________________
सम्पादकीयम्
आचार्यस्य नैसर्गिकं कर्तव्यमस्ति शिष्यगणाय दिशादर्शनम् । शिष्या विभिन्नरुचयो भवन्ति केचिद्दर्शनप्रियाः, केचित्तर्कप्रवणा:, केचिदयोगाभ्याससन्निहितमतयः केचिच्च संघविकासविहितरुचयः । तत्र सर्वेषां रुचिपोषः क्रियते, तेन सर्वेऽपि स्वाभिमतदिशायां संवर्धन्ते । एतत् संवर्धनाय मन्ये आचार्यवरेण ग्रन्थचतुष्टयी निर्मिता-दर्शनं जिज्ञासूनां कृते जैनसिद्धान्तदीपिका, तर्क जिज्ञासूनां कृते भिक्षुन्यायकर्णिका, योगार्थिनां कृते मनोनुशासनम्, संघविकासार्थिनां कृते पञ्चसूत्रम् ।
प्रस्तुतग्रन्थोस्ति भिक्षुन्यायकर्णिका । अस्माकं तेरापंथसंप्रदायस्य प्रथमाचार्याः नैसर्गिकों तार्किकीं प्रतिभां संप्राप्ता आसन, अतएव आचार्यवरैस्तेषां स्मृतिसम्बन्धेनास्य ग्रन्थस्य नाम विहितं 'भिक्षुन्यायकर्णिका' ।
आचार्यवर्याः भिक्षुस्वामिनो विचारसरणिं तार्किकपद्धत्या प्रसारितवन्तः । तेन भिक्षुस्वामिनो नैयायिकत्वमधुना विदुषां समक्षे प्रकटीभूतम् । एवमनेकैर्वर्त्मभिराचार्यवरेण परंपराप्राप्तं ऋणं संपूर्य आनृण्यमाप्तमिति मन्येऽहम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org