________________
भूमिका
खल्चपरिचिता'।' 'तेन संसारिणस्तत् (बन्धनम्) प्रशंसन्ति न तु मुमुक्षवः ।
आत्मना सूक्ष्मशरीरस्य-कार्मणस्य, सर्वशरीरहेतुभूतस्य निमित्तनैमित्तिकभावोऽस्ति कथञ्चित्, तावदान्तरिकस्य जगतो बहिस्तनेन जगता सम्बन्धो जायते। कार्मणेन आत्मनः प्रवृत्तिः, तेन स्थूलशरीरोपादानम्, तत्र इन्द्रियाणां मनसश्चाभिनिर्वृत्तिः, तैश्च स्वगोचराणां ग्रहणम्, तत्र च प्रियाप्रिययो रागद्वेषौ, ताभ्याञ्च कर्मबन्धः तेन च कार्मणस्य पोषः- इत्थमयं संसार:-जन्ममरणयोः परम्परा प्रवर्तते।
कार्मणशरीरेण मुक्तिर्या सैव मोक्ष: । विना च तेन स्थूलशरीरस्य न सम्भूतिः । तामृते न जन्म। विना हि तेन (जन्मना) न मृत्युः । अन्यत्र तस्मान्न संसारः । मोक्षेण न संसारः, संसारेण च न मोक्षः । अतएव मोक्षार्थिना न जन्म एष्टव्यं न च मरणम्। केवलं तेन संयमोऽभिकाङ्क्षणीयः। किञ्च, संयमो बाह्यजगता-अनात्मिकेन पदार्थेन सम्बन्धं विनिवर्तयति । ततः स मोक्षोपायो मोक्षो वा। संयममयं जीवनम्, संयममयो मृत्युः-द्वावपि प्रार्थनीयौ। नात्राभिलाषा जीवनमरणयोः, किन्तु तयोर्योऽशः संयमस्य, तस्यैव।।
इन्द्रियाणां मनसश्च विषयः-वस्तुबोधः, सोऽपि आत्मनः खल्वनात्मिकेन-आत्मातिरिक्तेन-बाह्यवस्तुजातेन सह सम्बन्धः । किन्तु नासौ हिंसामहिंसाञ्च सम्बध्नाति । ज्ञेयं प्रति ज्ञातुश्चेतनाव्यापार: सोऽयं भवति ग्राह्यग्राहकसम्बन्धः । असौ रागद्वेषसंवलितो जनयति विकारम् । शुभप्रवृत्त्यर्थं प्रवर्तितश्च जनयति वैशद्यम्। विकारो हिंसा
1. जम्बूकुमार चारित्र २.१५ 2. अणुकम्पा री चौपई ११.३८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org