SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ भिक्षुन्यायकर्णिका वैशद्यमहिंसा च । हिंसा बन्धनस्य निबन्धनम्, अहिंसा मुक्तेः । अनयोर्वैपरीत्येन ग्रहणम् - मिथ्यादर्शनम् याथातथ्येन ग्रहणञ्च सम्यग्दर्शनम् । ये जीवानां वधेऽपि अहिंसां प्ररूपयन्ति ते न केवलं हिंसकाः अपितु मृषाभाषिणः, अदत्ताहारिणोऽपि । जीवान् व्यापाद्य जीवपोषणं न अहिंसा-इति सत्यम्, तत्र जीवपोषणाय जीवप्रमथनेऽपि दयेति प्ररूपयतां भवति ध्रुवमसत्यम् - इति ते असत्यवादिनः । म्रियमाणा जीवाश्च न ददते स्वप्राणापहाराय स्वीकृतिमिति तेऽदत्तहारिणोऽपि । एवं जीवनस्य वस्तुसत्येषु यस्य मतिरभिनवान् हेतुवादानुदमिषत्तस्य महात्मनः पुण्यस्मृतौ द्विशताब्दीसमारोहवेलायामुपहतस्तन्नाम्ना समलङ्कृतोऽसौ ग्रन्थो जैनन्याये प्रविविक्षूणां विनेयानां सुनिश्चितं भावी सदा मोदविधायी । iv अस्याश्च सम्पादने निकायसचिवेन शिष्यवरमुनिनथमलेन 'तद्दिट्ठीए तम्मुत्तीए तप्पुरक्कारे तस्सन्ना तन्निवेसणा' इत्यागमवाक्यानां साक्षात् चरितार्थीकरणसहजसंकल्पेन यः श्रमो व्यधायि स च नाभिनन्द्यते । तदभिनन्दने स्वाभिनन्दनप्रसक्तिः । गुरु-शिष्ययोः कथंचिदभिन्नत्वात् केवलमाशीर्वचनप्रदानेनैव आश्वस्तो विश्वस्तश्च भवामि मनसि नितरां मोमुदीमि । अन्यैरन्याभिश्चात्र किंचित् कृतं श्रम विभाजनं तत्र किं यत् सभाजनं नात्रोल्लेखः कर्तुं शक्यस्तस्य न केवलं कर्त्तव्यनिर्वाह एव तत्र शासनसेवाऽपि उल्लेखनीयतामगमत् तेषां सर्वेषामित्यलं विस्तरेण । आचार्य : तुलसी वल्लभ निकेतन, अणुव्रत ग्राम, बंगलौर - 1 2 सितम्बर, 1969 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy