े से और न मुकुट से। दूध ही पीने वाला व्यक्ति दही नहीं खाता है। दही ही खाने वाला व्यक्ति दूध नहीं पीता है। अगोरस ही खाने वाला व्यक्ति दूध और दही दोनों को नहीं खाता। इसलिए वस्तु त्रयात्मक (उत्पाद, व्यय और ध्रौव्यरूप) है। जैनदर्शनानुसारं वस्तु उत्पादव्ययध्रौव्यात्मकं भवति । Page #284 -------------------------------------------------------------------------- ________________ परिशिष्ट २५१ उत्पादव्ययध्रौव्यात्मकं सदिति सतो लक्षणं तन्मते प्रसिद्धम्। इदमेव तथ्यमुदाहरणद्वारा उपर्युक्तश्लोकद्वयेन प्रस्तौति - आसीत् राजपुत्र्याः समीपे स्वर्णघटः। राजपुत्रः तं घटं त्रोटयित्वा तस्य मुकुटं व्यरचयत् । नष्टे घटे पुत्र्याः शोकः समजायत । मुकुटनिष्पत्त्या पुत्रो मोदमविन्दत् । राजा तु उभयोरवस्थयोसध्यस्थ्यमबीभजत् । यतो हि स खलु स्वार्थी एवासीत् । न खलु तदीयं प्रयोजनं घटेन, न वा मुकुटेन। यः पयोव्रती भवति स दधि न अत्ति-खादति । एवं दधिव्रती दना व्रतं कुर्वन् पुरुषो न पिबति पयः। यः खलु अगोरस:गोरसं न खादति स तु न पयः पिबति न वा दधि अत्ति। एतेन ज्ञायते यत् वस्तु त्रयात्मकमर्थात् उत्पादव्ययध्रौव्यात्मकं भवति। Page #285 -------------------------------------------------------------------------- ________________ Page #286 -------------------------------------------------------------------------- ________________ ससारमा परमाया जैन विश्वभारती तत्यान (मान्य विश्वविद्यालय) लाडनूं - 341 306 (राजस्थान)