________________
भिक्षुन्यायकर्णिका सर्वमपि वाञ्छति संक्षिप्तम्, सद्यो ग्राह्यम्। विद्यार्थिनां रुचिस्तु विशेषतोऽत्र दृश्यते।
संक्षिप्तरुचीनां न्यायशास्त्रे सहसा प्रवेश: स्यादिति धिया व्यरचि मयाऽनेकशास्त्रसमुपलब्धसाराऽसौ श्रीभिक्षुन्यायकर्णिका। __आचार्यवरो भिक्षुस्वामी निदर्शनमस्ति तावदाज्ञाहेतुवादयोः समन्वयस्य। महात्मना तेन चक्रे प्रयोग आज्ञायास्तत्क्षेत्रे, हेतुवादविषये च तस्यैव, उभयोः क्षेत्रे तदुभयोरेव। ___ बाह्यजगताऽन्तर्जगतः कः सम्बन्धः? धर्मस्य मोक्षं प्रति साधनभावमावहतो बाह्यजगत् प्रति किं कर्तृत्वम् ? अमुष्मिन् विषये आचार्यभिक्षोर्हेतवः सन्ति खलु मार्मिकाः । तत्तर्कपद्धतिरेकं सृजति नवमध्वानम्। केचिद् दार्शनिका बाह्यजगता सम्बन्धविच्छेदस्थितावपि अन्तर्जगत्प्राप्तिमुपदिशन्ति। जैनदर्शनमेति विभेदमत्र। बाह्यजगता यावन सम्बन्धविच्छित्तिस्तावत्कौतस्कुती मुक्तिः। मुक्तेः साधनं मुक्तिरेवेति सम्मतम् । अन्तर्जगत्तदनुकूलैरेव साधनैः प्राप्यम्, नान्यथा। बन्धनं स्याद् यदि मुक्तेः साधनं तत्स्यात् स्वयं तन्मुक्तिः । प्रोक्तमतो भिक्षुस्वामिना- 'ज्ञानदर्शनचारित्रं विना मुक्तेर्नास्ति कश्चिदुपाय:'। ‘शेषाणि कर्माणि संसारस्य, तैरात्मा बध्यते ।' बन्धनं हिंसा मुक्तिरहिंसा च । प्राणव्यपरोपणं हिंसा, प्राणाव्यपरोपणञ्चाहिंसेति व्यवस्था स्थूला। तेन सुबोधमिति-मुक्तिर्मुक्त्या लभ्या, बन्धनञ्च बन्धनेन । मुक्तिः स्वभावो बन्धनञ्च विभावः । तदपि बन्धनमनादिपरिचितं मुक्तिश्च
1. अणुकम्पा री चौपई ४.१७ 2. वही, ४.२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org