SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ भूमिका 'अपरीक्ष्य दृष्टिं न खलु एव सिद्धिः" इति भगवतो महावीरस्य वाणी न्यायशास्त्रस्यास्तिताया महत्त्वपूर्णाऽस्ति घोषणा । न्याययुगेऽस्या महान् विस्तारो जातः । तत्र विचारकरणं भीरुवृत्तेः परिचायकमभूत् । गीतमतएव अस्ति वक्तव्यता काचित्, तेनेदं न विचार्यते । निर्दोषं काञ्चनं चेत् स्यात्, परीक्षाया बिभेति किम् ॥ परीक्षाया भावो वृद्धिं गतस्तदा न्यायशास्त्रस्य विकासो जात: । जैनपरम्परायां न्यायस्य बीजानि सन्ति तावदागमिकानि । तानि विकासमुपेयिवांसि सिद्धसेनस्य न्यायावतारेण सह । उत्तरोत्तरं तानि विशालभावमुपगतानि । अनेकैराचायैरत्र स्वप्रतिभायाः पाटवं प्रकटीचक्रे । फलतः समुपलभ्यन्त एतच्चर्याचञ्चवोऽनेके विशाल काया ग्रन्थाः । रुचिरुत्तरोत्तरं बिभर्ति नवानि नवानि रूपाणि । कदाचित् सा विस्तारमिच्छति कदाचिदिच्छति संक्षेपम् । अद्य समस्यासंकुलं जगत् 1. अपरिच्छ दिट्ठि ण हु एव सिद्धी सूत्रकृताङ्ग १.७.१९ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002672
Book TitleBhikshunyayakarnika
Original Sutra AuthorN/A
AuthorMahapragna Acharya
PublisherJain Vishva Bharati
Publication Year2007
Total Pages286
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy